Sūkta 39
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (4, 7, 8); svarāṭpaṅkti (5, 6); nicṛttriṣṭup (1); bhurikpaṅkti (2); virāṭtrisṭup (3)
2nd set of styles triṣṭubh
-
Ṛk 1
ग्रावा॑णेव॒ तदिदर्थं॑ जरेथे॒ गृध्रे॑व वृ॒क्षं नि॑धि॒मंत॒मच्छ॑ ।
ब्र॒ह्माणे॑व वि॒दथ॑ उक्थ॒शासा॑ दू॒तेव॒ हव्या॒ जन्या॑ पुरु॒त्रा ॥ग्रावाणेव तद् इद् अर्थं जरेथे गृध्रेव वृक्षं निधिमन्तम् अच्छ |
ब्रह्माणेव विदथ उक्थशासा दूतेव हव्या जन्या पुरुत्रा ||grā́vāṇeva tádídártham jarethe gṛ́dhreva vṛkṣám nidhimántamáccha ǀ
brahmā́ṇeva vidátha ukthaśā́sā dūtéva hávyā jányā purutrā́ ǁgrāvāṇeva tad id arthaṃ jarethe gṛdhreva vṛkṣaṃ nidhimantam accha |
brahmāṇeva vidatha ukthaśāsā dūteva havyā janyā purutrā ||ग्रावा॑णाऽइव । तत् । इत् । अर्थ॑म् । ज॒रे॒थे॒ इति॑ । गृध्रा॑ऽइव । वृ॒क्षम् । नि॒धि॒ऽमन्त॑म् । अच्छ॑ ।
ब्र॒ह्माणा॑ऽइव । वि॒दथे॑ । उ॒क्थ॒ऽशसा॑ । दू॒ताऽइ॑व । हव्या॑ । जन्या॑ । पु॒रु॒ऽत्रा ॥ग्रावाणाऽइव । तत् । इत् । अर्थम् । जरेथे इति । गृध्राऽइव । वृक्षम् । निधिऽमन्तम् । अच्छ ।
ब्रह्माणाऽइव । विदथे । उक्थऽशसा । दूताऽइव । हव्या । जन्या । पुरुऽत्रा ॥grā́vāṇā-iva ǀ tát ǀ ít ǀ ártham ǀ jarethe íti ǀ gṛ́dhrā-iva ǀ vṛkṣám ǀ nidhi-mántam ǀ áccha ǀ
brahmā́ṇā-iva ǀ vidáthe ǀ uktha-śásā ǀ dūtā́-iva ǀ hávyā ǀ jányā ǀ puru-trā́ ǁgrāvāṇā-iva ǀ tat ǀ it ǀ artham ǀ jarethe iti ǀ gṛdhrā-iva ǀ vṛkṣam ǀ nidhi-mantam ǀ accha ǀ
brahmāṇā-iva ǀ vidathe ǀ uktha-śasā ǀ dūtā-iva ǀ havyā ǀ janyā ǀ puru-trā ǁ2.39.1 Aṣṭaka 2.8.4.1Anuvāka 2.4.69
-
Ṛk 2
प्रा॒त॒र्यावा॑णा र॒थ्ये॑व वी॒राजेव॑ य॒मा वर॒मा स॑चेथे ।
मेने॑ इव त॒न्वा॒३॒॑ शुंभ॑माने॒ दंप॑तीव क्रतु॒विदा॒ जने॑षु ॥प्रातर्यावाणा रथ्येव वीराजेव यमा वरम् आ सचेथे |
मेने इव तन्वा शुम्भमाने दम्पतीव क्रतुविदा जनेषु ||prātaryā́vāṇā rathyéva vīrā́jéva yamā́ váramā́ sacethe ǀ
méne iva tanvā́ śúmbhamāne dámpatīva kratuvídā jáneṣu ǁprātaryāvāṇā rathyeva vīrājeva yamā varam ā sacethe |
mene iva tanvā śumbhamāne dampatīva kratuvidā janeṣu ||प्रा॒तः॒ऽयावा॑ना । र॒थ्या॑ऽइव । वी॒रा । अ॒जाऽइ॑व । य॒मा । वर॑म् । आ । स॒चे॒थे॒ इति॑ ।
