Sūkta 31
- Devatā देवता
- 1: Mitra, Varuṇa; 2-4, 6, 7: Viśvedevās; 5: Divaḥ, Pṛthivī
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles jagatī (1, 2, 4); virāṭjagatī (3); nicṛjjagatī (5); triṣṭup (6); paṅktiḥ (7)
2nd set of styles jagatī (1-6); triṣṭubh (7)
-
Ṛk 1
अ॒स्माकं॑ मित्रावरुणावतं॒ रथ॑मादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा॑ ।
प्र यद्वयो॒ न पप्त॒न्वस्म॑न॒स्परि॑ श्रव॒स्यवो॒ हृषी॑वंतो वन॒र्षदः॑ ॥अस्माकम् मित्रावरुणावतं रथम् आदित्यै रुद्रैर् वसुभिः सचाभुवा |
प्र यद् वयो न पप्तन् वस्मनस् परि श्रवस्यवो हृषीवन्तो वनर्षदः ||asmā́kam mitrāvaruṇāvatam ráthamādityái rudráirvásubhiḥ sacābhúvā ǀ
prá yádváyo ná páptanvásmanaspári śravasyávo hṛ́ṣīvanto vanarṣádaḥ ǁasmākam mitrāvaruṇāvataṃ ratham ādityai rudrair vasubhiḥ sacābhuvā |
pra yad vayo na paptan vasmanas pari śravasyavo hṛṣīvanto vanarṣadaḥ ||अ॒स्माक॑म् । मि॒त्रा॒व॒रु॒णा॒ । अ॒व॒त॒म् । रथ॑म् । आ॒दि॒त्यैः । रु॒द्रैः । वसु॑ऽभिः । स॒चा॒ऽभुवा॑ ।
प्र । यत् । वयः॑ । न । पप्त॑न् । वस्म॑नः । परि॑ । श्र॒व॒स्यवः॑ । हृषी॑ऽवन्तः । व॒न॒ऽसदः॑ ॥अस्माकम् । मित्रावरुणा । अवतम् । रथम् । आदित्यैः । रुद्रैः । वसुऽभिः । सचाऽभुवा ।
प्र । यत् । वयः । न । पप्तन् । वस्मनः । परि । श्रवस्यवः । हृषीऽवन्तः । वनऽसदः ॥asmā́kam ǀ mitrāvaruṇā ǀ avatam ǀ rátham ǀ ādityáiḥ ǀ rudráiḥ ǀ vásu-bhiḥ ǀ sacā-bhúvā ǀ
prá ǀ yát ǀ váyaḥ ǀ ná ǀ páptan ǀ vásmanaḥ ǀ pári ǀ śravasyávaḥ ǀ hṛ́ṣī-vantaḥ ǀ vana-sádaḥ ǁasmākam ǀ mitrāvaruṇā ǀ avatam ǀ ratham ǀ ādityaiḥ ǀ rudraiḥ ǀ vasu-bhiḥ ǀ sacā-bhuvā ǀ
pra ǀ yat ǀ vayaḥ ǀ na ǀ paptan ǀ vasmanaḥ ǀ pari ǀ śravasyavaḥ ǀ hṛṣī-vantaḥ ǀ vana-sadaḥ ǁ2.31.1 Aṣṭaka 2.7.14.1Anuvāka 2.3.91
-
Ṛk 2
अध॑ स्मा न॒ उद॑वता सजोषसो॒ रथं॑ देवासो अ॒भि वि॒क्षु वा॑ज॒युं ।
यदा॒शवः॒ पद्या॑भि॒स्तित्र॑तो॒ रजः॑ पृथि॒व्याः सानौ॒ जंघ॑नंत पा॒णिभिः॑ ॥अध स्मा न उद् अवता सजोषसो रथं देवासो अभि विक्षु वाजयुम् |
