Ṛk 2.13.12
Saṃhitā
अर॑मयः॒ सर॑पस॒स्तरा॑य॒ कं तु॒र्वीत॑ये च व॒य्या॑य च स्रु॒तिं ।
नी॒चा संत॒मुद॑नयः परा॒वृजं॒ प्रांधं श्रो॒णं श्र॒वय॒न्त्सास्यु॒क्थ्यः॑ ॥
अरमयः सरपसस् तराय कं तुर्वीतये च वय्याय च स्रुतिम् |
नीचा सन्तम् उद् अनयः परावृजम् प्रान्धं श्रोणं श्रवयन् सास्य् उक्थ्यः ||
áramayaḥ sárapasastárāya kám turvī́taye ca vayyā́ya ca srutím ǀ
nīcā́ sántamúdanayaḥ parāvṛ́jam prā́ndhám śroṇám śraváyantsā́syukthyáḥ ǁ
aramayaḥ sarapasas tarāya kaṃ turvītaye ca vayyāya ca srutim |
nīcā santam ud anayaḥ parāvṛjam prāndhaṃ śroṇaṃ śravayan sāsy ukthyaḥ ||
Padapāṭha
अर॑मयः । सर॑ऽअपसः । तरा॑य । कम् । तु॒र्वीत॑ये । च॒ । व॒य्या॑य । च॒ । स्रु॒तिम् ।
नी॒चा । सन्त॑म् । उत् । अ॒न॒यः॒ । प॒रा॒ऽवृज॑म् । प्र । अ॒न्धम् । श्रो॒णम् । श्र॒वय॑न् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥
अरमयः । सरऽअपसः । तराय । कम् । तुर्वीतये । च । वय्याय । च । स्रुतिम् ।
नीचा । सन्तम् । उत् । अनयः । पराऽवृजम् । प्र । अन्धम् । श्रोणम् । श्रवयन् । सः । असि । उक्थ्यः ॥
áramayaḥ ǀ sára-apasaḥ ǀ tárāya ǀ kám ǀ turvī́taye ǀ ca ǀ vayyā́ya ǀ ca ǀ srutím ǀ
nīcā́ ǀ sántam ǀ út ǀ anayaḥ ǀ parā-vṛ́jam ǀ prá ǀ andhám ǀ śroṇám ǀ śraváyan ǀ sáḥ ǀ asi ǀ ukthyáḥ ǁ
aramayaḥ ǀ sara-apasaḥ ǀ tarāya ǀ kam ǀ turvītaye ǀ ca ǀ vayyāya ǀ ca ǀ srutim ǀ
nīcā ǀ santam ǀ ut ǀ anayaḥ ǀ parā-vṛjam ǀ pra ǀ andham ǀ śroṇam ǀ śravayan ǀ saḥ ǀ asi ǀ ukthyaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.013.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.12.02
- Maṇḍala · Anuvāka · Ṛk
- 02.02.027
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.