मेने॑ इ॒वेति॒ मेने॑ऽइव । त॒न्वा॑ । शुम्भ॑माने॒ इति॑ । दम्प॑ती इ॒वेति॒ दम्प॑तीऽइव । क्र॒तु॒ऽविदा॑ । जने॑षु ॥प्रातःऽयावाना । रथ्याऽइव । वीरा । अजाऽइव । यमा । वरम् । आ । सचेथे इति ।
मेने इवेति मेनेऽइव । तन्वा । शुम्भमाने इति । दम्पती इवेति दम्पतीऽइव । क्रतुऽविदा । जनेषु ॥prātaḥ-yā́vānā ǀ rathyā́-iva ǀ vīrā́ ǀ ajā́-iva ǀ yamā́ ǀ váram ǀ ā́ ǀ sacethe íti ǀ
méne ivéti méne-iva ǀ tanvā́ ǀ śúmbhamāne íti ǀ dámpatī ivéti dámpatī-iva ǀ kratu-vídā ǀ jáneṣu ǁprātaḥ-yāvānā ǀ rathyā-iva ǀ vīrā ǀ ajā-iva ǀ yamā ǀ varam ǀ ā ǀ sacethe iti ǀ
mene iveti mene-iva ǀ tanvā ǀ śumbhamāne iti ǀ dampatī iveti dampatī-iva ǀ kratu-vidā ǀ janeṣu ǁ2.39.2 Aṣṭaka 2.8.4.2Anuvāka 2.4.70
-
Ṛk 3
शृंगे॑व नः प्रथ॒मा गं॑तम॒र्वाक् छ॒फावि॑व॒ जर्भु॑राणा॒ तरो॑भिः ।
च॒क्र॒वा॒केव॒ प्रति॒ वस्तो॑रुस्रा॒र्वांचा॑ यातं र॒थ्ये॑व शक्रा ॥शृङ्गेव नः प्रथमा गन्तम् अर्वाक् छफाव् इव जर्भुराणा तरोभिः |
चक्रवाकेव प्रति वस्तोर् उस्रार्वाञ्चा यातं रथ्येव शक्रा ||śṛ́ṅgeva naḥ prathamā́ gantamarvā́k chaphā́viva járbhurāṇā tárobhiḥ ǀ
cakravākéva práti vástorusrārvā́ñcā yātam rathyéva śakrā ǁśṛṅgeva naḥ prathamā gantam arvāk chaphāv iva jarbhurāṇā tarobhiḥ |
cakravākeva prati vastor usrārvāñcā yātaṃ rathyeva śakrā ||शृङ्गा॑ऽइव । नः॒ । प्र॒थ॒मा । ग॒न्त॒म् । अ॒र्वाक् । श॒फौऽइ॑व । जर्भु॑राणा । तरः॑ऽभिः ।
च॒क्र॒वा॒काऽइ॑व । प्रति॑ । वस्तोः॑ । उ॒स्रा॒ । अ॒र्वाञ्चा॑ । या॒त॒म् । र॒थ्या॑ऽइव । श॒क्रा॒ ॥शृङ्गाऽइव । नः । प्रथमा । गन्तम् । अर्वाक् । शफौऽइव । जर्भुराणा । तरःऽभिः ।
चक्रवाकाऽइव । प्रति । वस्तोः । उस्रा । अर्वाञ्चा । यातम् । रथ्याऽइव । शक्रा ॥śṛ́ṅgā-iva ǀ naḥ ǀ prathamā́ ǀ gantam ǀ arvā́k ǀ śapháu-iva ǀ járbhurāṇā ǀ táraḥ-bhiḥ ǀ
cakravākā́-iva ǀ práti ǀ vástoḥ ǀ usrā ǀ arvā́ñcā ǀ yātam ǀ rathyā́-iva ǀ śakrā ǁśṛṅgā-iva ǀ naḥ ǀ prathamā ǀ gantam ǀ arvāk ǀ śaphau-iva ǀ jarbhurāṇā ǀ taraḥ-bhiḥ ǀ
cakravākā-iva ǀ prati ǀ vastoḥ ǀ usrā ǀ arvāñcā ǀ yātam ǀ rathyā-iva ǀ śakrā ǁ2.39.3 Aṣṭaka 2.8.4.3Anuvāka 2.4.71
-
Ṛk 4
ना॒वेव॑ नः पारयतं यु॒गेव॒ नभ्ये॑व न उप॒धीव॑ प्र॒धीव॑ ।
श्वाने॑व नो॒ अरि॑षण्या त॒नूनां॒ खृग॑लेव वि॒स्रसः॑ पातम॒स्मान् ॥नावेव नः पारयतं युगेव नभ्येव न उपधीव प्रधीव |
