Sūkta 13
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles bhuriktriṣṭup (1-3, 8, 10-12); virāḍjagatī (5, 6); triṣṭup (9, 13); nicṛjjagatī (4); nicṛttriṣṭup (7)
2nd set of styles jagatī (1-12); triṣṭubh (13)
-
Ṛk 1
ऋ॒तुर्जनि॑त्री॒ तस्या॑ अ॒पस्परि॑ म॒क्षू जा॒त आवि॑श॒द्यासु॒ वर्ध॑ते ।
तदा॑ह॒ना अ॑भवत्पि॒प्युषी॒ पयो॒ऽंशोः पी॒यूषं॑ प्रथ॒मं तदु॒क्थ्यं॑ ॥ऋतुर् जनित्री तस्या अपस् परि मक्षू जात आविशद् यासु वर्धते |
तद् आहना अभवत् पिप्युषी पयो ऽंशोः पीयूषम् प्रथमं तद् उक्थ्यम् ||ṛtúrjánitrī tásyā apáspári makṣū́ jātá ā́viśadyā́su várdhate ǀ
tádāhanā́ abhavatpipyúṣī páyo’ṃśóḥ pīyū́ṣam prathamám tádukthyám ǁṛtur janitrī tasyā apas pari makṣū jāta āviśad yāsu vardhate |
tad āhanā abhavat pipyuṣī payo 'ṃśoḥ pīyūṣam prathamaṃ tad ukthyam ||ऋ॒तुः । जनि॑त्री । तस्याः॑ । अ॒पः । परि॑ । म॒क्षु । जा॒तः । आ । अ॒वि॒श॒त् । यासु॑ । वर्ध॑ते ।
तत् । आ॒ह॒नाः । अ॒भ॒व॒त् । पि॒प्युषी॑ । पयः॑ । अं॒शोः । पी॒युष॑म् । प्र॒थ॒मम् । तत् । उ॒क्थ्य॑म् ॥ऋतुः । जनित्री । तस्याः । अपः । परि । मक्षु । जातः । आ । अविशत् । यासु । वर्धते ।
तत् । आहनाः । अभवत् । पिप्युषी । पयः । अंशोः । पीयुषम् । प्रथमम् । तत् । उक्थ्यम् ॥ṛtúḥ ǀ jánitrī ǀ tásyāḥ ǀ apáḥ ǀ pári ǀ makṣú ǀ jātáḥ ǀ ā́ ǀ aviśat ǀ yā́su ǀ várdhate ǀ
tát ǀ āhanā́ḥ ǀ abhavat ǀ pipyúṣī ǀ páyaḥ ǀ aṃśóḥ ǀ pīyúṣam ǀ prathamám ǀ tát ǀ ukthyám ǁṛtuḥ ǀ janitrī ǀ tasyāḥ ǀ apaḥ ǀ pari ǀ makṣu ǀ jātaḥ ǀ ā ǀ aviśat ǀ yāsu ǀ vardhate ǀ
tat ǀ āhanāḥ ǀ abhavat ǀ pipyuṣī ǀ payaḥ ǀ aṃśoḥ ǀ pīyuṣam ǀ prathamam ǀ tat ǀ ukthyam ǁ2.13.1 Aṣṭaka 2.6.10.1Anuvāka 2.2.16
-
Ṛk 2
स॒ध्रीमा यं॑ति॒ परि॒ बिभ्र॑तीः॒ पयो॑ वि॒श्वप्स्न्या॑य॒ प्र भ॑रंत॒ भोज॑नं ।
स॒मा॒नो अध्वा॑ प्र॒वता॑मनु॒ष्यदे॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ॥सध्रीम् आ यन्ति परि बिभ्रतीः पयो विश्वप्स्न्याय प्र भरन्त भोजनम् |
समानो अध्वा प्रवताम् अनुष्यदे यस् ताकृणोः प्रथमं सास्य् उक्थ्यः ||sadhrī́mā́ yanti pári bíbhratīḥ páyo viśvápsnyāya prá bharanta bhójanam ǀ
samānó ádhvā pravátāmanuṣyáde yástā́kṛṇoḥ prathamám sā́syukthyáḥ ǁsadhrīm ā yanti pari bibhratīḥ payo viśvapsnyāya pra bharanta bhojanam |
samāno adhvā pravatām anuṣyade yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ ||स॒ध्री । ई॒म् । आ । य॒न्ति॒ । परि॑ । बिभ्र॑तीः । पयः॑ । वि॒श्वऽप्स्न्या॑य । प्र । भ॒र॒न्त॒ । भोज॑नम् ।
