Ṛgveda · Maṇḍala 2

Sūkta 18

Indra · Gṛtsamada Bhārgava Śaunaka · 9 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Gṛtsamada Bhārgava Śaunaka
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles triṣṭup (2, 3, 9); bhurikpaṅkti (4, 8); svarāṭpaṅkti (5, 6); paṅktiḥ (1); nicṛtpaṅkti (7)

2nd set of styles triṣṭubh

  1. Ṛk 1

    प्रा॒ता रथो॒ नवो॑ योजि॒ सस्नि॒श्चतु॑र्युगस्त्रिक॒शः स॒प्तर॑श्मिः ।
    दशा॑रित्रो मनु॒ष्यः॑ स्व॒र्षाः स इ॒ष्टिभि॑र्म॒तिभी॒ रंह्यो॑ भूत् ॥

    प्राता रथो नवो योजि सस्निश् चतुर्युगस् त्रिकशः सप्तरश्मिः |
    दशारित्रो मनुष्यः स्वर्षाः स इष्टिभिर् मतिभी रंह्यो भूत् ||

    prātā́ rátho návo yoji sásniścáturyugastrikaśáḥ saptáraśmiḥ ǀ
    dáśāritro manuṣyáḥ svarṣā́ḥ sá iṣṭíbhirmatíbhī ráṃhyo bhūt ǁ

    prātā ratho navo yoji sasniś caturyugas trikaśaḥ saptaraśmiḥ |
    daśāritro manuṣyaḥ svarṣāḥ sa iṣṭibhir matibhī raṃhyo bhūt ||

    प्रा॒तरिति॑ । रथः॑ । नवः॑ । यो॒जि॒ । सस्निः॑ । चतुः॑ऽयुगः । त्रिऽक॒शः । स॒प्तऽर॑श्मिः ।
    दश॑ऽअरित्रः । म॒नु॒ष्यः॑ । स्वः॒ऽसाः । सः । इ॒ष्टिऽभिः॑ । म॒तिऽभिः॑ । रंह्यः॑ । भू॒त् ॥

    प्रातरिति । रथः । नवः । योजि । सस्निः । चतुःऽयुगः । त्रिऽकशः । सप्तऽरश्मिः ।
    दशऽअरित्रः । मनुष्यः । स्वःऽसाः । सः । इष्टिऽभिः । मतिऽभिः । रंह्यः । भूत् ॥

    prātáríti ǀ ráthaḥ ǀ návaḥ ǀ yoji ǀ sásniḥ ǀ cátuḥ-yugaḥ ǀ trí-kaśáḥ ǀ saptá-raśmiḥ ǀ
    dáśa-aritraḥ ǀ manuṣyáḥ ǀ svaḥ-sā́ḥ ǀ sáḥ ǀ iṣṭí-bhiḥ ǀ matí-bhiḥ ǀ ráṃhyaḥ ǀ bhūt ǁ

    prātariti ǀ rathaḥ ǀ navaḥ ǀ yoji ǀ sasniḥ ǀ catuḥ-yugaḥ ǀ tri-kaśaḥ ǀ sapta-raśmiḥ ǀ
    daśa-aritraḥ ǀ manuṣyaḥ ǀ svaḥ-sāḥ ǀ saḥ ǀ iṣṭi-bhiḥ ǀ mati-bhiḥ ǀ raṃhyaḥ ǀ bhūt ǁ

    2.18.1 Aṣṭaka 2.6.21.1Anuvāka 2.2.69

  2. Ṛk 2

    सास्मा॒ अरं॑ प्रथ॒मं स द्वि॒तीय॑मु॒तो तृ॒तीयं॒ मनु॑षः॒ स होता॑ ।
    अ॒न्यस्या॒ गर्भ॑म॒न्य ऊ॑ जनंत॒ सो अ॒न्येभिः॑ सचते॒ जेन्यो॒ वृषा॑ ॥

    सास्मा अरम् प्रथमं स द्वितीयम् उतो तृतीयम् मनुषः स होता |
    अन्यस्या गर्भम् अन्य ऊ जनन्त सो अन्येभिः सचते जेन्यो वृषा ||

    sā́smā áram prathamám sá dvitī́yamutó tṛtī́yam mánuṣaḥ sá hótā ǀ
    anyásyā gárbhamanyá ū jananta só anyébhiḥ sacate jényo vṛ́ṣā ǁ

    sāsmā aram prathamaṃ sa dvitīyam uto tṛtīyam manuṣaḥ sa hotā |
    anyasyā garbham anya ū jananta so anyebhiḥ sacate jenyo vṛṣā ||

