Ṛk 2.18.5
Saṃhitā
आ विं॑श॒त्या त्रिं॒शता॑ याह्य॒र्वाङा च॑त्वारिं॒शता॒ हरि॑भिर्युजा॒नः ।
आ पं॑चा॒शता॑ सु॒रथे॑भिरिं॒द्रा ष॒ष्ट्या स॑प्त॒त्या सो॑म॒पेयं॑ ॥
आ विंशत्या त्रिंशता याह्य् अर्वाङ् आ चत्वारिंशता हरिभिर् युजानः |
आ पञ्चाशता सुरथेभिर् इन्द्रा षष्ट्या सप्तत्या सोमपेयम् ||
ā́ viṃśatyā́ triṃśátā yāhyarvā́ṅā́ catvāriṃśátā háribhiryujānáḥ ǀ
ā́ pañcāśátā suráthebhirindrā́ ṣaṣṭyā́ saptatyā́ somapéyam ǁ
ā viṃśatyā triṃśatā yāhy arvāṅ ā catvāriṃśatā haribhir yujānaḥ |
ā pañcāśatā surathebhir indrā ṣaṣṭyā saptatyā somapeyam ||
Padapāṭha
आ । विं॒श॒त्या । त्रिं॒शता॑ । या॒हि॒ । अ॒र्वाङ् । आ । च॒त्वा॒रिं॒शता॑ । हरि॑ऽभिः । यु॒जा॒नः ।
आ । प॒ञ्चा॒शता॑ । सु॒ऽरथे॑भिः । इ॒न्द्र॒ । आ । ष॒ष्ट्या । स॒प्त॒त्या । सो॒म॒ऽपेय॑म् ॥
आ । विंशत्या । त्रिंशता । याहि । अर्वाङ् । आ । चत्वारिंशता । हरिऽभिः । युजानः ।
आ । पञ्चाशता । सुऽरथेभिः । इन्द्र । आ । षष्ट्या । सप्तत्या । सोमऽपेयम् ॥
ā́ ǀ viṃśatyā́ ǀ triṃśátā ǀ yāhi ǀ arvā́ṅ ǀ ā́ ǀ catvāriṃśátā ǀ hári-bhiḥ ǀ yujānáḥ ǀ
ā́ ǀ pañcāśátā ǀ su-ráthebhiḥ ǀ indra ǀ ā́ ǀ ṣaṣṭyā́ ǀ saptatyā́ ǀ soma-péyam ǁ
ā ǀ viṃśatyā ǀ triṃśatā ǀ yāhi ǀ arvāṅ ǀ ā ǀ catvāriṃśatā ǀ hari-bhiḥ ǀ yujānaḥ ǀ
ā ǀ pañcāśatā ǀ su-rathebhiḥ ǀ indra ǀ ā ǀ ṣaṣṭyā ǀ saptatyā ǀ soma-peyam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.018.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.21.05
- Maṇḍala · Anuvāka · Ṛk
- 02.02.073
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.