यद् आशवः पद्याभिस् तित्रतो रजः पृथिव्याः सानौ जङ्घनन्त पाणिभिः ||ádha smā na údavatā sajoṣaso rátham devāso abhí vikṣú vājayúm ǀ
yádāśávaḥ pádyābhistítrato rájaḥ pṛthivyā́ḥ sā́nau jáṅghananta pāṇíbhiḥ ǁadha smā na ud avatā sajoṣaso rathaṃ devāso abhi vikṣu vājayum |
yad āśavaḥ padyābhis titrato rajaḥ pṛthivyāḥ sānau jaṅghananta pāṇibhiḥ ||अध॑ । स्म॒ । नः॒ । उत् । अ॒व॒त॒ । स॒ऽजो॒ष॒सः॒ । रथ॑म् । दे॒वा॒सः॒ । अ॒भि । वि॒क्षु । वा॒ज॒ऽयुम् ।
यत् । आ॒शवः॑ । पद्या॑भिः । तित्र॑तः । रजः॑ । पृ॒थि॒व्याः । सानौ॑ । जङ्घ॑नन्त । पा॒णिऽभिः॑ ॥अध । स्म । नः । उत् । अवत । सऽजोषसः । रथम् । देवासः । अभि । विक्षु । वाजऽयुम् ।
यत् । आशवः । पद्याभिः । तित्रतः । रजः । पृथिव्याः । सानौ । जङ्घनन्त । पाणिऽभिः ॥ádha ǀ sma ǀ naḥ ǀ út ǀ avata ǀ sa-joṣasaḥ ǀ rátham ǀ devāsaḥ ǀ abhí ǀ vikṣú ǀ vāja-yúm ǀ
yát ǀ āśávaḥ ǀ pádyābhiḥ ǀ títrataḥ ǀ rájaḥ ǀ pṛthivyā́ḥ ǀ sā́nau ǀ jáṅghananta ǀ pāṇí-bhiḥ ǁadha ǀ sma ǀ naḥ ǀ ut ǀ avata ǀ sa-joṣasaḥ ǀ ratham ǀ devāsaḥ ǀ abhi ǀ vikṣu ǀ vāja-yum ǀ
yat ǀ āśavaḥ ǀ padyābhiḥ ǀ titrataḥ ǀ rajaḥ ǀ pṛthivyāḥ ǀ sānau ǀ jaṅghananta ǀ pāṇi-bhiḥ ǁ2.31.2 Aṣṭaka 2.7.14.2Anuvāka 2.3.92
-
Ṛk 3
उ॒त स्य न॒ इंद्रो॑ वि॒श्वच॑र्षणिर्दि॒वः शर्धे॑न॒ मारु॑तेन सु॒क्रतुः॑ ।
अनु॒ नु स्था॑त्यवृ॒काभि॑रू॒तिभी॒ रथं॑ म॒हे स॒नये॒ वाज॑सातये ॥उत स्य न इन्द्रो विश्वचर्षणिर् दिवः शर्धेन मारुतेन सुक्रतुः |
अनु नु स्थात्य् अवृकाभिर् ऊतिभी रथम् महे सनये वाजसातये ||utá syá na índro viśvácarṣaṇirdiváḥ śárdhena mā́rutena sukrátuḥ ǀ
ánu nú sthātyavṛkā́bhirūtíbhī rátham mahé sanáye vā́jasātaye ǁuta sya na indro viśvacarṣaṇir divaḥ śardhena mārutena sukratuḥ |
anu nu sthāty avṛkābhir ūtibhī ratham mahe sanaye vājasātaye ||उ॒त । स्यः । नः॒ । इन्द्रः॑ । वि॒श्वऽच॑र्षणिः । दि॒वः । शर्धे॑न । मारु॑तेन । सु॒ऽक्रतुः॑ ।
अनु॑ । नु । स्था॒ति॒ । अ॒वृ॒काभिः॑ । ऊ॒तिऽभिः॑ । रथ॑म् । म॒हे । स॒नये॑ । वाज॑ऽसातये ॥उत । स्यः । नः । इन्द्रः । विश्वऽचर्षणिः । दिवः । शर्धेन । मारुतेन । सुऽक्रतुः ।