    सः । अ॒स्मै॒ । अर॑म् । प्र॒थ॒मम् । सः । द्वि॒तीय॑म् । उ॒तो इति॑ । तृ॒तीय॑म् । मनु॑षः । सः । होता॑ ।
    अ॒न्यस्याः॑ । गर्भ॑म् । अ॒न्ये । ऊं॒ इति॑ । ज॒न॒न्त॒ । सः । अ॒न्येभिः॑ । स॒च॒ते॒ । जेन्यः॑ । वृषा॑ ॥

    सः । अस्मै । अरम् । प्रथमम् । सः । द्वितीयम् । उतो इति । तृतीयम् । मनुषः । सः । होता ।
    अन्यस्याः । गर्भम् । अन्ये । ऊं इति । जनन्त । सः । अन्येभिः । सचते । जेन्यः । वृषा ॥

    sáḥ ǀ asmai ǀ áram ǀ prathamám ǀ sáḥ ǀ dvitī́yam ǀ utó íti ǀ tṛtī́yam ǀ mánuṣaḥ ǀ sáḥ ǀ hótā ǀ
    anyásyāḥ ǀ gárbham ǀ anyé ǀ ūṃ íti ǀ jananta ǀ sáḥ ǀ anyébhiḥ ǀ sacate ǀ jényaḥ ǀ vṛ́ṣā ǁ

    saḥ ǀ asmai ǀ aram ǀ prathamam ǀ saḥ ǀ dvitīyam ǀ uto iti ǀ tṛtīyam ǀ manuṣaḥ ǀ saḥ ǀ hotā ǀ
    anyasyāḥ ǀ garbham ǀ anye ǀ ūṃ iti ǀ jananta ǀ saḥ ǀ anyebhiḥ ǀ sacate ǀ jenyaḥ ǀ vṛṣā ǁ

    2.18.2 Aṣṭaka 2.6.21.2Anuvāka 2.2.70

  3. Ṛk 3

    हरी॒ नु कं॒ रथ॒ इंद्र॑स्य योजमा॒यै सू॒क्तेन॒ वच॑सा॒ नवे॑न ।
    मो षु त्वामत्र॑ ब॒हवो॒ हि विप्रा॒ नि री॑रम॒न्यज॑मानासो अ॒न्ये ॥

    हरी नु कं रथ इन्द्रस्य योजम् आयै सूक्तेन वचसा नवेन |
    मो षु त्वाम् अत्र बहवो हि विप्रा नि रीरमन् यजमानासो अन्ये ||

    hárī nú kam rátha índrasya yojamāyái sūkténa vácasā návena ǀ
    mó ṣú tvā́mátra bahávo hí víprā ní rīramanyájamānāso anyé ǁ

    harī nu kaṃ ratha indrasya yojam āyai sūktena vacasā navena |
    mo ṣu tvām atra bahavo hi viprā ni rīraman yajamānāso anye ||

    हरी॒ इति॑ । नु । क॒म् । रथे॑ । इन्द्र॑स्य । यो॒ज॒म् । आ॒ऽयै । सु॒ऽउ॒क्तेन॑ । वच॑सा । नवे॑न ।
    मो इति॑ । सु । त्वाम् । अत्र॑ । ब॒हवः॑ । हि । विप्राः॑ । नि । री॒र॒म॒न् । यज॑मानासः । अ॒न्ये ॥

    हरी इति । नु । कम् । रथे । इन्द्रस्य । योजम् । आऽयै । सुऽउक्तेन । वचसा । नवेन ।
    मो इति । सु । त्वाम् । अत्र । बहवः । हि । विप्राः । नि । रीरमन् । यजमानासः । अन्ये ॥

    hárī íti ǀ nú ǀ kam ǀ ráthe ǀ índrasya ǀ yojam ǀ ā-yái ǀ su-ukténa ǀ vácasā ǀ návena ǀ
    mó íti ǀ sú ǀ tvā́m ǀ átra ǀ bahávaḥ ǀ hí ǀ víprāḥ ǀ ní ǀ rīraman ǀ yájamānāsaḥ ǀ anyé ǁ

    harī iti ǀ nu ǀ kam ǀ rathe ǀ indrasya ǀ yojam ǀ ā-yai ǀ su-uktena ǀ vacasā ǀ navena ǀ
    mo iti ǀ su ǀ tvām ǀ atra ǀ bahavaḥ ǀ hi ǀ viprāḥ ǀ ni ǀ rīraman ǀ yajamānāsaḥ ǀ anye ǁ