स॒मा॒नः । अध्वा॑ । प्र॒ऽवता॑म् । अ॒नु॒ऽस्यदे॑ । यः । ता । अकृ॑णोः । प्र॒थ॒मम् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥सध्री । ईम् । आ । यन्ति । परि । बिभ्रतीः । पयः । विश्वऽप्स्न्याय । प्र । भरन्त । भोजनम् ।
समानः । अध्वा । प्रऽवताम् । अनुऽस्यदे । यः । ता । अकृणोः । प्रथमम् । सः । असि । उक्थ्यः ॥sadhrī́ ǀ īm ǀ ā́ ǀ yanti ǀ pári ǀ bíbhratīḥ ǀ páyaḥ ǀ viśvá-psnyāya ǀ prá ǀ bharanta ǀ bhójanam ǀ
samānáḥ ǀ ádhvā ǀ pra-vátām ǀ anu-syáde ǀ yáḥ ǀ tā́ ǀ ákṛṇoḥ ǀ prathamám ǀ sáḥ ǀ asi ǀ ukthyáḥ ǁsadhrī ǀ īm ǀ ā ǀ yanti ǀ pari ǀ bibhratīḥ ǀ payaḥ ǀ viśva-psnyāya ǀ pra ǀ bharanta ǀ bhojanam ǀ
samānaḥ ǀ adhvā ǀ pra-vatām ǀ anu-syade ǀ yaḥ ǀ tā ǀ akṛṇoḥ ǀ prathamam ǀ saḥ ǀ asi ǀ ukthyaḥ ǁ2.13.2 Aṣṭaka 2.6.10.2Anuvāka 2.2.17
-
Ṛk 3
अन्वेको॑ वदति॒ यद्ददा॑ति॒ तद्रू॒पा मि॒नंतद॑पा॒ एक॑ ईयते ।
विश्वा॒ एक॑स्य वि॒नुद॑स्तितिक्षते॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ॥अन्व् एको वदति यद् ददाति तद् रूपा मिनन् तदपा एक ईयते |
विश्वा एकस्य विनुदस् तितिक्षते यस् ताकृणोः प्रथमं सास्य् उक्थ्यः ||ánvéko vadati yáddádāti tádrūpā́ minántádapā éka īyate ǀ
víśvā ékasya vinúdastitikṣate yástā́kṛṇoḥ prathamám sā́syukthyáḥ ǁanv eko vadati yad dadāti tad rūpā minan tadapā eka īyate |
viśvā ekasya vinudas titikṣate yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ ||अनु॑ । एकः॑ । व॒द॒ति॒ । यत् । ददा॑ति । तत् । रू॒पा । मि॒नन् । तत्ऽअ॑पाः । एकः॑ । ई॒य॒ते॒ ।
विश्वाः॑ । एक॑स्य । वि॒ऽनुदः॑ । ति॒ति॒क्ष॒ते॒ । यः । ता । अकृ॑णोः । प्र॒थ॒मम् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥अनु । एकः । वदति । यत् । ददाति । तत् । रूपा । मिनन् । तत्ऽअपाः । एकः । ईयते ।
विश्वाः । एकस्य । विऽनुदः । तितिक्षते । यः । ता । अकृणोः । प्रथमम् । सः । असि । उक्थ्यः ॥ánu ǀ ékaḥ ǀ vadati ǀ yát ǀ dádāti ǀ tát ǀ rūpā́ ǀ minán ǀ tát-apāḥ ǀ ékaḥ ǀ īyate ǀ
víśvāḥ ǀ ékasya ǀ vi-núdaḥ ǀ titikṣate ǀ yáḥ ǀ tā́ ǀ ákṛṇoḥ ǀ prathamám ǀ sáḥ ǀ asi ǀ ukthyáḥ ǁanu ǀ ekaḥ ǀ vadati ǀ yat ǀ dadāti ǀ tat ǀ rūpā ǀ minan ǀ tat-apāḥ ǀ ekaḥ ǀ īyate ǀ
viśvāḥ ǀ ekasya ǀ vi-nudaḥ ǀ titikṣate ǀ yaḥ ǀ tā ǀ akṛṇoḥ ǀ prathamam ǀ saḥ ǀ asi ǀ ukthyaḥ ǁ2.13.3 Aṣṭaka 2.6.10.3Anuvāka 2.2.18
-
Ṛk 4
प्र॒जाभ्यः॑ पु॒ष्टिं वि॒भजं॑त आसते र॒यिमि॑व पृ॒ष्ठं प्र॒भवं॑तमाय॒ते ।
असि॑न्वं॒दंष्ट्रैः॑ पि॒तुर॑त्ति॒ भोज॑नं॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ॥प्रजाभ्यः पुष्टिं विभजन्त आसते रयिम् इव पृष्ठम् प्रभवन्तम् आयते |
