Ṛgveda · Maṇḍala 2

Sūkta 41

Vāyu · Indra, Vāyu · Mitra, Varuṇa · Aśvins · Indra · Viśvedevās · Indra, Maruts · Sarasvatī · Divaḥ, Pṛthivī Or The Soma Carts (Ab) · Divaḥ, Pṛthivī Or The Soma Carts Or Agni (C) · Divaḥ, Pṛthivī Or Soma Carts · Gṛtsamada Bhārgava Śaunaka · 21 ṛks

Link
Devatā देवता
1, 2: Vāyu; 3: Indra, Vāyu; 4-6: Mitra, Varuṇa; 7-9: Aśvins; 10-12: Indra; 13, 14: Viśvedevās; 15: Indra, Maruts; 16-18: Sarasvatī; 19: Divaḥ, Pṛthivī Or The Soma Carts (Ab); Divaḥ, Pṛthivī Or The Soma Carts Or Agni (C); 20, 21: Divaḥ, Pṛthivī Or Soma Carts
Ṛṣi ऋषि
Gṛtsamada Bhārgava Śaunaka
Chandas छन्दस्
Gāyatrī, Anuṣṭubh, Bṛhatī
Metres by ṛk

1st set of styles gāyatrī (1, 3, 4, 6, 10, 11, 13, 15, 19-21); nicṛdgāyatrī (2, 5, 9, 12, 14); tripādgāyatrī (7); virāḍgāyatrī (8); anuṣṭup (16); uṣṇik (17); bṛhatī (18)

2nd set of styles gāyatrī (1-15, 19-21); anuṣṭubh (16-17); bṛhatī (18)

  1. Ṛk 1

    वायो॒ ये ते॑ सह॒स्रिणो॒ रथा॑स॒स्तेभि॒रा ग॑हि ।
    नि॒युत्वा॒न्त्सोम॑पीतये ॥

    वायो ये ते सहस्रिणो रथासस् तेभिर् आ गहि |
    नियुत्वान् सोमपीतये ||

    vā́yo yé te sahasríṇo ráthāsastébhirā́ gahi ǀ
    niyútvāntsómapītaye ǁ

    vāyo ye te sahasriṇo rathāsas tebhir ā gahi |
    niyutvān somapītaye ||

    वायो॒ इति॑ । ये । ते॒ । स॒ह॒स्रिणः॑ । रथा॑सः । तेभिः॑ । आ । ग॒हि॒ ।
    नि॒युत्वा॑न् । सोम॑ऽपीतये ॥

    वायो इति । ये । ते । सहस्रिणः । रथासः । तेभिः । आ । गहि ।
    नियुत्वान् । सोमऽपीतये ॥

    vā́yo íti ǀ yé ǀ te ǀ sahasríṇaḥ ǀ ráthāsaḥ ǀ tébhiḥ ǀ ā́ ǀ gahi ǀ
    niyútvān ǀ sóma-pītaye ǁ

    vāyo iti ǀ ye ǀ te ǀ sahasriṇaḥ ǀ rathāsaḥ ǀ tebhiḥ ǀ ā ǀ gahi ǀ
    niyutvān ǀ soma-pītaye ǁ

    2.41.1 Aṣṭaka 2.8.7.1Anuvāka 2.4.83

  2. Ṛk 2

    नि॒युत्वा॑न्वाय॒वा ग॑ह्य॒यं शु॒क्रो अ॑यामि ते ।
    गंता॑सि सुन्व॒तो गृ॒हं ॥

    नियुत्वान् वायव् आ गह्य् अयं शुक्रो अयामि ते |
    गन्तासि सुन्वतो गृहम् ||

    niyútvānvāyavā́ gahyayám śukró ayāmi te ǀ
    gántāsi sunvató gṛhám ǁ

    niyutvān vāyav ā gahy ayaṃ śukro ayāmi te |
    gantāsi sunvato gṛham ||

    नि॒युत्वा॑न् । वा॒यो॒ इति॑ । आ । ग॒हि॒ । अ॒यम् । शु॒क्रः । अ॒या॒मि॒ । ते॒ ।
    गन्ता॑ । अ॒सि॒ । सु॒न्व॒तः । गृ॒हम् ॥

    नियुत्वान् । वायो इति । आ । गहि । अयम् । शुक्रः । अयामि । ते ।
    गन्ता । असि । सुन्वतः । गृहम् ॥

    niyútvān ǀ vāyo íti ǀ ā́ ǀ gahi ǀ ayám ǀ śukráḥ ǀ ayāmi ǀ te ǀ
    gántā ǀ asi ǀ sunvatáḥ ǀ gṛhám ǁ

    niyutvān ǀ vāyo iti ǀ ā ǀ gahi ǀ ayam ǀ śukraḥ ǀ ayāmi ǀ te ǀ
    gantā ǀ asi ǀ sunvataḥ ǀ gṛham ǁ