    2.18.3 Aṣṭaka 2.6.21.3Anuvāka 2.2.71

  4. Ṛk 4

    आ द्वाभ्यां॒ हरि॑भ्यामिंद्र या॒ह्या च॒तुर्भि॒रा ष॒ड्भिर्हू॒यमा॑नः ।
    आष्टा॒भिर्द॒शभिः॑ सोम॒पेय॑म॒यं सु॒तः सु॑मख॒ मा मृध॑स्कः ॥

    आ द्वाभ्यां हरिभ्याम् इन्द्र याह्य् आ चतुर्भिर् आ षड्भिर् हूयमानः |
    आष्टाभिर् दशभिः सोमपेयम् अयं सुतः सुमख मा मृधस् कः ||

    ā́ dvā́bhyām háribhyāmindra yāhyā́ catúrbhirā́ ṣaḍbhírhūyámānaḥ ǀ
    ā́ṣṭābhírdaśábhiḥ somapéyamayám sutáḥ sumakha mā́ mṛ́dhaskaḥ ǁ

    ā dvābhyāṃ haribhyām indra yāhy ā caturbhir ā ṣaḍbhir hūyamānaḥ |
    āṣṭābhir daśabhiḥ somapeyam ayaṃ sutaḥ sumakha mā mṛdhas kaḥ ||

    आ । द्वाभ्या॑म् । हरि॑ऽभ्याम् । इ॒न्द्र॒ । या॒हि॒ । आ । च॒तुःऽभिः॑ । आ । ष॒ट्ऽभिः । हू॒यमा॑नः ।
    आ । अ॒ष्टा॒भिः । द॒शऽभिः॑ । सो॒म॒ऽपेय॑म् । अ॒यम् । सु॒तः । सु॒ऽम॒ख॒ । मा । मृधः॑ । क॒रिति॑ कः ॥

    आ । द्वाभ्याम् । हरिऽभ्याम् । इन्द्र । याहि । आ । चतुःऽभिः । आ । षट्ऽभिः । हूयमानः ।
    आ । अष्टाभिः । दशऽभिः । सोमऽपेयम् । अयम् । सुतः । सुऽमख । मा । मृधः । करिति कः ॥

    ā́ ǀ dvā́bhyām ǀ hári-bhyām ǀ indra ǀ yāhi ǀ ā́ ǀ catúḥ-bhiḥ ǀ ā́ ǀ ṣaṭ-bhíḥ ǀ hūyámānaḥ ǀ
    ā́ ǀ aṣṭābhíḥ ǀ daśá-bhiḥ ǀ soma-péyam ǀ ayám ǀ sutáḥ ǀ su-makha ǀ mā́ ǀ mṛ́dhaḥ ǀ karíti kaḥ ǁ

    ā ǀ dvābhyām ǀ hari-bhyām ǀ indra ǀ yāhi ǀ ā ǀ catuḥ-bhiḥ ǀ ā ǀ ṣaṭ-bhiḥ ǀ hūyamānaḥ ǀ
    ā ǀ aṣṭābhiḥ ǀ daśa-bhiḥ ǀ soma-peyam ǀ ayam ǀ sutaḥ ǀ su-makha ǀ mā ǀ mṛdhaḥ ǀ kariti kaḥ ǁ

    2.18.4 Aṣṭaka 2.6.21.4Anuvāka 2.2.72

  5. Ṛk 5

    आ विं॑श॒त्या त्रिं॒शता॑ याह्य॒र्वाङा च॑त्वारिं॒शता॒ हरि॑भिर्युजा॒नः ।
    आ पं॑चा॒शता॑ सु॒रथे॑भिरिं॒द्रा ष॒ष्ट्या स॑प्त॒त्या सो॑म॒पेयं॑ ॥

    आ विंशत्या त्रिंशता याह्य् अर्वाङ् आ चत्वारिंशता हरिभिर् युजानः |
    आ पञ्चाशता सुरथेभिर् इन्द्रा षष्ट्या सप्तत्या सोमपेयम् ||

    ā́ viṃśatyā́ triṃśátā yāhyarvā́ṅā́ catvāriṃśátā háribhiryujānáḥ ǀ
    ā́ pañcāśátā suráthebhirindrā́ ṣaṣṭyā́ saptatyā́ somapéyam ǁ

