Ṛk 2.18.1
Saṃhitā
प्रा॒ता रथो॒ नवो॑ योजि॒ सस्नि॒श्चतु॑र्युगस्त्रिक॒शः स॒प्तर॑श्मिः ।
दशा॑रित्रो मनु॒ष्यः॑ स्व॒र्षाः स इ॒ष्टिभि॑र्म॒तिभी॒ रंह्यो॑ भूत् ॥
प्राता रथो नवो योजि सस्निश् चतुर्युगस् त्रिकशः सप्तरश्मिः |
दशारित्रो मनुष्यः स्वर्षाः स इष्टिभिर् मतिभी रंह्यो भूत् ||
prātā́ rátho návo yoji sásniścáturyugastrikaśáḥ saptáraśmiḥ ǀ
dáśāritro manuṣyáḥ svarṣā́ḥ sá iṣṭíbhirmatíbhī ráṃhyo bhūt ǁ
prātā ratho navo yoji sasniś caturyugas trikaśaḥ saptaraśmiḥ |
daśāritro manuṣyaḥ svarṣāḥ sa iṣṭibhir matibhī raṃhyo bhūt ||
Padapāṭha
प्रा॒तरिति॑ । रथः॑ । नवः॑ । यो॒जि॒ । सस्निः॑ । चतुः॑ऽयुगः । त्रिऽक॒शः । स॒प्तऽर॑श्मिः ।
दश॑ऽअरित्रः । म॒नु॒ष्यः॑ । स्वः॒ऽसाः । सः । इ॒ष्टिऽभिः॑ । म॒तिऽभिः॑ । रंह्यः॑ । भू॒त् ॥
प्रातरिति । रथः । नवः । योजि । सस्निः । चतुःऽयुगः । त्रिऽकशः । सप्तऽरश्मिः ।
दशऽअरित्रः । मनुष्यः । स्वःऽसाः । सः । इष्टिऽभिः । मतिऽभिः । रंह्यः । भूत् ॥
prātáríti ǀ ráthaḥ ǀ návaḥ ǀ yoji ǀ sásniḥ ǀ cátuḥ-yugaḥ ǀ trí-kaśáḥ ǀ saptá-raśmiḥ ǀ
dáśa-aritraḥ ǀ manuṣyáḥ ǀ svaḥ-sā́ḥ ǀ sáḥ ǀ iṣṭí-bhiḥ ǀ matí-bhiḥ ǀ ráṃhyaḥ ǀ bhūt ǁ
prātariti ǀ rathaḥ ǀ navaḥ ǀ yoji ǀ sasniḥ ǀ catuḥ-yugaḥ ǀ tri-kaśaḥ ǀ sapta-raśmiḥ ǀ
daśa-aritraḥ ǀ manuṣyaḥ ǀ svaḥ-sāḥ ǀ saḥ ǀ iṣṭi-bhiḥ ǀ mati-bhiḥ ǀ raṃhyaḥ ǀ bhūt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.018.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.21.01
- Maṇḍala · Anuvāka · Ṛk
- 02.02.069
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.