Ṛk 2.13.8
Saṃhitā
यो ना॑र्म॒रं स॒हव॑सुं॒ निहं॑तवे पृ॒क्षाय॑ च दा॒सवे॑शाय॒ चाव॑हः ।
ऊ॒र्जयं॑त्या॒ अप॑रिविष्टमा॒स्य॑मु॒तैवाद्य पु॑रुकृ॒त्सास्यु॒क्थ्यः॑ ॥
यो नार्मरं सहवसुं निहन्तवे पृक्षाय च दासवेशाय चावहः |
ऊर्जयन्त्या अपरिविष्टम् आस्यम् उतैवाद्य पुरुकृत् सास्य् उक्थ्यः ||
yó nārmarám sahávasum níhantave pṛkṣā́ya ca dāsáveśāya cā́vahaḥ ǀ
ūrjáyantyā ápariviṣṭamāsyámutáivā́dyá purukṛtsā́syukthyáḥ ǁ
yo nārmaraṃ sahavasuṃ nihantave pṛkṣāya ca dāsaveśāya cāvahaḥ |
ūrjayantyā apariviṣṭam āsyam utaivādya purukṛt sāsy ukthyaḥ ||
Padapāṭha
यः । ना॒र्म॒रम् । स॒हऽव॑सुम् । निऽह॑न्तवे । पृ॒क्षाय॑ । च॒ । दा॒सऽवे॑शाय । च॒ । अव॑हः ।
ऊ॒र्जय॑न्त्याः । अप॑रिऽविष्टम् । आ॒स्य॑म् । उ॒त । ए॒व । अ॒द्य । पु॒रु॒ऽकृ॒त् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥
यः । नार्मरम् । सहऽवसुम् । निऽहन्तवे । पृक्षाय । च । दासऽवेशाय । च । अवहः ।
ऊर्जयन्त्याः । अपरिऽविष्टम् । आस्यम् । उत । एव । अद्य । पुरुऽकृत् । सः । असि । उक्थ्यः ॥
yáḥ ǀ nārmarám ǀ sahá-vasum ǀ ní-hantave ǀ pṛkṣā́ya ǀ ca ǀ dāsá-veśāya ǀ ca ǀ ávahaḥ ǀ
ūrjáyantyāḥ ǀ ápari-viṣṭam ǀ āsyám ǀ utá ǀ evá ǀ adyá ǀ puru-kṛt ǀ sáḥ ǀ asi ǀ ukthyáḥ ǁ
yaḥ ǀ nārmaram ǀ saha-vasum ǀ ni-hantave ǀ pṛkṣāya ǀ ca ǀ dāsa-veśāya ǀ ca ǀ avahaḥ ǀ
ūrjayantyāḥ ǀ apari-viṣṭam ǀ āsyam ǀ uta ǀ eva ǀ adya ǀ puru-kṛt ǀ saḥ ǀ asi ǀ ukthyaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.013.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.11.03
- Maṇḍala · Anuvāka · Ṛk
- 02.02.023
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.