    2.41.2 Aṣṭaka 2.8.7.2Anuvāka 2.4.84

  3. Ṛk 3

    शु॒क्रस्या॒द्य गवा॑शिर॒ इंद्र॑वायू नि॒युत्व॑तः ।
    आ या॑तं॒ पिब॑तं नरा ॥

    शुक्रस्याद्य गवाशिर इन्द्रवायू नियुत्वतः |
    आ यातम् पिबतं नरा ||

    śukrásyādyá gávāśira índravāyū niyútvataḥ ǀ
    ā́ yātam píbatam narā ǁ

    śukrasyādya gavāśira indravāyū niyutvataḥ |
    ā yātam pibataṃ narā ||

    शु॒क्रस्य॑ । अ॒द्य । गोऽआ॑शिरः । इन्द्र॑वायू॒ इति॑ । नि॒युत्व॑तः ।
    आ । या॒त॒म् । पिब॑तम् । न॒रा॒ ॥

    शुक्रस्य । अद्य । गोऽआशिरः । इन्द्रवायू इति । नियुत्वतः ।
    आ । यातम् । पिबतम् । नरा ॥

    śukrásya ǀ adyá ǀ gó-āśiraḥ ǀ índravāyū íti ǀ niyútvataḥ ǀ
    ā́ ǀ yātam ǀ píbatam ǀ narā ǁ

    śukrasya ǀ adya ǀ go-āśiraḥ ǀ indravāyū iti ǀ niyutvataḥ ǀ
    ā ǀ yātam ǀ pibatam ǀ narā ǁ

    2.41.3 Aṣṭaka 2.8.7.3Anuvāka 2.4.85

  4. Ṛk 4

    अ॒यं वां॑ मित्रावरुणा सु॒तः सोम॑ ऋतावृधा ।
    ममेदि॒ह श्रु॑तं॒ हवं॑ ॥

    अयं वाम् मित्रावरुणा सुतः सोम ऋतावृधा |
    ममेद् इह श्रुतं हवम् ||

    ayám vām mitrāvaruṇā sutáḥ sóma ṛtāvṛdhā ǀ
    mámédihá śrutam hávam ǁ

    ayaṃ vām mitrāvaruṇā sutaḥ soma ṛtāvṛdhā |
    mamed iha śrutaṃ havam ||

    अ॒यम् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । सु॒तः । सोमः॑ । ऋ॒त॒ऽवृ॒धा॒ ।
    मम॑ । इत् । इ॒ह । श्रु॒त॒म् । हव॑म् ॥

    अयम् । वाम् । मित्रावरुणा । सुतः । सोमः । ऋतऽवृधा ।
    मम । इत् । इह । श्रुतम् । हवम् ॥

    ayám ǀ vām ǀ mitrāvaruṇā ǀ sutáḥ ǀ sómaḥ ǀ ṛta-vṛdhā ǀ
    máma ǀ ít ǀ ihá ǀ śrutam ǀ hávam ǁ

    ayam ǀ vām ǀ mitrāvaruṇā ǀ sutaḥ ǀ somaḥ ǀ ṛta-vṛdhā ǀ
    mama ǀ it ǀ iha ǀ śrutam ǀ havam ǁ

    2.41.4 Aṣṭaka 2.8.7.4Anuvāka 2.4.86

  5. Ṛk 5

    राजा॑ना॒वन॑भिद्रुहा ध्रु॒वे सद॑स्युत्त॒मे ।
    स॒हस्र॑स्थूण आसाते ॥

    राजानाव् अनभिद्रुहा ध्रुवे सदस्य् उत्तमे |
    सहस्रस्थूण आसाते ||

    rā́jānāvánabhidruhā dhruvé sádasyuttamé ǀ
    sahásrasthūṇa āsāte ǁ

    rājānāv anabhidruhā dhruve sadasy uttame |
    sahasrasthūṇa āsāte ||

    राजा॑नौ । अन॑भिऽद्रुहा । ध्रु॒वे । सद॑सि । उ॒त्ऽत॒मे ।
    स॒हस्र॑ऽस्थूणे । आ॒सा॒ते॒ इति॑ ॥

    राजानौ । अनभिऽद्रुहा । ध्रुवे । सदसि । उत्ऽतमे ।
    सहस्रऽस्थूणे । आसाते इति ॥

    rā́jānau ǀ ánabhi-druhā ǀ dhruvé ǀ sádasi ǀ ut-tamé ǀ
    sahásra-sthūṇe ǀ āsāte íti ǁ

    rājānau ǀ anabhi-druhā ǀ dhruve ǀ sadasi ǀ ut-tame ǀ
    sahasra-sthūṇe ǀ āsāte iti ǁ

    2.41.5 Aṣṭaka 2.8.7.5Anuvāka 2.4.87

  6. Ṛk 6

    ता स॒म्राजा॑ घृ॒तासु॑ती आदि॒त्या दानु॑न॒स्पती॑ ।
    सचे॑ते॒ अन॑वह्वरं ॥

    ता सम्राजा घृतासुती आदित्या दानुनस् पती |
    सचेते अनवह्वरम् ||

    tā́ samrā́jā ghṛtā́sutī ādityā́ dā́nunaspátī ǀ
    sácete ánavahvaram ǁ

    tā samrājā ghṛtāsutī ādityā dānunas patī |
    sacete anavahvaram ||

    ता । स॒म्ऽराजा॑ । घृ॒तासु॑ती॒ इति॑ घृ॒तऽआ॑सुती । आ॒दि॒त्या । दानु॑नः । पती॒ इति॑ ।
    सचे॑ते॒ इति॑ । अन॑वऽह्वरम् ॥