असिन्वन् दंष्ट्रैः पितुर् अत्ति भोजनं यस् ताकृणोः प्रथमं सास्य् उक्थ्यः ||prajā́bhyaḥ puṣṭím vibhájanta āsate rayímiva pṛṣṭhám prabhávantamāyaté ǀ
ásinvandáṃṣṭraiḥ pitúratti bhójanam yástā́kṛṇoḥ prathamám sā́syukthyáḥ ǁprajābhyaḥ puṣṭiṃ vibhajanta āsate rayim iva pṛṣṭham prabhavantam āyate |
asinvan daṃṣṭraiḥ pitur atti bhojanaṃ yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ ||प्र॒ऽजाभ्यः॑ । पु॒ष्टिम् । वि॒ऽभज॑न्तः । आ॒स॒ते॒ । र॒यिम्ऽइ॑व । पृ॒ष्ठम् । प्र॒ऽभव॑न्तम् । आ॒ऽय॒ते ।
असि॑न्वन् । दंष्ट्रैः॑ । पि॒तुः । अ॒त्ति॒ । भोज॑नम् । यः । ता । अकृ॑णोः । प्र॒थ॒मम् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥प्रऽजाभ्यः । पुष्टिम् । विऽभजन्तः । आसते । रयिम्ऽइव । पृष्ठम् । प्रऽभवन्तम् । आऽयते ।
असिन्वन् । दंष्ट्रैः । पितुः । अत्ति । भोजनम् । यः । ता । अकृणोः । प्रथमम् । सः । असि । उक्थ्यः ॥pra-jā́bhyaḥ ǀ puṣṭím ǀ vi-bhájantaḥ ǀ āsate ǀ rayím-iva ǀ pṛṣṭhám ǀ pra-bhávantam ǀ ā-yaté ǀ
ásinvan ǀ dáṃṣṭraiḥ ǀ pitúḥ ǀ atti ǀ bhójanam ǀ yáḥ ǀ tā́ ǀ ákṛṇoḥ ǀ prathamám ǀ sáḥ ǀ asi ǀ ukthyáḥ ǁpra-jābhyaḥ ǀ puṣṭim ǀ vi-bhajantaḥ ǀ āsate ǀ rayim-iva ǀ pṛṣṭham ǀ pra-bhavantam ǀ ā-yate ǀ
asinvan ǀ daṃṣṭraiḥ ǀ pituḥ ǀ atti ǀ bhojanam ǀ yaḥ ǀ tā ǀ akṛṇoḥ ǀ prathamam ǀ saḥ ǀ asi ǀ ukthyaḥ ǁ2.13.4 Aṣṭaka 2.6.10.4Anuvāka 2.2.19
-
Ṛk 5
अधा॑कृणोः पृथि॒वीं सं॒दृशे॑ दि॒वे यो धौ॑ती॒नाम॑हिह॒न्नारि॑णक्प॒थः ।
तं त्वा॒ स्तोमे॑भिरु॒दभि॒र्न वा॒जिनं॑ दे॒वं दे॒वा अ॑जन॒न्त्सास्यु॒क्थ्यः॑ ॥अधाकृणोः पृथिवीं संदृशे दिवे यो धौतीनाम् अहिहन्न् आरिणक् पथः |
तं त्वा स्तोमेभिर् उदभिर् न वाजिनं देवं देवा अजनन् सास्य् उक्थ्यः ||ádhākṛṇoḥ pṛthivī́m saṃdṛ́śe divé yó dhautīnā́mahihannā́riṇakpatháḥ ǀ
tám tvā stómebhirudábhirná vājínam devám devā́ ajanantsā́syukthyáḥ ǁadhākṛṇoḥ pṛthivīṃ saṃdṛśe dive yo dhautīnām ahihann āriṇak pathaḥ |
taṃ tvā stomebhir udabhir na vājinaṃ devaṃ devā ajanan sāsy ukthyaḥ ||अध॑ । अ॒कृ॒णोः॒ । पृ॒थि॒वीम् । स॒म्ऽदृशे॑ । दि॒वे । यः । धौ॒ती॒नाम् । अ॒हि॒ऽह॒न् । अरि॑णक् । प॒थः ।
तम् । त्वा॒ । स्तोमे॑भिः । उ॒दऽभिः॑ । न । वा॒जिन॑म् । दे॒वम् । दे॒वाः । अ॒ज॒न॒न् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥अध । अकृणोः । पृथिवीम् । सम्ऽदृशे । दिवे । यः । धौतीनाम् । अहिऽहन् । अरिणक् । पथः ।