    ā viṃśatyā triṃśatā yāhy arvāṅ ā catvāriṃśatā haribhir yujānaḥ |
    ā pañcāśatā surathebhir indrā ṣaṣṭyā saptatyā somapeyam ||

    आ । विं॒श॒त्या । त्रिं॒शता॑ । या॒हि॒ । अ॒र्वाङ् । आ । च॒त्वा॒रिं॒शता॑ । हरि॑ऽभिः । यु॒जा॒नः ।
    आ । प॒ञ्चा॒शता॑ । सु॒ऽरथे॑भिः । इ॒न्द्र॒ । आ । ष॒ष्ट्या । स॒प्त॒त्या । सो॒म॒ऽपेय॑म् ॥

    आ । विंशत्या । त्रिंशता । याहि । अर्वाङ् । आ । चत्वारिंशता । हरिऽभिः । युजानः ।
    आ । पञ्चाशता । सुऽरथेभिः । इन्द्र । आ । षष्ट्या । सप्तत्या । सोमऽपेयम् ॥

    ā́ ǀ viṃśatyā́ ǀ triṃśátā ǀ yāhi ǀ arvā́ṅ ǀ ā́ ǀ catvāriṃśátā ǀ hári-bhiḥ ǀ yujānáḥ ǀ
    ā́ ǀ pañcāśátā ǀ su-ráthebhiḥ ǀ indra ǀ ā́ ǀ ṣaṣṭyā́ ǀ saptatyā́ ǀ soma-péyam ǁ

    ā ǀ viṃśatyā ǀ triṃśatā ǀ yāhi ǀ arvāṅ ǀ ā ǀ catvāriṃśatā ǀ hari-bhiḥ ǀ yujānaḥ ǀ
    ā ǀ pañcāśatā ǀ su-rathebhiḥ ǀ indra ǀ ā ǀ ṣaṣṭyā ǀ saptatyā ǀ soma-peyam ǁ

    2.18.5 Aṣṭaka 2.6.21.5Anuvāka 2.2.73

  6. Ṛk 6

    आशी॒त्या न॑व॒त्या या॑ह्य॒र्वाङा श॒तेन॒ हरि॑भिरु॒ह्यमा॑नः ।
    अ॒यं हि ते॑ शु॒नहो॑त्रेषु॒ सोम॒ इंद्र॑ त्वा॒या परि॑षिक्तो॒ मदा॑य ॥

    आशीत्या नवत्या याह्य् अर्वाङ् आ शतेन हरिभिर् उह्यमानः |
    अयं हि ते शुनहोत्रेषु सोम इन्द्र त्वाया परिषिक्तो मदाय ||

    ā́śītyā́ navatyā́ yāhyarvā́ṅā́ śaténa háribhiruhyámānaḥ ǀ
    ayám hí te śunáhotreṣu sóma índra tvāyā́ páriṣikto mádāya ǁ

    āśītyā navatyā yāhy arvāṅ ā śatena haribhir uhyamānaḥ |
    ayaṃ hi te śunahotreṣu soma indra tvāyā pariṣikto madāya ||

    आ । अ॒शी॒त्या । न॒व॒त्या । या॒हि॒ । अ॒र्वाङ् । आ । श॒तेन॑ । हरि॑ऽभिः । उ॒ह्यमा॑नः ।
    अ॒यम् । हि । ते॒ । शु॒नऽहो॑त्रेषु । सोमः॑ । इन्द्र॑ । त्वा॒ऽया । परि॑ऽसिक्तः । मदा॑य ॥

    आ । अशीत्या । नवत्या । याहि । अर्वाङ् । आ । शतेन । हरिऽभिः । उह्यमानः ।
    अयम् । हि । ते । शुनऽहोत्रेषु । सोमः । इन्द्र । त्वाऽया । परिऽसिक्तः । मदाय ॥

    ā́ ǀ aśītyā́ ǀ navatyā́ ǀ yāhi ǀ arvā́ṅ ǀ ā́ ǀ śaténa ǀ hári-bhiḥ ǀ uhyámānaḥ ǀ
    ayám ǀ hí ǀ te ǀ śuná-hotreṣu ǀ sómaḥ ǀ índra ǀ tvā-yā́ ǀ pári-siktaḥ ǀ mádāya ǁ

    ā ǀ aśītyā ǀ navatyā ǀ yāhi ǀ arvāṅ ǀ ā ǀ śatena ǀ hari-bhiḥ ǀ uhyamānaḥ ǀ
    ayam ǀ hi ǀ te ǀ śuna-hotreṣu ǀ somaḥ ǀ indra ǀ tvā-yā ǀ pari-siktaḥ ǀ madāya ǁ