    ता । सम्ऽराजा । घृतासुती इति घृतऽआसुती । आदित्या । दानुनः । पती इति ।
    सचेते इति । अनवऽह्वरम् ॥

    tā́ ǀ sam-rā́jā ǀ ghṛtā́sutī íti ghṛtá-āsutī ǀ ādityā́ ǀ dā́nunaḥ ǀ pátī íti ǀ
    sácete íti ǀ ánava-hvaram ǁ

    tā ǀ sam-rājā ǀ ghṛtāsutī iti ghṛta-āsutī ǀ ādityā ǀ dānunaḥ ǀ patī iti ǀ
    sacete iti ǀ anava-hvaram ǁ

    2.41.6 Aṣṭaka 2.8.8.1Anuvāka 2.4.88

  7. Ṛk 7

    गोम॑दू॒ षु ना॑स॒त्याश्वा॑वद्यातमश्विना ।
    व॒र्ती रु॑द्रा नृ॒पाय्यं॑ ॥

    गोमद् ऊ षु नासत्याश्वावद् यातम् अश्विना |
    वर्ती रुद्रा नृपाय्यम् ||

    gómadū ṣú nāsatyā́śvāvadyātamaśvinā ǀ
    vartī́ rudrā nṛpā́yyam ǁ

    gomad ū ṣu nāsatyāśvāvad yātam aśvinā |
    vartī rudrā nṛpāyyam ||

    गोऽम॑त् । ऊं॒ इति॑ । सु । ना॒स॒त्या॒ । अश्व॑ऽवत् । या॒त॒म् । अ॒श्वि॒ना॒ ।
    व॒र्तिः । रु॒द्रा॒ । नृ॒ऽपाय्य॑म् ॥

    गोऽमत् । ऊं इति । सु । नासत्या । अश्वऽवत् । यातम् । अश्विना ।
    वर्तिः । रुद्रा । नृऽपाय्यम् ॥

    gó-mat ǀ ūṃ íti ǀ sú ǀ nāsatyā ǀ áśva-vat ǀ yātam ǀ aśvinā ǀ
    vartíḥ ǀ rudrā ǀ nṛ-pā́yyam ǁ

    go-mat ǀ ūṃ iti ǀ su ǀ nāsatyā ǀ aśva-vat ǀ yātam ǀ aśvinā ǀ
    vartiḥ ǀ rudrā ǀ nṛ-pāyyam ǁ

    2.41.7 Aṣṭaka 2.8.8.2Anuvāka 2.4.89

  8. Ṛk 8

    न यत्परो॒ नांत॑र आद॒धर्ष॑द्वृषण्वसू ।
    दुः॒शंसो॒ मर्त्यो॑ रि॒पुः ॥

    न यत् परो नान्तर आदधर्षद् वृषण्वसू |
    दुःशंसो मर्त्यो रिपुः ||

    ná yátpáro nā́ntara ādadhárṣadvṛṣaṇvasū ǀ
    duḥśáṃso mártyo ripúḥ ǁ

    na yat paro nāntara ādadharṣad vṛṣaṇvasū |
    duḥśaṃso martyo ripuḥ ||

    न । यत् । परः॑ । न । अन्त॑रः । आ॒ऽद॒धर्ष॑त् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ।
    दुः॒ऽशंसः॑ । मर्त्यः॑ । रि॒पुः ॥

    न । यत् । परः । न । अन्तरः । आऽदधर्षत् । वृषण्वसू इति वृषण्ऽवसू ।
    दुःऽशंसः । मर्त्यः । रिपुः ॥

    ná ǀ yát ǀ páraḥ ǀ ná ǀ ántaraḥ ǀ ā-dadhárṣat ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ
    duḥ-śáṃsaḥ ǀ mártyaḥ ǀ ripúḥ ǁ

    na ǀ yat ǀ paraḥ ǀ na ǀ antaraḥ ǀ ā-dadharṣat ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ
    duḥ-śaṃsaḥ ǀ martyaḥ ǀ ripuḥ ǁ

    2.41.8 Aṣṭaka 2.8.8.3Anuvāka 2.4.90

  9. Ṛk 9

    ता न॒ आ वो॑ळ्हमश्विना र॒यिं पि॒शंग॑संदृशं ।
    धिष्ण्या॑ वरिवो॒विदं॑ ॥

    ता न आ वोऌहम् अश्विना रयिम् पिशङ्गसंदृशम् |
    धिष्ण्या वरिवोविदम् ||

    tā́ na ā́ voḷhamaśvinā rayím piśáṅgasaṃdṛśam ǀ
    dhíṣṇyā varivovídam ǁ

    tā na ā voḷham aśvinā rayim piśaṅgasaṃdṛśam |
    dhiṣṇyā varivovidam ||

    ता । नः॒ । आ । वो॒ळ्ह॒म् । अ॒श्वि॒ना॒ । र॒यिम् । पि॒शङ्ग॑ऽसन्दृशम् ।
    धिष्ण्या॑ । व॒रि॒वः॒ऽविद॑म् ॥

