Ṛk 2.39.7
Saṃhitā
हस्ते॑व श॒क्तिम॒भि सं॑द॒दी नः॒ क्षामे॑व नः॒ सम॑जतं॒ रजां॑सि ।
इ॒मा गिरो॑ अश्विना युष्म॒यंतीः॒ क्ष्णोत्रे॑णेव॒ स्वधि॑तिं॒ सं शि॑शीतं ॥
हस्तेव शक्तिम् अभि संददी नः क्षामेव नः सम् अजतं रजांसि |
इमा गिरो अश्विना युष्मयन्तीः क्ष्णोत्रेणेव स्वधितिं सं शिशीतम् ||
hásteva śaktímabhí saṃdadī́ naḥ kṣā́meva naḥ sámajatam rájāṃsi ǀ
imā́ gíro aśvinā yuṣmayántīḥ kṣṇótreṇeva svádhitim sám śiśītam ǁ
hasteva śaktim abhi saṃdadī naḥ kṣāmeva naḥ sam ajataṃ rajāṃsi |
imā giro aśvinā yuṣmayantīḥ kṣṇotreṇeva svadhitiṃ saṃ śiśītam ||
Padapāṭha
हस्ता॑ऽइव । श॒क्तिम् । अ॒भि । स॒न्द॒दी इति॑ स॒म्ऽद॒दी । नः॒ । क्षामा॑ऽइव । नः॒ । सम् । अ॒ज॒त॒म् । रजां॑सि ।
इ॒माः । गिरः॑ । अ॒श्वि॒ना॒ । यु॒ष्म॒ऽयन्तीः॑ । क्ष्णोत्रे॑णऽइव । स्वऽधि॑तिम् । सम् । शि॒शी॒त॒म् ॥
हस्ताऽइव । शक्तिम् । अभि । सन्ददी इति सम्ऽददी । नः । क्षामाऽइव । नः । सम् । अजतम् । रजांसि ।
इमाः । गिरः । अश्विना । युष्मऽयन्तीः । क्ष्णोत्रेणऽइव । स्वऽधितिम् । सम् । शिशीतम् ॥
hástā-iva ǀ śaktím ǀ abhí ǀ sandadī́ íti sam-dadī́ ǀ naḥ ǀ kṣā́mā-iva ǀ naḥ ǀ sám ǀ ajatam ǀ rájāṃsi ǀ
imā́ḥ ǀ gíraḥ ǀ aśvinā ǀ yuṣma-yántīḥ ǀ kṣṇótreṇa-iva ǀ svá-dhitim ǀ sám ǀ śiśītam ǁ
hastā-iva ǀ śaktim ǀ abhi ǀ sandadī iti sam-dadī ǀ naḥ ǀ kṣāmā-iva ǀ naḥ ǀ sam ǀ ajatam ǀ rajāṃsi ǀ
imāḥ ǀ giraḥ ǀ aśvinā ǀ yuṣma-yantīḥ ǀ kṣṇotreṇa-iva ǀ sva-dhitim ǀ sam ǀ śiśītam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.039.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.05.02
- Maṇḍala · Anuvāka · Ṛk
- 02.04.075
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.