Ṛk 2.18.6
Saṃhitā
आशी॒त्या न॑व॒त्या या॑ह्य॒र्वाङा श॒तेन॒ हरि॑भिरु॒ह्यमा॑नः ।
अ॒यं हि ते॑ शु॒नहो॑त्रेषु॒ सोम॒ इंद्र॑ त्वा॒या परि॑षिक्तो॒ मदा॑य ॥
आशीत्या नवत्या याह्य् अर्वाङ् आ शतेन हरिभिर् उह्यमानः |
अयं हि ते शुनहोत्रेषु सोम इन्द्र त्वाया परिषिक्तो मदाय ||
ā́śītyā́ navatyā́ yāhyarvā́ṅā́ śaténa háribhiruhyámānaḥ ǀ
ayám hí te śunáhotreṣu sóma índra tvāyā́ páriṣikto mádāya ǁ
āśītyā navatyā yāhy arvāṅ ā śatena haribhir uhyamānaḥ |
ayaṃ hi te śunahotreṣu soma indra tvāyā pariṣikto madāya ||
Padapāṭha
आ । अ॒शी॒त्या । न॒व॒त्या । या॒हि॒ । अ॒र्वाङ् । आ । श॒तेन॑ । हरि॑ऽभिः । उ॒ह्यमा॑नः ।
अ॒यम् । हि । ते॒ । शु॒नऽहो॑त्रेषु । सोमः॑ । इन्द्र॑ । त्वा॒ऽया । परि॑ऽसिक्तः । मदा॑य ॥
आ । अशीत्या । नवत्या । याहि । अर्वाङ् । आ । शतेन । हरिऽभिः । उह्यमानः ।
अयम् । हि । ते । शुनऽहोत्रेषु । सोमः । इन्द्र । त्वाऽया । परिऽसिक्तः । मदाय ॥
ā́ ǀ aśītyā́ ǀ navatyā́ ǀ yāhi ǀ arvā́ṅ ǀ ā́ ǀ śaténa ǀ hári-bhiḥ ǀ uhyámānaḥ ǀ
ayám ǀ hí ǀ te ǀ śuná-hotreṣu ǀ sómaḥ ǀ índra ǀ tvā-yā́ ǀ pári-siktaḥ ǀ mádāya ǁ
ā ǀ aśītyā ǀ navatyā ǀ yāhi ǀ arvāṅ ǀ ā ǀ śatena ǀ hari-bhiḥ ǀ uhyamānaḥ ǀ
ayam ǀ hi ǀ te ǀ śuna-hotreṣu ǀ somaḥ ǀ indra ǀ tvā-yā ǀ pari-siktaḥ ǀ madāya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.018.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.22.01
- Maṇḍala · Anuvāka · Ṛk
- 02.02.074
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.