    ता । नः । आ । वोळ्हम् । अश्विना । रयिम् । पिशङ्गऽसन्दृशम् ।
    धिष्ण्या । वरिवःऽविदम् ॥

    tā́ ǀ naḥ ǀ ā́ ǀ voḷham ǀ aśvinā ǀ rayím ǀ piśáṅga-sandṛśam ǀ
    dhíṣṇyā ǀ varivaḥ-vídam ǁ

    tā ǀ naḥ ǀ ā ǀ voḷham ǀ aśvinā ǀ rayim ǀ piśaṅga-sandṛśam ǀ
    dhiṣṇyā ǀ varivaḥ-vidam ǁ

    2.41.9 Aṣṭaka 2.8.8.4Anuvāka 2.4.91

  10. Ṛk 10

    इंद्रो॑ अं॒ग म॒हद्भ॒यम॒भी षदप॑ चुच्यवत् ।
    स हि स्थि॒रो विच॑र्षणिः ॥

    इन्द्रो अङ्ग महद् भयम् अभी षद् अप चुच्यवत् |
    स हि स्थिरो विचर्षणिः ||

    índro aṅgá mahádbhayámabhī́ ṣádápa cucyavat ǀ
    sá hí sthiró vícarṣaṇiḥ ǁ

    indro aṅga mahad bhayam abhī ṣad apa cucyavat |
    sa hi sthiro vicarṣaṇiḥ ||

    इन्द्रः॑ । अ॒ङ्ग । म॒हत् । भ॒यम् । अ॒भि । सत् । अप॑ । चु॒च्य॒व॒त् ।
    सः । हि । स्थि॒रः । विऽच॑र्षणिः ॥

    इन्द्रः । अङ्ग । महत् । भयम् । अभि । सत् । अप । चुच्यवत् ।
    सः । हि । स्थिरः । विऽचर्षणिः ॥

    índraḥ ǀ aṅgá ǀ mahát ǀ bhayám ǀ abhí ǀ sát ǀ ápa ǀ cucyavat ǀ
    sáḥ ǀ hí ǀ sthiráḥ ǀ ví-carṣaṇiḥ ǁ

    indraḥ ǀ aṅga ǀ mahat ǀ bhayam ǀ abhi ǀ sat ǀ apa ǀ cucyavat ǀ
    saḥ ǀ hi ǀ sthiraḥ ǀ vi-carṣaṇiḥ ǁ

    2.41.10 Aṣṭaka 2.8.8.5Anuvāka 2.4.92

  11. Ṛk 11

    इंद्र॑श्च मृ॒ळया॑ति नो॒ न नः॑ प॒श्चाद॒घं न॑शत् ।
    भ॒द्रं भ॑वाति नः पु॒रः ॥

    इन्द्रश् च मृऌअयाति नो न नः पश्चाद् अघं नशत् |
    भद्रम् भवाति नः पुरः ||

    índraśca mṛḷáyāti no ná naḥ paścā́daghám naśat ǀ
    bhadrám bhavāti naḥ puráḥ ǁ

    indraś ca mṛḷayāti no na naḥ paścād aghaṃ naśat |
    bhadram bhavāti naḥ puraḥ ||

    इन्द्रः॑ । च॒ । मृ॒ळया॑ति । नः॒ । न । नः॒ । प॒श्चात् । अ॒घम् । न॒श॒त् ।
    भ॒द्रम् । भ॒वा॒ति॒ । नः॒ । पु॒रः ॥

    इन्द्रः । च । मृळयाति । नः । न । नः । पश्चात् । अघम् । नशत् ।
    भद्रम् । भवाति । नः । पुरः ॥

    índraḥ ǀ ca ǀ mṛḷáyāti ǀ naḥ ǀ ná ǀ naḥ ǀ paścā́t ǀ aghám ǀ naśat ǀ
    bhadrám ǀ bhavāti ǀ naḥ ǀ puráḥ ǁ

    indraḥ ǀ ca ǀ mṛḷayāti ǀ naḥ ǀ na ǀ naḥ ǀ paścāt ǀ agham ǀ naśat ǀ
    bhadram ǀ bhavāti ǀ naḥ ǀ puraḥ ǁ