तम् । त्वा । स्तोमेभिः । उदऽभिः । न । वाजिनम् । देवम् । देवाः । अजनन् । सः । असि । उक्थ्यः ॥ádha ǀ akṛṇoḥ ǀ pṛthivī́m ǀ sam-dṛ́śe ǀ divé ǀ yáḥ ǀ dhautīnā́m ǀ ahi-han ǀ áriṇak ǀ patháḥ ǀ
tám ǀ tvā ǀ stómebhiḥ ǀ udá-bhiḥ ǀ ná ǀ vājínam ǀ devám ǀ devā́ḥ ǀ ajanan ǀ sáḥ ǀ asi ǀ ukthyáḥ ǁadha ǀ akṛṇoḥ ǀ pṛthivīm ǀ sam-dṛśe ǀ dive ǀ yaḥ ǀ dhautīnām ǀ ahi-han ǀ ariṇak ǀ pathaḥ ǀ
tam ǀ tvā ǀ stomebhiḥ ǀ uda-bhiḥ ǀ na ǀ vājinam ǀ devam ǀ devāḥ ǀ ajanan ǀ saḥ ǀ asi ǀ ukthyaḥ ǁ2.13.5 Aṣṭaka 2.6.10.5Anuvāka 2.2.20
-
Ṛk 6
यो भोज॑नं च॒ दय॑से च॒ वर्ध॑नमा॒र्द्रादा शुष्कं॒ मधु॑मद्दु॒दोहि॑थ ।
स शे॑व॒धिं नि द॑धिषे वि॒वस्व॑ति॒ विश्व॒स्यैक॑ ईशिषे॒ सास्यु॒क्थ्यः॑ ॥यो भोजनं च दयसे च वर्धनम् आर्द्राद् आ शुष्कम् मधुमद् दुदोहिथ |
स शेवधिं नि दधिषे विवस्वति विश्वस्यैक ईशिषे सास्य् उक्थ्यः ||yó bhójanam ca dáyase ca várdhanamārdrā́dā́ śúṣkam mádhumaddudóhitha ǀ
sá śevadhím ní dadhiṣe vivásvati víśvasyáika īśiṣe sā́syukthyáḥ ǁyo bhojanaṃ ca dayase ca vardhanam ārdrād ā śuṣkam madhumad dudohitha |
sa śevadhiṃ ni dadhiṣe vivasvati viśvasyaika īśiṣe sāsy ukthyaḥ ||यः । भोज॑नम् । च॒ । दय॑से । च॒ । वर्ध॑नम् । आ॒र्द्रात् । आ । शुष्क॑म् । मधु॑ऽमत् । दु॒दोहि॑थ ।
सः । शे॒व॒ऽधिम् । नि । द॒धि॒षे॒ । वि॒वस्व॑ति । विश्व॑स्य । एकः॑ । ई॒शि॒षे॒ । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥यः । भोजनम् । च । दयसे । च । वर्धनम् । आर्द्रात् । आ । शुष्कम् । मधुऽमत् । दुदोहिथ ।
सः । शेवऽधिम् । नि । दधिषे । विवस्वति । विश्वस्य । एकः । ईशिषे । सः । असि । उक्थ्यः ॥yáḥ ǀ bhójanam ǀ ca ǀ dáyase ǀ ca ǀ várdhanam ǀ ārdrā́t ǀ ā́ ǀ śúṣkam ǀ mádhu-mat ǀ dudóhitha ǀ
sáḥ ǀ śeva-dhím ǀ ní ǀ dadhiṣe ǀ vivásvati ǀ víśvasya ǀ ékaḥ ǀ īśiṣe ǀ sáḥ ǀ asi ǀ ukthyáḥ ǁyaḥ ǀ bhojanam ǀ ca ǀ dayase ǀ ca ǀ vardhanam ǀ ārdrāt ǀ ā ǀ śuṣkam ǀ madhu-mat ǀ dudohitha ǀ
saḥ ǀ śeva-dhim ǀ ni ǀ dadhiṣe ǀ vivasvati ǀ viśvasya ǀ ekaḥ ǀ īśiṣe ǀ saḥ ǀ asi ǀ ukthyaḥ ǁ2.13.6 Aṣṭaka 2.6.11.1Anuvāka 2.2.21
-
Ṛk 7
यः पु॒ष्पिणी॑श्च प्र॒स्व॑श्च॒ धर्म॒णाधि॒ दाने॒ व्य१॒॑वनी॒रधा॑रयः ।
यश्चास॑मा॒ अज॑नो दि॒द्युतो॑ दि॒व उ॒रुरू॒र्वाँ अ॒भितः॒ सास्यु॒क्थ्यः॑ ॥यः पुष्पिणीश् च प्रस्वश् च धर्मणाधि दाने व्य् अवनीर् अधारयः |
यश् चासमा अजनो दिद्युतो दिव उरुर् ऊर्वां अभितः सास्य् उक्थ्यः ||yáḥ puṣpíṇīśca prasváśca dhármaṇā́dhi dā́ne vyávánīrádhārayaḥ ǀ
yáścā́samā ájano didyúto divá urúrūrvā́m̐ abhítaḥ sā́syukthyaḥ ǁyaḥ puṣpiṇīś ca prasvaś ca dharmaṇādhi dāne vy avanīr adhārayaḥ |