अनु । नु । स्थाति । अवृकाभिः । ऊतिऽभिः । रथम् । महे । सनये । वाजऽसातये ॥utá ǀ syáḥ ǀ naḥ ǀ índraḥ ǀ viśvá-carṣaṇiḥ ǀ diváḥ ǀ śárdhena ǀ mā́rutena ǀ su-krátuḥ ǀ
ánu ǀ nú ǀ sthāti ǀ avṛkā́bhiḥ ǀ ūtí-bhiḥ ǀ rátham ǀ mahé ǀ sanáye ǀ vā́ja-sātaye ǁuta ǀ syaḥ ǀ naḥ ǀ indraḥ ǀ viśva-carṣaṇiḥ ǀ divaḥ ǀ śardhena ǀ mārutena ǀ su-kratuḥ ǀ
anu ǀ nu ǀ sthāti ǀ avṛkābhiḥ ǀ ūti-bhiḥ ǀ ratham ǀ mahe ǀ sanaye ǀ vāja-sātaye ǁ2.31.3 Aṣṭaka 2.7.14.3Anuvāka 2.3.93
-
Ṛk 4
उ॒त स्य दे॒वो भुव॑नस्य स॒क्षणि॒स्त्वष्टा॒ ग्नाभिः॑ स॒जोषा॑ जूजुव॒द्रथं॑ ।
इळा॒ भगो॑ बृहद्दि॒वोत रोद॑सी पू॒षा पुरं॑धिर॒श्विना॒वधा॒ पती॑ ॥उत स्य देवो भुवनस्य सक्षणिस् त्वष्टा ग्नाभिः सजोषा जूजुवद् रथम् |
इऌआ भगो बृहद्दिवोत रोदसी पूषा पुरन्धिर् अश्विनाव् अधा पती ||utá syá devó bhúvanasya sakṣáṇistváṣṭā gnā́bhiḥ sajóṣā jūjuvadrátham ǀ
íḷā bhágo bṛhaddivótá ródasī pūṣā́ púraṃdhiraśvínāvádhā pátī ǁuta sya devo bhuvanasya sakṣaṇis tvaṣṭā gnābhiḥ sajoṣā jūjuvad ratham |
iḷā bhago bṛhaddivota rodasī pūṣā purandhir aśvināv adhā patī ||उ॒त । स्यः । दे॒वः । भुव॑नस्य । स॒क्षणिः॑ । त्वष्टा॑ । ग्नाभिः॑ । स॒ऽजोषाः॑ । जू॒जु॒व॒त् । रथ॑म् ।
इळा॑ । भगः॑ । बृ॒ह॒त्ऽदि॒वा । उ॒त । रोद॑सी॒ इति॑ । पू॒षा । पुर॑म्ऽधिः । अ॒श्विनौ॑ । अध॑ । पती॒ इति॑ ॥उत । स्यः । देवः । भुवनस्य । सक्षणिः । त्वष्टा । ग्नाभिः । सऽजोषाः । जूजुवत् । रथम् ।
इळा । भगः । बृहत्ऽदिवा । उत । रोदसी इति । पूषा । पुरम्ऽधिः । अश्विनौ । अध । पती इति ॥utá ǀ syáḥ ǀ deváḥ ǀ bhúvanasya ǀ sakṣáṇiḥ ǀ tváṣṭā ǀ gnā́bhiḥ ǀ sa-jóṣāḥ ǀ jūjuvat ǀ rátham ǀ
íḷā ǀ bhágaḥ ǀ bṛhat-divā́ ǀ utá ǀ ródasī íti ǀ pūṣā́ ǀ púram-dhiḥ ǀ aśvínau ǀ ádha ǀ pátī íti ǁuta ǀ syaḥ ǀ devaḥ ǀ bhuvanasya ǀ sakṣaṇiḥ ǀ tvaṣṭā ǀ gnābhiḥ ǀ sa-joṣāḥ ǀ jūjuvat ǀ ratham ǀ
iḷā ǀ bhagaḥ ǀ bṛhat-divā ǀ uta ǀ rodasī iti ǀ pūṣā ǀ puram-dhiḥ ǀ aśvinau ǀ adha ǀ patī iti ǁ2.31.4 Aṣṭaka 2.7.14.4Anuvāka 2.3.94
-
Ṛk 5
उ॒त त्ये दे॒वी सु॒भगे॑ मिथू॒दृशो॒षासा॒नक्ता॒ जग॑तामपी॒जुवा॑ ।