    2.41.11 Aṣṭaka 2.8.9.1Anuvāka 2.4.93

  12. Ṛk 12

    इंद्र॒ आशा॑भ्य॒स्परि॒ सर्वा॑भ्यो॒ अभ॑यं करत् ।
    जेता॒ शत्रू॒न्विच॑र्षणिः ॥

    इन्द्र आशाभ्यस् परि सर्वाभ्यो अभयं करत् |
    जेता शत्रून् विचर्षणिः ||

    índra ā́śābhyaspári sárvābhyo ábhayam karat ǀ
    jétā śátrūnvícarṣaṇiḥ ǁ

    indra āśābhyas pari sarvābhyo abhayaṃ karat |
    jetā śatrūn vicarṣaṇiḥ ||

    इन्द्रः॑ । आशा॑भ्यः । परि॑ । सर्वा॑भ्यः । अभ॑यम् । क॒र॒त् ।
    जेता॑ । शत्रू॑न् । विऽच॑र्षणिः ॥

    इन्द्रः । आशाभ्यः । परि । सर्वाभ्यः । अभयम् । करत् ।
    जेता । शत्रून् । विऽचर्षणिः ॥

    índraḥ ǀ ā́śābhyaḥ ǀ pári ǀ sárvābhyaḥ ǀ ábhayam ǀ karat ǀ
    jétā ǀ śátrūn ǀ ví-carṣaṇiḥ ǁ

    indraḥ ǀ āśābhyaḥ ǀ pari ǀ sarvābhyaḥ ǀ abhayam ǀ karat ǀ
    jetā ǀ śatrūn ǀ vi-carṣaṇiḥ ǁ

    2.41.12 Aṣṭaka 2.8.9.2Anuvāka 2.4.94

  13. Ṛk 13

    विश्वे॑ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मं हवं॑ ।
    एदं ब॒र्हिर्नि षी॑दत ॥

    विश्वे देवास आ गत शृणुता म इमं हवम् |
    एदम् बर्हिर् नि षीदत ||

    víśve devāsa ā́ gata śṛṇutā́ ma imám hávam ǀ
    édám barhírní ṣīdata ǁ

    viśve devāsa ā gata śṛṇutā ma imaṃ havam |
    edam barhir ni ṣīdata ||

    विश्वे॑ । दे॒वा॒सः॒ । आ । ग॒त॒ । शृ॒णु॒त । मे॒ । इ॒मम् । हव॑म् ।
    आ । इ॒दम् । ब॒र्हिः । नि । सी॒द॒त॒ ॥

    विश्वे । देवासः । आ । गत । शृणुत । मे । इमम् । हवम् ।
    आ । इदम् । बर्हिः । नि । सीदत ॥

    víśve ǀ devāsaḥ ǀ ā́ ǀ gata ǀ śṛṇutá ǀ me ǀ imám ǀ hávam ǀ
    ā́ ǀ idám ǀ barhíḥ ǀ ní ǀ sīdata ǁ

    viśve ǀ devāsaḥ ǀ ā ǀ gata ǀ śṛṇuta ǀ me ǀ imam ǀ havam ǀ
    ā ǀ idam ǀ barhiḥ ǀ ni ǀ sīdata ǁ

    2.41.13 Aṣṭaka 2.8.9.3Anuvāka 2.4.95

  14. Ṛk 14

    ती॒व्रो वो॒ मधु॑माँ अ॒यं शु॒नहो॑त्रेषु मत्स॒रः ।
    ए॒तं पि॑बत॒ काम्यं॑ ॥

    तीव्रो वो मधुमां अयं शुनहोत्रेषु मत्सरः |
    एतम् पिबत काम्यम् ||

    tīvró vo mádhumām̐ ayám śunáhotreṣu matsaráḥ ǀ
    etám pibata kā́myam ǁ

    tīvro vo madhumāṃ ayaṃ śunahotreṣu matsaraḥ |
    etam pibata kāmyam ||

    ती॒व्रः । वः॒ । मधु॑ऽमान् । अ॒यम् । शु॒नऽहो॑त्रेषु । म॒त्स॒रः ।
    ए॒तम् । पि॒ब॒त॒ । काम्य॑म् ॥

    तीव्रः । वः । मधुऽमान् । अयम् । शुनऽहोत्रेषु । मत्सरः ।
    एतम् । पिबत । काम्यम् ॥

    tīvráḥ ǀ vaḥ ǀ mádhu-mān ǀ ayám ǀ śuná-hotreṣu ǀ matsaráḥ ǀ
    etám ǀ pibata ǀ kā́myam ǁ

    tīvraḥ ǀ vaḥ ǀ madhu-mān ǀ ayam ǀ śuna-hotreṣu ǀ matsaraḥ ǀ
    etam ǀ pibata ǀ kāmyam ǁ

    2.41.14 Aṣṭaka 2.8.9.4Anuvāka 2.4.96

  15. Ṛk 15

    इंद्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा॑सः॒ पूष॑रातयः ।
    विश्वे॒ मम॑ श्रुता॒ हवं॑ ॥

    इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः |
    विश्वे मम श्रुता हवम् ||

    índrajyeṣṭhā márudgaṇā dévāsaḥ pū́ṣarātayaḥ ǀ
    víśve máma śrutā hávam ǁ

    indrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ |
    viśve mama śrutā havam ||