    2.18.6 Aṣṭaka 2.6.22.1Anuvāka 2.2.74

  7. Ṛk 7

    मम॒ ब्रह्में॑द्र या॒ह्यच्छा॒ विश्वा॒ हरी॑ धु॒रि धि॑ष्वा॒ रथ॑स्य ।
    पु॒रु॒त्रा हि वि॒हव्यो॑ ब॒भूथा॒स्मिंछू॑र॒ सव॑ने मादयस्व ॥

    मम ब्रह्मेन्द्र याह्य् अच्छा विश्वा हरी धुरि धिष्वा रथस्य |
    पुरुत्रा हि विहव्यो बभूथास्मिञ् छूर सवने मादयस्व ||

    máma bráhmendra yāhyácchā víśvā hárī dhurí dhiṣvā ráthasya ǀ
    purutrā́ hí vihávyo babhū́thāsmíñchūra sávane mādayasva ǁ

    mama brahmendra yāhy acchā viśvā harī dhuri dhiṣvā rathasya |
    purutrā hi vihavyo babhūthāsmiñ chūra savane mādayasva ||

    मम॑ । ब्रह्म॑ । इ॒न्द्र॒ । या॒हि॒ । अच्छ॑ । विश्वा॑ । हरी॒ इति॑ । धु॒रि । धि॒ष्व॒ । रथ॑स्य ।
    पु॒रु॒ऽत्रा । हि । वि॒ऽहव्यः॑ । ब॒भूथ॑ । अ॒स्मिन् । शू॒र॒ । सव॑ने । मा॒द॒य॒स्व॒ ॥

    मम । ब्रह्म । इन्द्र । याहि । अच्छ । विश्वा । हरी इति । धुरि । धिष्व । रथस्य ।
    पुरुऽत्रा । हि । विऽहव्यः । बभूथ । अस्मिन् । शूर । सवने । मादयस्व ॥

    máma ǀ bráhma ǀ indra ǀ yāhi ǀ áccha ǀ víśvā ǀ hárī íti ǀ dhurí ǀ dhiṣva ǀ ráthasya ǀ
    puru-trā́ ǀ hí ǀ vi-hávyaḥ ǀ babhū́tha ǀ asmín ǀ śūra ǀ sávane ǀ mādayasva ǁ

    mama ǀ brahma ǀ indra ǀ yāhi ǀ accha ǀ viśvā ǀ harī iti ǀ dhuri ǀ dhiṣva ǀ rathasya ǀ
    puru-trā ǀ hi ǀ vi-havyaḥ ǀ babhūtha ǀ asmin ǀ śūra ǀ savane ǀ mādayasva ǁ

    2.18.7 Aṣṭaka 2.6.22.2Anuvāka 2.2.75

  8. Ṛk 8

    न म॒ इंद्रे॑ण स॒ख्यं वि यो॑षद॒स्मभ्य॑मस्य॒ दक्षि॑णा दुहीत ।
    उप॒ ज्येष्ठे॒ वरू॑थे॒ गभ॑स्तौ प्रा॒येप्रा॑ये जिगी॒वांसः॑ स्याम ॥

    न म इन्द्रेण सख्यं वि योषद् अस्मभ्यम् अस्य दक्षिणा दुहीत |
    उप ज्येष्ठे वरूथे गभस्तौ प्राये-प्राये जिगीवांसः स्याम ||

    ná ma índreṇa sakhyám ví yoṣadasmábhyamasya dákṣiṇā duhīta ǀ
    úpa jyéṣṭhe várūthe gábhastau prāyéprāye jigīvā́ṃsaḥ syāma ǁ

    na ma indreṇa sakhyaṃ vi yoṣad asmabhyam asya dakṣiṇā duhīta |
    upa jyeṣṭhe varūthe gabhastau prāye-prāye jigīvāṃsaḥ syāma ||

    न । मे॒ । इन्द्रे॑ण । स॒ख्यम् । वि । यो॒ष॒त् । अ॒स्मभ्य॑म् । अ॒स्य॒ । दक्षि॑णा । दु॒ही॒त॒ ।
    उप॑ । ज्येष्ठे॑ । वरू॑थे । गभ॑स्तौ । प्रा॒येऽप्रा॑ये । जि॒गी॒वांसः॑ । स्या॒म॒ ॥