श्वानेव नो अरिषण्या तनूनां खृगलेव विस्रसः पातम् अस्मान् ||nāvéva naḥ pārayatam yugéva nábhyeva na upadhī́va pradhī́va ǀ
śvā́neva no áriṣaṇyā tanū́nām khṛ́galeva visrásaḥ pātamasmā́n ǁnāveva naḥ pārayataṃ yugeva nabhyeva na upadhīva pradhīva |
śvāneva no ariṣaṇyā tanūnāṃ khṛgaleva visrasaḥ pātam asmān ||ना॒वाऽइ॑व । नः॒ । पा॒र॒य॒त॒म् । यु॒गाऽइ॑व । नभ्या॑ऽइव । नः॒ । उ॒प॒धी इ॒वेत्यु॑प॒धीऽइ॑व । प्र॒धी इ॒वेति॑ प्र॒धीऽइ॑व ।
श्वाना॑ऽइव । नः॒ । अरि॑षण्या । त॒नूना॑म् । खृग॑लाऽइव । वि॒ऽस्रसः॑ । पा॒त॒म् । अ॒स्मान् ॥नावाऽइव । नः । पारयतम् । युगाऽइव । नभ्याऽइव । नः । उपधी इवेत्युपधीऽइव । प्रधी इवेति प्रधीऽइव ।
श्वानाऽइव । नः । अरिषण्या । तनूनाम् । खृगलाऽइव । विऽस्रसः । पातम् । अस्मान् ॥nāvā́-iva ǀ naḥ ǀ pārayatam ǀ yugā́-iva ǀ nábhyā-iva ǀ naḥ ǀ upadhī́ ivétyupadhī́-iva ǀ pradhī́ ivéti pradhī́-iva ǀ
śvā́nā-iva ǀ naḥ ǀ áriṣaṇyā ǀ tanū́nām ǀ khṛ́galā-iva ǀ vi-srásaḥ ǀ pātam ǀ asmā́n ǁnāvā-iva ǀ naḥ ǀ pārayatam ǀ yugā-iva ǀ nabhyā-iva ǀ naḥ ǀ upadhī ivetyupadhī-iva ǀ pradhī iveti pradhī-iva ǀ
śvānā-iva ǀ naḥ ǀ ariṣaṇyā ǀ tanūnām ǀ khṛgalā-iva ǀ vi-srasaḥ ǀ pātam ǀ asmān ǁ2.39.4 Aṣṭaka 2.8.4.4Anuvāka 2.4.72
-
Ṛk 5
वाते॑वाजु॒र्या न॒द्ये॑व री॒तिर॒क्षी इ॑व॒ चक्षु॒षा या॑तम॒र्वाक् ।
हस्ता॑विव त॒न्वे॒३॒॑शंभ॑विष्ठा॒ पादे॑व नो नयतं॒ वस्यो॒ अच्छ॑ ॥वातेवाजुर्या नद्येव रीतिर् अक्षी इव चक्षुषा यातम् अर्वाक् |
हस्ताव् इव तन्वे शम्भविष्ठा पादेव नो नयतं वस्यो अच्छ ||vā́tevājuryā́ nadyéva rītírakṣī́ iva cákṣuṣā́ yātamarvā́k ǀ
hástāviva tanvéśámbhaviṣṭhā pā́deva no nayatam vásyo áccha ǁvātevājuryā nadyeva rītir akṣī iva cakṣuṣā yātam arvāk |
hastāv iva tanve śambhaviṣṭhā pādeva no nayataṃ vasyo accha ||वाता॑ऽइव । अ॒जु॒र्या । न॒द्या॑ऽइव । री॒तिः । अ॒क्षी इ॒वेत्य॒क्षीऽइ॑व । चक्षु॑षा । आ । या॒त॒म् । अ॒र्वाक् ।
हस्तौ॑ऽइव । त॒न्वे॑ । शम्ऽभ॑विष्ठा । पादा॑ऽइव । नः॒ । न॒य॒त॒म् । वस्यः॑ । अच्छ॑ ॥वाताऽइव । अजुर्या । नद्याऽइव । रीतिः । अक्षी इवेत्यक्षीऽइव । चक्षुषा । आ । यातम् । अर्वाक् ।
हस्तौऽइव । तन्वे । शम्ऽभविष्ठा । पादाऽइव । नः । नयतम् । वस्यः । अच्छ ॥vā́tā-iva ǀ ajuryā́ ǀ nadyā́-iva ǀ rītíḥ ǀ akṣī́ ivétyakṣī́-iva ǀ cákṣuṣā ǀ ā́ ǀ yātam ǀ arvā́k ǀ