स्तु॒षे यद्वां॑ पृथिवि॒ नव्य॑सा॒ वचः॑ स्था॒तुश्च॒ वय॒स्त्रिव॑या उप॒स्तिरे॑ ॥उत त्ये देवी सुभगे मिथूदृशोषासानक्ता जगताम् अपीजुवा |
स्तुषे यद् वाम् पृथिवि नव्यसा वच स्थातुश् च वयस् त्रिवया उपस्तिरे ||utá tyé devī́ subháge mithūdṛ́śoṣā́sānáktā jágatāmapījúvā ǀ
stuṣé yádvām pṛthivi návyasā vácaḥ sthātúśca váyastrívayā upastíre ǁuta tye devī subhage mithūdṛśoṣāsānaktā jagatām apījuvā |
stuṣe yad vām pṛthivi navyasā vaca sthātuś ca vayas trivayā upastire ||उ॒त । त्ये इति॑ । दे॒वी इति॑ । सु॒भगे॒ इति॑ सु॒ऽभगे॑ । मि॒थु॒ऽदृशा॑ । उ॒षसा॒नक्ता॑ । जग॑ताम् । अ॒पि॒ऽजुवा॑ ।
स्तु॒षे । यत् । वा॒म् । पृ॒थि॒वि॒ । नव्य॑सा । वचः॑ । स्था॒तुः । च॒ । वयः॑ । त्रिऽव॑याः । उ॒प॒ऽस्तिरे॑ ॥उत । त्ये इति । देवी इति । सुभगे इति सुऽभगे । मिथुऽदृशा । उषसानक्ता । जगताम् । अपिऽजुवा ।
स्तुषे । यत् । वाम् । पृथिवि । नव्यसा । वचः । स्थातुः । च । वयः । त्रिऽवयाः । उपऽस्तिरे ॥utá ǀ tyé íti ǀ devī́ íti ǀ subháge íti su-bháge ǀ mithu-dṛ́śā ǀ uṣásānáktā ǀ jágatām ǀ api-júvā ǀ
stuṣé ǀ yát ǀ vām ǀ pṛthivi ǀ návyasā ǀ vácaḥ ǀ sthātúḥ ǀ ca ǀ váyaḥ ǀ trí-vayāḥ ǀ upa-stíre ǁuta ǀ tye iti ǀ devī iti ǀ subhage iti su-bhage ǀ mithu-dṛśā ǀ uṣasānaktā ǀ jagatām ǀ api-juvā ǀ
stuṣe ǀ yat ǀ vām ǀ pṛthivi ǀ navyasā ǀ vacaḥ ǀ sthātuḥ ǀ ca ǀ vayaḥ ǀ tri-vayāḥ ǀ upa-stire ǁ2.31.5 Aṣṭaka 2.7.14.5Anuvāka 2.3.95
-
Ṛk 6
उ॒त वः॒ शंस॑मु॒शिजा॑मिव श्म॒स्यहि॑र्बु॒ध्न्यो॒३॒॑ऽज एक॑पादु॒त ।
त्रि॒त ऋ॑भु॒क्षाः स॑वि॒ता चनो॑ दधे॒ऽपां नपा॑दाशु॒हेमा॑ धि॒या शमि॑ ॥उत वः शंसम् उशिजाम् इव श्मस्य् अहिर् बुध्न्यो ऽज एकपाद् उत |
त्रित ऋभुक्षाः सविता चनो दधे ऽपां नपाद् आशुहेमा धिया शमि ||utá vaḥ śáṃsamuśíjāmiva śmasyáhirbudhnyó’já ékapādutá ǀ
tritá ṛbhukṣā́ḥ savitā́ cáno dadhe’pā́m nápādāśuhémā dhiyā́ śámi ǁuta vaḥ śaṃsam uśijām iva śmasy ahir budhnyo 'ja ekapād uta |
trita ṛbhukṣāḥ savitā cano dadhe 'pāṃ napād āśuhemā dhiyā śami ||उ॒त । वः॒ । शंस॑म् । उ॒शिजा॑म्ऽइव । श्म॒सि॒ । अहिः॑ । बु॒ध्न्यः॑ । अ॒जः । एक॑ऽपात् । उ॒त ।