yaś cāsamā ajano didyuto diva urur ūrvāṃ abhitaḥ sāsy ukthyaḥ ||यः । पु॒ष्पिणीः॑ । च॒ । प्र॒ऽस्वः॑ । च॒ । धर्म॑णा । अधि॑ । दाने॑ । वि । अ॒वनीः॑ । अधा॑रयः ।
यः । च॒ । अस॑माः । अज॑नः । दि॒द्युतः॑ । दि॒वः । उ॒रुः । ऊ॒र्वान् । अ॒भितः॑ । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥यः । पुष्पिणीः । च । प्रऽस्वः । च । धर्मणा । अधि । दाने । वि । अवनीः । अधारयः ।
यः । च । असमाः । अजनः । दिद्युतः । दिवः । उरुः । ऊर्वान् । अभितः । सः । असि । उक्थ्यः ॥yáḥ ǀ puṣpíṇīḥ ǀ ca ǀ pra-sváḥ ǀ ca ǀ dhármaṇā ǀ ádhi ǀ dā́ne ǀ ví ǀ avánīḥ ǀ ádhārayaḥ ǀ
yáḥ ǀ ca ǀ ásamāḥ ǀ ájanaḥ ǀ didyútaḥ ǀ diváḥ ǀ urúḥ ǀ ūrvā́n ǀ abhítaḥ ǀ sáḥ ǀ asi ǀ ukthyáḥ ǁyaḥ ǀ puṣpiṇīḥ ǀ ca ǀ pra-svaḥ ǀ ca ǀ dharmaṇā ǀ adhi ǀ dāne ǀ vi ǀ avanīḥ ǀ adhārayaḥ ǀ
yaḥ ǀ ca ǀ asamāḥ ǀ ajanaḥ ǀ didyutaḥ ǀ divaḥ ǀ uruḥ ǀ ūrvān ǀ abhitaḥ ǀ saḥ ǀ asi ǀ ukthyaḥ ǁ2.13.7 Aṣṭaka 2.6.11.2Anuvāka 2.2.22
-
Ṛk 8
यो ना॑र्म॒रं स॒हव॑सुं॒ निहं॑तवे पृ॒क्षाय॑ च दा॒सवे॑शाय॒ चाव॑हः ।
ऊ॒र्जयं॑त्या॒ अप॑रिविष्टमा॒स्य॑मु॒तैवाद्य पु॑रुकृ॒त्सास्यु॒क्थ्यः॑ ॥यो नार्मरं सहवसुं निहन्तवे पृक्षाय च दासवेशाय चावहः |
ऊर्जयन्त्या अपरिविष्टम् आस्यम् उतैवाद्य पुरुकृत् सास्य् उक्थ्यः ||yó nārmarám sahávasum níhantave pṛkṣā́ya ca dāsáveśāya cā́vahaḥ ǀ
ūrjáyantyā ápariviṣṭamāsyámutáivā́dyá purukṛtsā́syukthyáḥ ǁyo nārmaraṃ sahavasuṃ nihantave pṛkṣāya ca dāsaveśāya cāvahaḥ |
ūrjayantyā apariviṣṭam āsyam utaivādya purukṛt sāsy ukthyaḥ ||यः । ना॒र्म॒रम् । स॒हऽव॑सुम् । निऽह॑न्तवे । पृ॒क्षाय॑ । च॒ । दा॒सऽवे॑शाय । च॒ । अव॑हः ।
ऊ॒र्जय॑न्त्याः । अप॑रिऽविष्टम् । आ॒स्य॑म् । उ॒त । ए॒व । अ॒द्य । पु॒रु॒ऽकृ॒त् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥यः । नार्मरम् । सहऽवसुम् । निऽहन्तवे । पृक्षाय । च । दासऽवेशाय । च । अवहः ।
ऊर्जयन्त्याः । अपरिऽविष्टम् । आस्यम् । उत । एव । अद्य । पुरुऽकृत् । सः । असि । उक्थ्यः ॥yáḥ ǀ nārmarám ǀ sahá-vasum ǀ ní-hantave ǀ pṛkṣā́ya ǀ ca ǀ dāsá-veśāya ǀ ca ǀ ávahaḥ ǀ
ūrjáyantyāḥ ǀ ápari-viṣṭam ǀ āsyám ǀ utá ǀ evá ǀ adyá ǀ puru-kṛt ǀ sáḥ ǀ asi ǀ ukthyáḥ ǁyaḥ ǀ nārmaram ǀ saha-vasum ǀ ni-hantave ǀ pṛkṣāya ǀ ca ǀ dāsa-veśāya ǀ ca ǀ avahaḥ ǀ
ūrjayantyāḥ ǀ apari-viṣṭam ǀ āsyam ǀ uta ǀ eva ǀ adya ǀ puru-kṛt ǀ saḥ ǀ asi ǀ ukthyaḥ ǁ2.13.8 Aṣṭaka 2.6.11.3Anuvāka 2.2.23
-
Ṛk 9
श॒तं वा॒ यस्य॒ दश॑ सा॒कमाद्य॒ एक॑स्य श्रु॒ष्टौ यद्ध॑ चो॒दमावि॑थ ।