    इन्द्र॑ऽज्येष्ठाः । मरु॑त्ऽगणाः । देवा॑सः । पूष॑ऽरातयः ।
    विश्वे॑ । मम॑ । श्रु॒त॒ । हव॑म् ॥

    इन्द्रऽज्येष्ठाः । मरुत्ऽगणाः । देवासः । पूषऽरातयः ।
    विश्वे । मम । श्रुत । हवम् ॥

    índra-jyeṣṭhāḥ ǀ márut-gaṇāḥ ǀ dévāsaḥ ǀ pū́ṣa-rātayaḥ ǀ
    víśve ǀ máma ǀ śruta ǀ hávam ǁ

    indra-jyeṣṭhāḥ ǀ marut-gaṇāḥ ǀ devāsaḥ ǀ pūṣa-rātayaḥ ǀ
    viśve ǀ mama ǀ śruta ǀ havam ǁ

    2.41.15 Aṣṭaka 2.8.9.5Anuvāka 2.4.97

  16. Ṛk 16

    अंबि॑तमे॒ नदी॑तमे॒ देवि॑तमे॒ सर॑स्वति ।
    अ॒प्र॒श॒स्ता इ॑व स्मसि॒ प्रश॑स्तिमंब नस्कृधि ॥

    अम्बितमे नदीतमे देवितमे सरस्वति |
    अप्रशस्ता इव स्मसि प्रशस्तिम् अम्ब नस् कृधि ||

    ámbitame nádītame dévitame sárasvati ǀ
    apraśastā́ iva smasi práśastimamba naskṛdhi ǁ

    ambitame nadītame devitame sarasvati |
    apraśastā iva smasi praśastim amba nas kṛdhi ||

    अम्बि॑ऽतमे । नदी॑ऽतमे । देवि॑ऽतमे । सर॑स्वति ।
    अ॒प्र॒श॒स्ताःऽइ॑व । स्म॒सि॒ । प्रऽश॑स्तिम् । अ॒म्ब॒ । नः॒ । कृ॒धि॒ ॥

    अम्बिऽतमे । नदीऽतमे । देविऽतमे । सरस्वति ।
    अप्रशस्ताःऽइव । स्मसि । प्रऽशस्तिम् । अम्ब । नः । कृधि ॥

    ámbi-tame ǀ nádī-tame ǀ dévi-tame ǀ sárasvati ǀ
    apraśastā́ḥ-iva ǀ smasi ǀ prá-śastim ǀ amba ǀ naḥ ǀ kṛdhi ǁ

    ambi-tame ǀ nadī-tame ǀ devi-tame ǀ sarasvati ǀ
    apraśastāḥ-iva ǀ smasi ǀ pra-śastim ǀ amba ǀ naḥ ǀ kṛdhi ǁ

    2.41.16 Aṣṭaka 2.8.10.1Anuvāka 2.4.98

  17. Ṛk 17

    त्वे विश्वा॑ सरस्वति श्रि॒तायूं॑षि दे॒व्यां ।
    शु॒नहो॑त्रेषु मत्स्व प्र॒जां दे॑वि दिदिड्ढि नः ॥

    त्वे विश्वा सरस्वति श्रितायूंषि देव्याम् |
    शुनहोत्रेषु मत्स्व प्रजां देवि दिदिड्ढि नः ||

    tvé víśvā sarasvati śritā́yūṃṣi devyā́m ǀ
    śunáhotreṣu matsva prajā́m devi didiḍḍhi naḥ ǁ

    tve viśvā sarasvati śritāyūṃṣi devyām |
    śunahotreṣu matsva prajāṃ devi didiḍḍhi naḥ ||

    त्वे इति॑ । विश्वा॑ । स॒र॒स्व॒ति॒ । श्रि॒ता । आयूं॑षि । दे॒व्याम् ।
    शु॒नऽहो॑त्रेषु । म॒त्स्व॒ । प्र॒ऽजाम् । दे॒वि॒ । दि॒दि॒ड्ढि॒ । नः॒ ॥

    त्वे इति । विश्वा । सरस्वति । श्रिता । आयूंषि । देव्याम् ।
    शुनऽहोत्रेषु । मत्स्व । प्रऽजाम् । देवि । दिदिड्ढि । नः ॥

    tvé íti ǀ víśvā ǀ sarasvati ǀ śritā́ ǀ ā́yūṃṣi ǀ devyā́m ǀ
    śuná-hotreṣu ǀ matsva ǀ pra-jā́m ǀ devi ǀ didiḍḍhi ǀ naḥ ǁ

    tve iti ǀ viśvā ǀ sarasvati ǀ śritā ǀ āyūṃṣi ǀ devyām ǀ
    śuna-hotreṣu ǀ matsva ǀ pra-jām ǀ devi ǀ didiḍḍhi ǀ naḥ ǁ

    2.41.17 Aṣṭaka 2.8.10.2Anuvāka 2.4.99

  18. Ṛk 18

    इ॒मा ब्रह्म॑ सरस्वति जु॒षस्व॑ वाजिनीवति ।
    या ते॒ मन्म॑ गृत्सम॒दा ऋ॑तावरि प्रि॒या दे॒वेषु॒ जुह्व॑ति ॥

