Ṛk 2.13.1
Saṃhitā
ऋ॒तुर्जनि॑त्री॒ तस्या॑ अ॒पस्परि॑ म॒क्षू जा॒त आवि॑श॒द्यासु॒ वर्ध॑ते ।
तदा॑ह॒ना अ॑भवत्पि॒प्युषी॒ पयो॒ऽंशोः पी॒यूषं॑ प्रथ॒मं तदु॒क्थ्यं॑ ॥
ऋतुर् जनित्री तस्या अपस् परि मक्षू जात आविशद् यासु वर्धते |
तद् आहना अभवत् पिप्युषी पयो ऽंशोः पीयूषम् प्रथमं तद् उक्थ्यम् ||
ṛtúrjánitrī tásyā apáspári makṣū́ jātá ā́viśadyā́su várdhate ǀ
tádāhanā́ abhavatpipyúṣī páyo’ṃśóḥ pīyū́ṣam prathamám tádukthyám ǁ
ṛtur janitrī tasyā apas pari makṣū jāta āviśad yāsu vardhate |
tad āhanā abhavat pipyuṣī payo 'ṃśoḥ pīyūṣam prathamaṃ tad ukthyam ||
Padapāṭha
ऋ॒तुः । जनि॑त्री । तस्याः॑ । अ॒पः । परि॑ । म॒क्षु । जा॒तः । आ । अ॒वि॒श॒त् । यासु॑ । वर्ध॑ते ।
तत् । आ॒ह॒नाः । अ॒भ॒व॒त् । पि॒प्युषी॑ । पयः॑ । अं॒शोः । पी॒युष॑म् । प्र॒थ॒मम् । तत् । उ॒क्थ्य॑म् ॥
ऋतुः । जनित्री । तस्याः । अपः । परि । मक्षु । जातः । आ । अविशत् । यासु । वर्धते ।
तत् । आहनाः । अभवत् । पिप्युषी । पयः । अंशोः । पीयुषम् । प्रथमम् । तत् । उक्थ्यम् ॥
ṛtúḥ ǀ jánitrī ǀ tásyāḥ ǀ apáḥ ǀ pári ǀ makṣú ǀ jātáḥ ǀ ā́ ǀ aviśat ǀ yā́su ǀ várdhate ǀ
tát ǀ āhanā́ḥ ǀ abhavat ǀ pipyúṣī ǀ páyaḥ ǀ aṃśóḥ ǀ pīyúṣam ǀ prathamám ǀ tát ǀ ukthyám ǁ
ṛtuḥ ǀ janitrī ǀ tasyāḥ ǀ apaḥ ǀ pari ǀ makṣu ǀ jātaḥ ǀ ā ǀ aviśat ǀ yāsu ǀ vardhate ǀ
tat ǀ āhanāḥ ǀ abhavat ǀ pipyuṣī ǀ payaḥ ǀ aṃśoḥ ǀ pīyuṣam ǀ prathamam ǀ tat ǀ ukthyam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.013.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.10.01
- Maṇḍala · Anuvāka · Ṛk
- 02.02.016
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.