hástau-iva ǀ tanvé ǀ śám-bhaviṣṭhā ǀ pā́dā-iva ǀ naḥ ǀ nayatam ǀ vásyaḥ ǀ áccha ǁvātā-iva ǀ ajuryā ǀ nadyā-iva ǀ rītiḥ ǀ akṣī ivetyakṣī-iva ǀ cakṣuṣā ǀ ā ǀ yātam ǀ arvāk ǀ
hastau-iva ǀ tanve ǀ śam-bhaviṣṭhā ǀ pādā-iva ǀ naḥ ǀ nayatam ǀ vasyaḥ ǀ accha ǁ2.39.5 Aṣṭaka 2.8.4.5Anuvāka 2.4.73
-
Ṛk 6
ओष्ठा॑विव॒ मध्वा॒स्ने वदं॑ता॒ स्तना॑विव पिप्यतं जी॒वसे॑ नः ।
नासे॑व नस्त॒न्वो॑ रक्षि॒तारा॒ कर्णा॑विव सु॒श्रुता॑ भूतम॒स्मे ॥ओष्ठाव् इव मध्व् आस्ने वदन्ता स्तनाव् इव पिप्यतं जीवसे नः |
नासेव नस् तन्वो रक्षितारा कर्णाव् इव सुश्रुता भूतम् अस्मे ||óṣṭhāviva mádhvāsné vádantā stánāviva pipyatam jīváse naḥ ǀ
nā́seva nastanvó rakṣitā́rā kárṇāviva suśrútā bhūtamasmé ǁoṣṭhāv iva madhv āsne vadantā stanāv iva pipyataṃ jīvase naḥ |
nāseva nas tanvo rakṣitārā karṇāv iva suśrutā bhūtam asme ||ओष्ठौ॑ऽइव । मधु॑ । आ॒स्ने । वद॑न्ता । स्तनौ॑ऽइव । पि॒प्य॒त॒म् । जी॒वसे॑ । नः॒ ।
नासा॑ऽइव । नः॒ । त॒न्वः॑ । र॒क्षि॒तारा॑ । कर्णौ॑ऽइव । सु॒ऽश्रुता॑ । भू॒त॒म् । अ॒स्मे इति॑ ॥ओष्ठौऽइव । मधु । आस्ने । वदन्ता । स्तनौऽइव । पिप्यतम् । जीवसे । नः ।
नासाऽइव । नः । तन्वः । रक्षितारा । कर्णौऽइव । सुऽश्रुता । भूतम् । अस्मे इति ॥óṣṭhau-iva ǀ mádhu ǀ āsné ǀ vádantā ǀ stánau-iva ǀ pipyatam ǀ jīváse ǀ naḥ ǀ
nā́sā-iva ǀ naḥ ǀ tanváḥ ǀ rakṣitā́rā ǀ kárṇau-iva ǀ su-śrútā ǀ bhūtam ǀ asmé íti ǁoṣṭhau-iva ǀ madhu ǀ āsne ǀ vadantā ǀ stanau-iva ǀ pipyatam ǀ jīvase ǀ naḥ ǀ
nāsā-iva ǀ naḥ ǀ tanvaḥ ǀ rakṣitārā ǀ karṇau-iva ǀ su-śrutā ǀ bhūtam ǀ asme iti ǁ2.39.6 Aṣṭaka 2.8.5.1Anuvāka 2.4.74
-
Ṛk 7
हस्ते॑व श॒क्तिम॒भि सं॑द॒दी नः॒ क्षामे॑व नः॒ सम॑जतं॒ रजां॑सि ।
इ॒मा गिरो॑ अश्विना युष्म॒यंतीः॒ क्ष्णोत्रे॑णेव॒ स्वधि॑तिं॒ सं शि॑शीतं ॥हस्तेव शक्तिम् अभि संददी नः क्षामेव नः सम् अजतं रजांसि |
इमा गिरो अश्विना युष्मयन्तीः क्ष्णोत्रेणेव स्वधितिं सं शिशीतम् ||hásteva śaktímabhí saṃdadī́ naḥ kṣā́meva naḥ sámajatam rájāṃsi ǀ
imā́ gíro aśvinā yuṣmayántīḥ kṣṇótreṇeva svádhitim sám śiśītam ǁhasteva śaktim abhi saṃdadī naḥ kṣāmeva naḥ sam ajataṃ rajāṃsi |
imā giro aśvinā yuṣmayantīḥ kṣṇotreṇeva svadhitiṃ saṃ śiśītam ||हस्ता॑ऽइव । श॒क्तिम् । अ॒भि । स॒न्द॒दी इति॑ स॒म्ऽद॒दी । नः॒ । क्षामा॑ऽइव । नः॒ । सम् । अ॒ज॒त॒म् । रजां॑सि ।