त्रि॒तः । ऋ॒भु॒क्षाः । स॒वि॒ता । चनः॑ । द॒धे॒ । अ॒पाम् । नपा॑त् । आ॒शु॒ऽहेमा॑ । धि॒या । शमि॑ ॥उत । वः । शंसम् । उशिजाम्ऽइव । श्मसि । अहिः । बुध्न्यः । अजः । एकऽपात् । उत ।
त्रितः । ऋभुक्षाः । सविता । चनः । दधे । अपाम् । नपात् । आशुऽहेमा । धिया । शमि ॥utá ǀ vaḥ ǀ śáṃsam ǀ uśíjām-iva ǀ śmasi ǀ áhiḥ ǀ budhnyáḥ ǀ ajáḥ ǀ éka-pāt ǀ utá ǀ
tritáḥ ǀ ṛbhukṣā́ḥ ǀ savitā́ ǀ cánaḥ ǀ dadhe ǀ apā́m ǀ nápāt ǀ āśu-hémā ǀ dhiyā́ ǀ śámi ǁuta ǀ vaḥ ǀ śaṃsam ǀ uśijām-iva ǀ śmasi ǀ ahiḥ ǀ budhnyaḥ ǀ ajaḥ ǀ eka-pāt ǀ uta ǀ
tritaḥ ǀ ṛbhukṣāḥ ǀ savitā ǀ canaḥ ǀ dadhe ǀ apām ǀ napāt ǀ āśu-hemā ǀ dhiyā ǀ śami ǁ2.31.6 Aṣṭaka 2.7.14.6Anuvāka 2.3.96
-
Ṛk 7
ए॒ता वो॑ व॒श्म्युद्य॑ता यजत्रा॒ अत॑क्षन्ना॒यवो॒ नव्य॑से॒ सं ।
श्र॒व॒स्यवो॒ वाजं॑ चका॒नाः सप्ति॒र्न रथ्यो॒ अह॑ धी॒तिम॑श्याः ॥एता वो वश्म्य् उद्यता यजत्रा अतक्षन्न् आयवो नव्यसे सम् |
श्रवस्यवो वाजं चकानाः सप्तिर् न रथ्यो अह धीतिम् अश्याः ||etā́ vo vaśmyúdyatā yajatrā átakṣannāyávo návyase sám ǀ
śravasyávo vā́jam cakānā́ḥ sáptirná ráthyo áha dhītímaśyāḥ ǁetā vo vaśmy udyatā yajatrā atakṣann āyavo navyase sam |
śravasyavo vājaṃ cakānāḥ saptir na rathyo aha dhītim aśyāḥ ||ए॒ता । वः॒ । व॒श्मि॒ । उत्ऽय॑ता । य॒ज॒त्राः॒ । अत॑क्षन् । आ॒यवः॑ । नव्य॑से । सम् ।
श्र॒व॒स्यवः॑ । वाज॑म् । च॒का॒नाः । सप्तिः॑ । न । रथ्यः॑ । अह॑ । धी॒तिम् । अ॒श्याः॒ ॥एता । वः । वश्मि । उत्ऽयता । यजत्राः । अतक्षन् । आयवः । नव्यसे । सम् ।
श्रवस्यवः । वाजम् । चकानाः । सप्तिः । न । रथ्यः । अह । धीतिम् । अश्याः ॥etā́ ǀ vaḥ ǀ vaśmi ǀ út-yatā ǀ yajatrāḥ ǀ átakṣan ǀ āyávaḥ ǀ návyase ǀ sám ǀ
śravasyávaḥ ǀ vā́jam ǀ cakānā́ḥ ǀ sáptiḥ ǀ ná ǀ ráthyaḥ ǀ áha ǀ dhītím ǀ aśyāḥ ǁetā ǀ vaḥ ǀ vaśmi ǀ ut-yatā ǀ yajatrāḥ ǀ atakṣan ǀ āyavaḥ ǀ navyase ǀ sam ǀ
śravasyavaḥ ǀ vājam ǀ cakānāḥ ǀ saptiḥ ǀ na ǀ rathyaḥ ǀ aha ǀ dhītim ǀ aśyāḥ ǁ2.31.7 Aṣṭaka 2.7.14.7Anuvāka 2.3.97
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.