    इमा ब्रह्म सरस्वति जुषस्व वाजिनीवति |
    या ते मन्म गृत्समदा ऋतावरि प्रिया देवेषु जुह्वति ||

    imā́ bráhma sarasvati juṣásva vājinīvati ǀ
    yā́ te mánma gṛtsamadā́ ṛtāvari priyā́ devéṣu júhvati ǁ

    imā brahma sarasvati juṣasva vājinīvati |
    yā te manma gṛtsamadā ṛtāvari priyā deveṣu juhvati ||

    इ॒मा । ब्रह्म॑ । स॒र॒स्व॒ति॒ । जु॒षस्व॑ । वा॒जि॒नी॒ऽव॒ति॒ ।
    या । ते॒ । मन्म॑ । गृ॒त्स॒ऽम॒दाः । ऋ॒त॒ऽव॒रि॒ । प्रि॒या । दे॒वेषु॑ । जुह्व॑ति ॥

    इमा । ब्रह्म । सरस्वति । जुषस्व । वाजिनीऽवति ।
    या । ते । मन्म । गृत्सऽमदाः । ऋतऽवरि । प्रिया । देवेषु । जुह्वति ॥

    imā́ ǀ bráhma ǀ sarasvati ǀ juṣásva ǀ vājinī-vati ǀ
    yā́ ǀ te ǀ mánma ǀ gṛtsa-madā́ḥ ǀ ṛta-vari ǀ priyā́ ǀ devéṣu ǀ júhvati ǁ

    imā ǀ brahma ǀ sarasvati ǀ juṣasva ǀ vājinī-vati ǀ
    yā ǀ te ǀ manma ǀ gṛtsa-madāḥ ǀ ṛta-vari ǀ priyā ǀ deveṣu ǀ juhvati ǁ

    2.41.18 Aṣṭaka 2.8.10.3Anuvāka 2.4.100

  19. Ṛk 19

    प्रेतां॑ य॒ज्ञस्य॑ शं॒भुवा॑ यु॒वामिदा वृ॑णीमहे ।
    अ॒ग्निं च॑ हव्य॒वाह॑नं ॥

    प्रेतां यज्ञस्य शम्भुवा युवाम् इद् आ वृणीमहे |
    अग्निं च हव्यवाहनम् ||

    prétām yajñásya śambhúvā yuvā́mídā́ vṛṇīmahe ǀ
    agním ca havyavā́hanam ǁ

    pretāṃ yajñasya śambhuvā yuvām id ā vṛṇīmahe |
    agniṃ ca havyavāhanam ||

    प्र । इ॒ता॒म् । य॒ज्ञस्य॑ । श॒म्ऽभुवा॑ । यु॒वाम् । इत् । आ । वृ॒णी॒म॒हे॒ ।
    अ॒ग्निम् । च॒ । ह॒व्य॒ऽवाह॑नम् ॥

    प्र । इताम् । यज्ञस्य । शम्ऽभुवा । युवाम् । इत् । आ । वृणीमहे ।
    अग्निम् । च । हव्यऽवाहनम् ॥

    prá ǀ itām ǀ yajñásya ǀ śam-bhúvā ǀ yuvā́m ǀ ít ǀ ā́ ǀ vṛṇīmahe ǀ
    agním ǀ ca ǀ havya-vā́hanam ǁ

    pra ǀ itām ǀ yajñasya ǀ śam-bhuvā ǀ yuvām ǀ it ǀ ā ǀ vṛṇīmahe ǀ
    agnim ǀ ca ǀ havya-vāhanam ǁ

    2.41.19 Aṣṭaka 2.8.10.4Anuvāka 2.4.101

  20. Ṛk 20

    द्यावा॑ नः पृथि॒वी इ॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृशं॑ ।
    य॒ज्ञं दे॒वेषु॑ यच्छतां ॥

    द्यावा नः पृथिवी इमं सिध्रम् अद्य दिविस्पृशम् |
    यज्ञं देवेषु यच्छताम् ||

    dyā́vā naḥ pṛthivī́ imám sidhrámadyá divispṛ́śam ǀ
    yajñám devéṣu yacchatām ǁ

    dyāvā naḥ pṛthivī imaṃ sidhram adya divispṛśam |
    yajñaṃ deveṣu yacchatām ||

    द्यावा॑ । नः॒ । पृ॒थि॒वी इति॑ । इ॒मम् । सि॒ध्रम् । अ॒द्य । दि॒वि॒ऽस्पृश॑म् ।
    य॒ज्ञम् । दे॒वेषु॑ । य॒च्छ॒ता॒म् ॥

    द्यावा । नः । पृथिवी इति । इमम् । सिध्रम् । अद्य । दिविऽस्पृशम् ।
    यज्ञम् । देवेषु । यच्छताम् ॥

    dyā́vā ǀ naḥ ǀ pṛthivī́ íti ǀ imám ǀ sidhrám ǀ adyá ǀ divi-spṛ́śam ǀ
    yajñám ǀ devéṣu ǀ yacchatām ǁ

    dyāvā ǀ naḥ ǀ pṛthivī iti ǀ imam ǀ sidhram ǀ adya ǀ divi-spṛśam ǀ
    yajñam ǀ deveṣu ǀ yacchatām ǁ