इ॒माः । गिरः॑ । अ॒श्वि॒ना॒ । यु॒ष्म॒ऽयन्तीः॑ । क्ष्णोत्रे॑णऽइव । स्वऽधि॑तिम् । सम् । शि॒शी॒त॒म् ॥हस्ताऽइव । शक्तिम् । अभि । सन्ददी इति सम्ऽददी । नः । क्षामाऽइव । नः । सम् । अजतम् । रजांसि ।
इमाः । गिरः । अश्विना । युष्मऽयन्तीः । क्ष्णोत्रेणऽइव । स्वऽधितिम् । सम् । शिशीतम् ॥hástā-iva ǀ śaktím ǀ abhí ǀ sandadī́ íti sam-dadī́ ǀ naḥ ǀ kṣā́mā-iva ǀ naḥ ǀ sám ǀ ajatam ǀ rájāṃsi ǀ
imā́ḥ ǀ gíraḥ ǀ aśvinā ǀ yuṣma-yántīḥ ǀ kṣṇótreṇa-iva ǀ svá-dhitim ǀ sám ǀ śiśītam ǁhastā-iva ǀ śaktim ǀ abhi ǀ sandadī iti sam-dadī ǀ naḥ ǀ kṣāmā-iva ǀ naḥ ǀ sam ǀ ajatam ǀ rajāṃsi ǀ
imāḥ ǀ giraḥ ǀ aśvinā ǀ yuṣma-yantīḥ ǀ kṣṇotreṇa-iva ǀ sva-dhitim ǀ sam ǀ śiśītam ǁ2.39.7 Aṣṭaka 2.8.5.2Anuvāka 2.4.75
-
Ṛk 8
ए॒तानि॑ वामश्विना॒ वर्ध॑नानि॒ ब्रह्म॒ स्तोमं॑ गृत्सम॒दासो॑ अक्रन् ।
तानि॑ नरा जुजुषा॒णोप॑ यातं बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥एतानि वाम् अश्विना वर्धनानि ब्रह्म स्तोमं गृत्समदासो अक्रन् |
तानि नरा जुजुषाणोप यातम् बृहद् वदेम विदथे सुवीराः ||etā́ni vāmaśvinā várdhanāni bráhma stómam gṛtsamadā́so akran ǀ
tā́ni narā jujuṣāṇópa yātam bṛhádvadema vidáthe suvī́rāḥ ǁetāni vām aśvinā vardhanāni brahma stomaṃ gṛtsamadāso akran |
tāni narā jujuṣāṇopa yātam bṛhad vadema vidathe suvīrāḥ ||ए॒तानि॑ । वा॒म् । अ॒श्वि॒ना॒ । वर्ध॑नानि । ब्रह्म॑ । स्तोम॑म् । गृ॒त्स॒ऽम॒दासः॑ । अ॒क्र॒न् ।
तानि॑ । न॒रा॒ । जु॒जु॒षा॒णा । उप॑ । या॒त॒म् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥एतानि । वाम् । अश्विना । वर्धनानि । ब्रह्म । स्तोमम् । गृत्सऽमदासः । अक्रन् ।
तानि । नरा । जुजुषाणा । उप । यातम् । बृहत् । वदेम । विदथे । सुऽवीराः ॥etā́ni ǀ vām ǀ aśvinā ǀ várdhanāni ǀ bráhma ǀ stómam ǀ gṛtsa-madā́saḥ ǀ akran ǀ
tā́ni ǀ narā ǀ jujuṣāṇā́ ǀ úpa ǀ yātam ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁetāni ǀ vām ǀ aśvinā ǀ vardhanāni ǀ brahma ǀ stomam ǀ gṛtsa-madāsaḥ ǀ akran ǀ
tāni ǀ narā ǀ jujuṣāṇā ǀ upa ǀ yātam ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ2.39.8 Aṣṭaka 2.8.5.3Anuvāka 2.4.76
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.