अ॒र॒ज्जौ दस्यू॒न्त्समु॑नब्द॒भीत॑ये सुप्रा॒व्यो॑ अभवः॒ सास्यु॒क्थ्यः॑ ॥शतं वा यस्य दश साकम् आद्य एकस्य श्रुष्टौ यद् ध चोदम् आविथ |
अरज्जौ दस्यून् सम् उनब् दभीतये सुप्राव्यो अभवः सास्य् उक्थ्यः ||śatám vā yásya dáśa sākámā́dya ékasya śruṣṭáu yáddha codámā́vitha ǀ
arajjáu dásyūntsámunabdabhī́taye suprāvyó abhavaḥ sā́syukthyáḥ ǁśataṃ vā yasya daśa sākam ādya ekasya śruṣṭau yad dha codam āvitha |
arajjau dasyūn sam unab dabhītaye suprāvyo abhavaḥ sāsy ukthyaḥ ||श॒तम् । वा॒ । यस्य॑ । दश॑ । सा॒कम् । आ । अद्यः॑ । एक॑स्य । श्रु॒ष्टौ । यत् । ह॒ । चो॒दम् । आवि॑थ ।
अ॒र॒ज्जौ । दस्यू॑न् । सम् । उ॒न॒प् । द॒भीत॑ये । सु॒प्र॒ऽअ॒व्यः॑ । अ॒भ॒वः॒ । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥शतम् । वा । यस्य । दश । साकम् । आ । अद्यः । एकस्य । श्रुष्टौ । यत् । ह । चोदम् । आविथ ।
अरज्जौ । दस्यून् । सम् । उनप् । दभीतये । सुप्रऽअव्यः । अभवः । सः । असि । उक्थ्यः ॥śatám ǀ vā ǀ yásya ǀ dáśa ǀ sākám ǀ ā́ ǀ ádyaḥ ǀ ékasya ǀ śruṣṭáu ǀ yát ǀ ha ǀ codám ǀ ā́vitha ǀ
arajjáu ǀ dásyūn ǀ sám ǀ unap ǀ dabhī́taye ǀ supra-avyáḥ ǀ abhavaḥ ǀ sáḥ ǀ asi ǀ ukthyáḥ ǁśatam ǀ vā ǀ yasya ǀ daśa ǀ sākam ǀ ā ǀ adyaḥ ǀ ekasya ǀ śruṣṭau ǀ yat ǀ ha ǀ codam ǀ āvitha ǀ
arajjau ǀ dasyūn ǀ sam ǀ unap ǀ dabhītaye ǀ supra-avyaḥ ǀ abhavaḥ ǀ saḥ ǀ asi ǀ ukthyaḥ ǁ2.13.9 Aṣṭaka 2.6.11.4Anuvāka 2.2.24
-
Ṛk 10
विश्वेदनु॑ रोध॒ना अ॑स्य॒ पौंस्यं॑ द॒दुर॑स्मै दधि॒रे कृ॒त्नवे॒ धनं॑ ।
षळ॑स्तभ्ना वि॒ष्टिरः॒ पंच॑ सं॒दृशः॒ परि॑ प॒रो अ॑भवः॒ सास्यु॒क्थ्यः॑ ॥विश्वेद् अनु रोधना अस्य पौंस्यं ददुर् अस्मै दधिरे कृत्नवे धनम् |
षऌ अस्तभ्ना विष्टिरः पञ्च संदृशः परि परो अभवः सास्य् उक्थ्यः ||víśvédánu rodhanā́ asya páuṃsyam dadúrasmai dadhiré kṛtnáve dhánam ǀ
ṣáḷastabhnā viṣṭíraḥ páñca saṃdṛ́śaḥ pári paró abhavaḥ sā́syukthyáḥ ǁviśved anu rodhanā asya pauṃsyaṃ dadur asmai dadhire kṛtnave dhanam |
ṣaḷ astabhnā viṣṭiraḥ pañca saṃdṛśaḥ pari paro abhavaḥ sāsy ukthyaḥ ||विश्वा॑ । इत् । अनु॑ । रो॒ध॒नाः । अ॒स्य॒ । पौंस्य॑म् । द॒दुः । अ॒स्मै॒ । द॒धि॒रे । कृ॒त्नवे॑ । धन॑म् ।
षट् । अ॒स्त॒भ्नाः॒ । वि॒ऽस्तिरः॑ । पञ्च॑ । स॒म्ऽदृशः॑ । परि॑ । प॒रः । अ॒भ॒वः॒ । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥विश्वा । इत् । अनु । रोधनाः । अस्य । पौंस्यम् । ददुः । अस्मै । दधिरे । कृत्नवे । धनम् ।
