Ṛk 2.39.1
Saṃhitā
ग्रावा॑णेव॒ तदिदर्थं॑ जरेथे॒ गृध्रे॑व वृ॒क्षं नि॑धि॒मंत॒मच्छ॑ ।
ब्र॒ह्माणे॑व वि॒दथ॑ उक्थ॒शासा॑ दू॒तेव॒ हव्या॒ जन्या॑ पुरु॒त्रा ॥
ग्रावाणेव तद् इद् अर्थं जरेथे गृध्रेव वृक्षं निधिमन्तम् अच्छ |
ब्रह्माणेव विदथ उक्थशासा दूतेव हव्या जन्या पुरुत्रा ||
grā́vāṇeva tádídártham jarethe gṛ́dhreva vṛkṣám nidhimántamáccha ǀ
brahmā́ṇeva vidátha ukthaśā́sā dūtéva hávyā jányā purutrā́ ǁ
grāvāṇeva tad id arthaṃ jarethe gṛdhreva vṛkṣaṃ nidhimantam accha |
brahmāṇeva vidatha ukthaśāsā dūteva havyā janyā purutrā ||
Padapāṭha
ग्रावा॑णाऽइव । तत् । इत् । अर्थ॑म् । ज॒रे॒थे॒ इति॑ । गृध्रा॑ऽइव । वृ॒क्षम् । नि॒धि॒ऽमन्त॑म् । अच्छ॑ ।
ब्र॒ह्माणा॑ऽइव । वि॒दथे॑ । उ॒क्थ॒ऽशसा॑ । दू॒ताऽइ॑व । हव्या॑ । जन्या॑ । पु॒रु॒ऽत्रा ॥
ग्रावाणाऽइव । तत् । इत् । अर्थम् । जरेथे इति । गृध्राऽइव । वृक्षम् । निधिऽमन्तम् । अच्छ ।
ब्रह्माणाऽइव । विदथे । उक्थऽशसा । दूताऽइव । हव्या । जन्या । पुरुऽत्रा ॥
grā́vāṇā-iva ǀ tát ǀ ít ǀ ártham ǀ jarethe íti ǀ gṛ́dhrā-iva ǀ vṛkṣám ǀ nidhi-mántam ǀ áccha ǀ
brahmā́ṇā-iva ǀ vidáthe ǀ uktha-śásā ǀ dūtā́-iva ǀ hávyā ǀ jányā ǀ puru-trā́ ǁ
grāvāṇā-iva ǀ tat ǀ it ǀ artham ǀ jarethe iti ǀ gṛdhrā-iva ǀ vṛkṣam ǀ nidhi-mantam ǀ accha ǀ
brahmāṇā-iva ǀ vidathe ǀ uktha-śasā ǀ dūtā-iva ǀ havyā ǀ janyā ǀ puru-trā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.039.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.04.01
- Maṇḍala · Anuvāka · Ṛk
- 02.04.069
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.