Ṛgveda · Maṇḍala 2 · Sūkta 39

Ṛk 2.39.8

Aśvins · Gṛtsamada Bhārgava Śaunaka

The whole sūkta Link

Saṃhitā

ए॒तानि॑ वामश्विना॒ वर्ध॑नानि॒ ब्रह्म॒ स्तोमं॑ गृत्सम॒दासो॑ अक्रन् ।
तानि॑ नरा जुजुषा॒णोप॑ यातं बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

एतानि वाम् अश्विना वर्धनानि ब्रह्म स्तोमं गृत्समदासो अक्रन् |
तानि नरा जुजुषाणोप यातम् बृहद् वदेम विदथे सुवीराः ||

etā́ni vāmaśvinā várdhanāni bráhma stómam gṛtsamadā́so akran ǀ
tā́ni narā jujuṣāṇópa yātam bṛhádvadema vidáthe suvī́rāḥ ǁ

etāni vām aśvinā vardhanāni brahma stomaṃ gṛtsamadāso akran |
tāni narā jujuṣāṇopa yātam bṛhad vadema vidathe suvīrāḥ ||

Padapāṭha

ए॒तानि॑ । वा॒म् । अ॒श्वि॒ना॒ । वर्ध॑नानि । ब्रह्म॑ । स्तोम॑म् । गृ॒त्स॒ऽम॒दासः॑ । अ॒क्र॒न् ।
तानि॑ । न॒रा॒ । जु॒जु॒षा॒णा । उप॑ । या॒त॒म् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

एतानि । वाम् । अश्विना । वर्धनानि । ब्रह्म । स्तोमम् । गृत्सऽमदासः । अक्रन् ।
तानि । नरा । जुजुषाणा । उप । यातम् । बृहत् । वदेम । विदथे । सुऽवीराः ॥

etā́ni ǀ vām ǀ aśvinā ǀ várdhanāni ǀ bráhma ǀ stómam ǀ gṛtsa-madā́saḥ ǀ akran ǀ
tā́ni ǀ narā ǀ jujuṣāṇā́ ǀ úpa ǀ yātam ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

etāni ǀ vām ǀ aśvinā ǀ vardhanāni ǀ brahma ǀ stomam ǀ gṛtsa-madāsaḥ ǀ akran ǀ
tāni ǀ narā ǀ jujuṣāṇā ǀ upa ǀ yātam ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
02.039.08
Aṣṭaka · Adhyāya · Varga · Ṛk
2.8.05.03
Maṇḍala · Anuvāka · Ṛk
02.04.076
Devatā देवता
Aśvins
Ṛṣi ऋषि
Gṛtsamada Bhārgava Śaunaka
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 2.39.8

Interpretations

Sāyaṇa

सोमापूषणेतिषळृचमष्टमंसूक्तं गार्त्समदंत्रैष्टुभं सोमापूषदेवताकं तथाचानुक्रान्तं—सोमापूषणा षट् सोमापौष्णमन्त्योर्धर्चोप्यदितेरिति अवतुदेव्यदितिरित्यस्यार्धर्चस्यादितिर्देवता सोमापौष्णे पशौवपापुरोडाशहविषामाद्यास्तिस्रःक्रमेणानुवाक्याः उत्तरास्तिस्रोयाज्याः अग्नीषोमावितिखण्डे सूत्रितं—सोमापूषणाजननारयीणामिति ।