षट् । अस्तभ्नाः । विऽस्तिरः । पञ्च । सम्ऽदृशः । परि । परः । अभवः । सः । असि । उक्थ्यः ॥víśvā ǀ ít ǀ ánu ǀ rodhanā́ḥ ǀ asya ǀ páuṃsyam ǀ dadúḥ ǀ asmai ǀ dadhiré ǀ kṛtnáve ǀ dhánam ǀ
ṣáṭ ǀ astabhnāḥ ǀ vi-stíraḥ ǀ páñca ǀ sam-dṛ́śaḥ ǀ pári ǀ paráḥ ǀ abhavaḥ ǀ sáḥ ǀ asi ǀ ukthyáḥ ǁviśvā ǀ it ǀ anu ǀ rodhanāḥ ǀ asya ǀ pauṃsyam ǀ daduḥ ǀ asmai ǀ dadhire ǀ kṛtnave ǀ dhanam ǀ
ṣaṭ ǀ astabhnāḥ ǀ vi-stiraḥ ǀ pañca ǀ sam-dṛśaḥ ǀ pari ǀ paraḥ ǀ abhavaḥ ǀ saḥ ǀ asi ǀ ukthyaḥ ǁ2.13.10 Aṣṭaka 2.6.11.5Anuvāka 2.2.25
-
Ṛk 11
सु॒प्र॒वा॒च॒नं तव॑ वीर वी॒र्यं१॒॑ यदेके॑न॒ क्रतु॑ना विं॒दसे॒ वसु॑ ।
जा॒तूष्ठि॑रस्य॒ प्र वयः॒ सह॑स्वतो॒ या च॒कर्थ॒ सेंद्र॒ विश्वा॑स्यु॒क्थ्यः॑ ॥सुप्रवाचनं तव वीर वीर्यं यद् एकेन क्रतुना विन्दसे वसु |
जातूष्ठिरस्य प्र वयः सहस्वतो या चकर्थ सेन्द्र विश्वास्य् उक्थ्यः ||supravācanám táva vīra vīryám yádékena krátunā vindáse vásu ǀ
jātū́ṣṭhirasya prá váyaḥ sáhasvato yā́ cakártha séndra víśvāsyukthyáḥ ǁsupravācanaṃ tava vīra vīryaṃ yad ekena kratunā vindase vasu |
jātūṣṭhirasya pra vayaḥ sahasvato yā cakartha sendra viśvāsy ukthyaḥ ||सु॒ऽप्र॒वा॒च॒नम् । तव॑ । वी॒र॒ । वी॒र्य॑म् । यत् । एके॑न । क्रतु॑ना । वि॒न्दसे॑ । वसु॑ ।
जा॒तूऽस्थि॑रस्य । प्र । वयः॑ । सह॑स्वतः । या । च॒कर्थ॑ । सः । इ॒न्द्र॒ । विश्वा॑ । अ॒सि॒ । उ॒क्थ्यः॑ ॥सुऽप्रवाचनम् । तव । वीर । वीर्यम् । यत् । एकेन । क्रतुना । विन्दसे । वसु ।
जातूऽस्थिरस्य । प्र । वयः । सहस्वतः । या । चकर्थ । सः । इन्द्र । विश्वा । असि । उक्थ्यः ॥su-pravācanám ǀ táva ǀ vīra ǀ vīryám ǀ yát ǀ ékena ǀ krátunā ǀ vindáse ǀ vásu ǀ
jātū́-sthirasya ǀ prá ǀ váyaḥ ǀ sáhasvataḥ ǀ yā́ ǀ cakártha ǀ sáḥ ǀ indra ǀ víśvā ǀ asi ǀ ukthyáḥ ǁsu-pravācanam ǀ tava ǀ vīra ǀ vīryam ǀ yat ǀ ekena ǀ kratunā ǀ vindase ǀ vasu ǀ
jātū-sthirasya ǀ pra ǀ vayaḥ ǀ sahasvataḥ ǀ yā ǀ cakartha ǀ saḥ ǀ indra ǀ viśvā ǀ asi ǀ ukthyaḥ ǁ2.13.11 Aṣṭaka 2.6.12.1Anuvāka 2.2.26
-
Ṛk 12
अर॑मयः॒ सर॑पस॒स्तरा॑य॒ कं तु॒र्वीत॑ये च व॒य्या॑य च स्रु॒तिं ।
नी॒चा संत॒मुद॑नयः परा॒वृजं॒ प्रांधं श्रो॒णं श्र॒वय॒न्त्सास्यु॒क्थ्यः॑ ॥अरमयः सरपसस् तराय कं तुर्वीतये च वय्याय च स्रुतिम् |
नीचा सन्तम् उद् अनयः परावृजम् प्रान्धं श्रोणं श्रवयन् सास्य् उक्थ्यः ||áramayaḥ sárapasastárāya kám turvī́taye ca vayyā́ya ca srutím ǀ
nīcā́ sántamúdanayaḥ parāvṛ́jam prā́ndhám śroṇám śraváyantsā́syukthyáḥ ǁaramayaḥ sarapasas tarāya kaṃ turvītaye ca vayyāya ca srutim |
