Ṛk 2.31.6
Saṃhitā
उ॒त वः॒ शंस॑मु॒शिजा॑मिव श्म॒स्यहि॑र्बु॒ध्न्यो॒३॒॑ऽज एक॑पादु॒त ।
त्रि॒त ऋ॑भु॒क्षाः स॑वि॒ता चनो॑ दधे॒ऽपां नपा॑दाशु॒हेमा॑ धि॒या शमि॑ ॥
उत वः शंसम् उशिजाम् इव श्मस्य् अहिर् बुध्न्यो ऽज एकपाद् उत |
त्रित ऋभुक्षाः सविता चनो दधे ऽपां नपाद् आशुहेमा धिया शमि ||
utá vaḥ śáṃsamuśíjāmiva śmasyáhirbudhnyó’já ékapādutá ǀ
tritá ṛbhukṣā́ḥ savitā́ cáno dadhe’pā́m nápādāśuhémā dhiyā́ śámi ǁ
uta vaḥ śaṃsam uśijām iva śmasy ahir budhnyo 'ja ekapād uta |
trita ṛbhukṣāḥ savitā cano dadhe 'pāṃ napād āśuhemā dhiyā śami ||
Padapāṭha
उ॒त । वः॒ । शंस॑म् । उ॒शिजा॑म्ऽइव । श्म॒सि॒ । अहिः॑ । बु॒ध्न्यः॑ । अ॒जः । एक॑ऽपात् । उ॒त ।
त्रि॒तः । ऋ॒भु॒क्षाः । स॒वि॒ता । चनः॑ । द॒धे॒ । अ॒पाम् । नपा॑त् । आ॒शु॒ऽहेमा॑ । धि॒या । शमि॑ ॥
उत । वः । शंसम् । उशिजाम्ऽइव । श्मसि । अहिः । बुध्न्यः । अजः । एकऽपात् । उत ।
त्रितः । ऋभुक्षाः । सविता । चनः । दधे । अपाम् । नपात् । आशुऽहेमा । धिया । शमि ॥
utá ǀ vaḥ ǀ śáṃsam ǀ uśíjām-iva ǀ śmasi ǀ áhiḥ ǀ budhnyáḥ ǀ ajáḥ ǀ éka-pāt ǀ utá ǀ
tritáḥ ǀ ṛbhukṣā́ḥ ǀ savitā́ ǀ cánaḥ ǀ dadhe ǀ apā́m ǀ nápāt ǀ āśu-hémā ǀ dhiyā́ ǀ śámi ǁ
uta ǀ vaḥ ǀ śaṃsam ǀ uśijām-iva ǀ śmasi ǀ ahiḥ ǀ budhnyaḥ ǀ ajaḥ ǀ eka-pāt ǀ uta ǀ
tritaḥ ǀ ṛbhukṣāḥ ǀ savitā ǀ canaḥ ǀ dadhe ǀ apām ǀ napāt ǀ āśu-hemā ǀ dhiyā ǀ śami ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.031.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.7.14.06
- Maṇḍala · Anuvāka · Ṛk
- 02.03.096
- Devatā देवता
- 1: Mitra, Varuṇa; 2-4, 6, 7: Viśvedevās; 5: Divaḥ, Pṛthivī
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.