    2.41.20 Aṣṭaka 2.8.10.5Anuvāka 2.4.102

  21. Ṛk 21

    आ वा॑मु॒पस्थ॑मद्रुहा दे॒वाः सी॑दंतु य॒ज्ञियाः॑ ।
    इ॒हाद्य सोम॑पीतये ॥

    आ वाम् उपस्थम् अद्रुहा देवाः सीदन्तु यज्ञियाः |
    इहाद्य सोमपीतये ||

    ā́ vāmupásthamadruhā devā́ḥ sīdantu yajñíyāḥ ǀ
    ihā́dyá sómapītaye ǁ

    ā vām upastham adruhā devāḥ sīdantu yajñiyāḥ |
    ihādya somapītaye ||

    आ । वा॒म् । उ॒पऽस्थ॑म् । अ॒द्रु॒हा॒ । दे॒वाः । सी॒द॒न्तु॒ । य॒ज्ञियाः॑ ।
    इ॒ह । अ॒द्य । सोम॑ऽपीतये ॥

    आ । वाम् । उपऽस्थम् । अद्रुहा । देवाः । सीदन्तु । यज्ञियाः ।
    इह । अद्य । सोमऽपीतये ॥

    ā́ ǀ vām ǀ upá-stham ǀ adruhā ǀ devā́ḥ ǀ sīdantu ǀ yajñíyāḥ ǀ
    ihá ǀ adyá ǀ sóma-pītaye ǁ

    ā ǀ vām ǀ upa-stham ǀ adruhā ǀ devāḥ ǀ sīdantu ǀ yajñiyāḥ ǀ
    iha ǀ adya ǀ soma-pītaye ǁ

    2.41.21 Aṣṭaka 2.8.10.6Anuvāka 2.4.103

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 2.41 · Vāyu · Indra, Vāyu · Mitra, Varuṇa · Aśvins · Indra · Viśvedevās · Indra, Maruts · Sarasvatī · Divaḥ, Pṛthivī Or The Soma Carts (Ab) · Divaḥ, Pṛthivī Or The Soma Carts Or Agni (C) · Divaḥ, Pṛthivī Or Soma Carts

Interpretations

Ralph T. H. Griffith

Ṛk 1

O VĀYU, come to us with all the thousand chariots that are thine, Team-borne, to drink the Soma juice.

Ṛk 2

Drawn by thy team, O Vāyu, come; to thee is offered this, the pure. Thou visitest the presser's house.

Ṛk 3

Indra and Vāyu, drawn by teams, ye Heroes, come today and drink. Of the bright juice when blent with milk.

Ṛk 4

This Soma hath been shed for you, Law-strengtheners, Mitra-Varuṇa! Listen ye here to this my call.

Ṛk 5

Both Kings who never injure aught seat them in their supremest home, The thousand-pillared, firmly-based.

Ṛk 6

Fed with oblation, Sovran Kings, Ādityas, Lords of liberal gifts. They wait on him whose life is true.

Ṛk 7

With kine, Nāsatyas, and with steeds, come, Aśvins, Rudras, to the house That will protect its heroes well;

Ṛk 8

Such, wealthy Gods! as none afar nor standing nigh to us may harm, Yea, no malicious mortal foe.

Ṛk 9

As such, O longed-far Aśvins, lead us on to wealth of varied sort, Wealth that shall bring us room and rest.

Ṛk 10

Verily Indra, conquering all, driveth e’en mighty fear away, For firm is he and swift to act.

Ṛk 11

Indra be gracious unto us: sin shall not reach us afterward, And good shall be before us still.

Ṛk 12

From all the regions of the world let Indra send security, The foe-subduer, swift to act.

Ṛk 13

O all ye Gods, come hitherward: hear this mine invocation, seat Yourselves upon this sacred grass.

Ṛk 14

Among the Śunahotras strong for you is this sweet gladdening draught. Drink ye of this delightsome juice.

Ṛk 15

Ye Maruts led by Indra, Gods with Pūṣan for your bounteousest, Hear all of you this call of mine.

Ṛk 16

Best Mother, best of Rivers, best of Goddesses, Sarasvatī, We are, as ’twere, of no repute and dear Mother, give thou us renown.

Ṛk 17

In thee, Sarasvatī, divine, all generations have their stay. Be, glad with Śunahotra's sons: O Goddess grant us progeny.

Ṛk 18

Enriched with sacrifice, accept Sarasvatī, these prayers of ours, Thoughts which Gṛtsamadas beloved of Gods bring, Holy One, to thee.

Ṛk 19

Ye who bless sacrifice, go forth, for verily we choose you both, And Agni who conveys our gifts.

Ṛk 20

This our effectual sacrifice, reaching the sky, shall Heaven and Earth Present unto the Gods to-day.