nīcā santam ud anayaḥ parāvṛjam prāndhaṃ śroṇaṃ śravayan sāsy ukthyaḥ ||अर॑मयः । सर॑ऽअपसः । तरा॑य । कम् । तु॒र्वीत॑ये । च॒ । व॒य्या॑य । च॒ । स्रु॒तिम् ।
नी॒चा । सन्त॑म् । उत् । अ॒न॒यः॒ । प॒रा॒ऽवृज॑म् । प्र । अ॒न्धम् । श्रो॒णम् । श्र॒वय॑न् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥अरमयः । सरऽअपसः । तराय । कम् । तुर्वीतये । च । वय्याय । च । स्रुतिम् ।
नीचा । सन्तम् । उत् । अनयः । पराऽवृजम् । प्र । अन्धम् । श्रोणम् । श्रवयन् । सः । असि । उक्थ्यः ॥áramayaḥ ǀ sára-apasaḥ ǀ tárāya ǀ kám ǀ turvī́taye ǀ ca ǀ vayyā́ya ǀ ca ǀ srutím ǀ
nīcā́ ǀ sántam ǀ út ǀ anayaḥ ǀ parā-vṛ́jam ǀ prá ǀ andhám ǀ śroṇám ǀ śraváyan ǀ sáḥ ǀ asi ǀ ukthyáḥ ǁaramayaḥ ǀ sara-apasaḥ ǀ tarāya ǀ kam ǀ turvītaye ǀ ca ǀ vayyāya ǀ ca ǀ srutim ǀ
nīcā ǀ santam ǀ ut ǀ anayaḥ ǀ parā-vṛjam ǀ pra ǀ andham ǀ śroṇam ǀ śravayan ǀ saḥ ǀ asi ǀ ukthyaḥ ǁ2.13.12 Aṣṭaka 2.6.12.2Anuvāka 2.2.27
-
Ṛk 13
अ॒स्मभ्यं॒ तद्व॑सो दा॒नाय॒ राधः॒ सम॑र्थयस्व ब॒हु ते॑ वस॒व्यं॑ ।
इंद्र॒ यच्चि॒त्रं श्र॑व॒स्या अनु॒ द्यून्बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥अस्मभ्यं तद् वसो दानाय राधः सम् अर्थयस्व बहु ते वसव्यम् |
इन्द्र यच् चित्रं श्रवस्या अनु द्यून् बृहद् वदेम विदथे सुवीराः ||asmábhyam tádvaso dānā́ya rā́dhaḥ sámarthayasva bahú te vasavyám ǀ
índra yáccitrám śravasyā́ ánu dyū́nbṛhádvadema vidáthe suvī́rāḥ ǁasmabhyaṃ tad vaso dānāya rādhaḥ sam arthayasva bahu te vasavyam |
indra yac citraṃ śravasyā anu dyūn bṛhad vadema vidathe suvīrāḥ ||अ॒स्मभ्य॑म् । तत् । व॒सो॒ इति॑ । दा॒नाय॑ । राधः॑ । सम् । अ॒र्थ॒य॒स्व॒ । ब॒हु । ते॒ । व॒स॒व्य॑म् ।
इन्द्र॑ । यत् । चि॒त्रम् । श्र॒व॒स्याः । अनु॑ । द्यून् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥अस्मभ्यम् । तत् । वसो इति । दानाय । राधः । सम् । अर्थयस्व । बहु । ते । वसव्यम् ।
इन्द्र । यत् । चित्रम् । श्रवस्याः । अनु । द्यून् । बृहत् । वदेम । विदथे । सुऽवीराः ॥asmábhyam ǀ tát ǀ vaso íti ǀ dānā́ya ǀ rā́dhaḥ ǀ sám ǀ arthayasva ǀ bahú ǀ te ǀ vasavyám ǀ
índra ǀ yát ǀ citrám ǀ śravasyā́ḥ ǀ ánu ǀ dyū́n ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁasmabhyam ǀ tat ǀ vaso iti ǀ dānāya ǀ rādhaḥ ǀ sam ǀ arthayasva ǀ bahu ǀ te ǀ vasavyam ǀ
indra ǀ yat ǀ citram ǀ śravasyāḥ ǀ anu ǀ dyūn ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ2.13.13 Aṣṭaka 2.6.12.3Anuvāka 2.2.28
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.