    न । मे । इन्द्रेण । सख्यम् । वि । योषत् । अस्मभ्यम् । अस्य । दक्षिणा । दुहीत ।
    उप । ज्येष्ठे । वरूथे । गभस्तौ । प्रायेऽप्राये । जिगीवांसः । स्याम ॥

    ná ǀ me ǀ índreṇa ǀ sakhyám ǀ ví ǀ yoṣat ǀ asmábhyam ǀ asya ǀ dákṣiṇā ǀ duhīta ǀ
    úpa ǀ jyéṣṭhe ǀ várūthe ǀ gábhastau ǀ prāyé-prāye ǀ jigīvā́ṃsaḥ ǀ syāma ǁ

    na ǀ me ǀ indreṇa ǀ sakhyam ǀ vi ǀ yoṣat ǀ asmabhyam ǀ asya ǀ dakṣiṇā ǀ duhīta ǀ
    upa ǀ jyeṣṭhe ǀ varūthe ǀ gabhastau ǀ prāye-prāye ǀ jigīvāṃsaḥ ǀ syāma ǁ

    2.18.8 Aṣṭaka 2.6.22.3Anuvāka 2.2.76

  9. Ṛk 9

    नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदिं॑द्र॒ दक्षि॑णा म॒घोनी॑ ।
    शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

    नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी |
    शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ||

    nūnám sā́ te práti váram jaritré duhīyádindra dákṣiṇā maghónī ǀ
    śíkṣā stotṛ́bhyo mā́ti dhagbhágo no bṛhádvadema vidáthe suvī́rāḥ ǁ

    nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī |
    śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ ||

    नू॒नम् । सा । ते॒ । प्रति॑ । वर॑म् । ज॒रि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि॑णा । म॒घोनी॑ ।
    शिक्ष॑ । स्तो॒तृऽभ्यः॑ । मा । अति॑ । ध॒क् । भगः॑ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

    नूनम् । सा । ते । प्रति । वरम् । जरित्रे । दुहीयत् । इन्द्र । दक्षिणा । मघोनी ।
    शिक्ष । स्तोतृऽभ्यः । मा । अति । धक् । भगः । नः । बृहत् । वदेम । विदथे । सुऽवीराः ॥

    nūnám ǀ sā́ ǀ te ǀ práti ǀ váram ǀ jaritré ǀ duhīyát ǀ indra ǀ dákṣiṇā ǀ maghónī ǀ
    śíkṣa ǀ stotṛ́-bhyaḥ ǀ mā́ ǀ áti ǀ dhak ǀ bhágaḥ ǀ naḥ ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

    nūnam ǀ sā ǀ te ǀ prati ǀ varam ǀ jaritre ǀ duhīyat ǀ indra ǀ dakṣiṇā ǀ maghonī ǀ
    śikṣa ǀ stotṛ-bhyaḥ ǀ mā ǀ ati ǀ dhak ǀ bhagaḥ ǀ naḥ ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ

    2.18.9 Aṣṭaka 2.6.22.4Anuvāka 2.2.77

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 2.18 · Indra

Interpretations

Ralph T. H. Griffith

Ṛk 1

THE rich new car hath been equipped at morning; four yokes it hath, three whips, seven reins to guide it: Ten-sided, friendly to mankind, light-winner, that must be urged to speed with prayers and wishes.

Ṛk 2

This is prepared for him the first, the second, and the third time: he is man's Priest and Herald. Others get offspring of another parent he goeth, as a noble Bull, with others.

Ṛk 3

To Indra's car the Bay Steeds have I harnessed, that new well-spoken words may bring him hither. Here let not other worshippers detain thee, for among us are many holy singers.

Ṛk 4

Indra, come hitherward with two Bay Coursers, come thou with four, with six when invocated. Come thou with eight, with ten, to drink the Soma. Here is the juice, brave Warrior: do not scorn it.

Ṛk 5

O Indra, come thou hither having harnessed thy car with twenty, thirty, forty horses. Come thou with fifty well trained coursers, Indra, sixty or seventy, to drink the Soma.

Ṛk 6

Come to us hitherward, O Indra, carried by eighty, ninety, or an hundred horses. This Soma juice among the Śunahotras hath been poured out, in love, to glad thee, Indra.

Ṛk 7

To this my prayer, O Indra, come thou hither: bind to thy car's pole all thy two Bay Coursers. Thou art to be invoked in many places Hero, rejoice thyself in this libation.

Ṛk 8

Ne’er be my love from Indra disunited still may his liberal Milch-cow yield us treasure. So may we under his supreme protection, safe in his arms, succeed in each forth-going.