Ṛk 2.13.5
Saṃhitā
अधा॑कृणोः पृथि॒वीं सं॒दृशे॑ दि॒वे यो धौ॑ती॒नाम॑हिह॒न्नारि॑णक्प॒थः ।
तं त्वा॒ स्तोमे॑भिरु॒दभि॒र्न वा॒जिनं॑ दे॒वं दे॒वा अ॑जन॒न्त्सास्यु॒क्थ्यः॑ ॥
अधाकृणोः पृथिवीं संदृशे दिवे यो धौतीनाम् अहिहन्न् आरिणक् पथः |
तं त्वा स्तोमेभिर् उदभिर् न वाजिनं देवं देवा अजनन् सास्य् उक्थ्यः ||
ádhākṛṇoḥ pṛthivī́m saṃdṛ́śe divé yó dhautīnā́mahihannā́riṇakpatháḥ ǀ
tám tvā stómebhirudábhirná vājínam devám devā́ ajanantsā́syukthyáḥ ǁ
adhākṛṇoḥ pṛthivīṃ saṃdṛśe dive yo dhautīnām ahihann āriṇak pathaḥ |
taṃ tvā stomebhir udabhir na vājinaṃ devaṃ devā ajanan sāsy ukthyaḥ ||
Padapāṭha
अध॑ । अ॒कृ॒णोः॒ । पृ॒थि॒वीम् । स॒म्ऽदृशे॑ । दि॒वे । यः । धौ॒ती॒नाम् । अ॒हि॒ऽह॒न् । अरि॑णक् । प॒थः ।
तम् । त्वा॒ । स्तोमे॑भिः । उ॒दऽभिः॑ । न । वा॒जिन॑म् । दे॒वम् । दे॒वाः । अ॒ज॒न॒न् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥
अध । अकृणोः । पृथिवीम् । सम्ऽदृशे । दिवे । यः । धौतीनाम् । अहिऽहन् । अरिणक् । पथः ।
तम् । त्वा । स्तोमेभिः । उदऽभिः । न । वाजिनम् । देवम् । देवाः । अजनन् । सः । असि । उक्थ्यः ॥
ádha ǀ akṛṇoḥ ǀ pṛthivī́m ǀ sam-dṛ́śe ǀ divé ǀ yáḥ ǀ dhautīnā́m ǀ ahi-han ǀ áriṇak ǀ patháḥ ǀ
tám ǀ tvā ǀ stómebhiḥ ǀ udá-bhiḥ ǀ ná ǀ vājínam ǀ devám ǀ devā́ḥ ǀ ajanan ǀ sáḥ ǀ asi ǀ ukthyáḥ ǁ
adha ǀ akṛṇoḥ ǀ pṛthivīm ǀ sam-dṛśe ǀ dive ǀ yaḥ ǀ dhautīnām ǀ ahi-han ǀ ariṇak ǀ pathaḥ ǀ
tam ǀ tvā ǀ stomebhiḥ ǀ uda-bhiḥ ǀ na ǀ vājinam ǀ devam ǀ devāḥ ǀ ajanan ǀ saḥ ǀ asi ǀ ukthyaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.013.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.10.05
- Maṇḍala · Anuvāka · Ṛk
- 02.02.020
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.