Sūkta 14
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (1, 3, 4, 9, 10, 12); nicṛttriṣṭup (2, 6, 8); nicṛtpaṅkti (5); virāṭtrisṭup (7); bhurikpaṅkti (11)
2nd set of styles triṣṭubh
-
Ṛk 1
अध्व॑र्यवो॒ भर॒तेंद्रा॑य॒ सोम॒माम॑त्रेभिः सिंचता॒ मद्य॒मंधः॑ ।
का॒मी हि वी॒रः सद॑मस्य पी॒तिं जु॒होत॒ वृष्णे॒ तदिदे॒ष व॑ष्टि ॥अध्वर्यवो भरतेन्द्राय सोमम् आमत्रेभिः सिञ्चता मद्यम् अन्धः |
कामी हि वीरः सदम् अस्य पीतिं जुहोत वृष्णे तद् इद् एष वष्टि ||ádhvaryavo bháraténdrāya sómamā́matrebhiḥ siñcatā mádyamándhaḥ ǀ
kāmī́ hí vīráḥ sádamasya pītím juhóta vṛ́ṣṇe tádídeṣá vaṣṭi ǁadhvaryavo bharatendrāya somam āmatrebhiḥ siñcatā madyam andhaḥ |
kāmī hi vīraḥ sadam asya pītiṃ juhota vṛṣṇe tad id eṣa vaṣṭi ||अध्व॑र्यवः । भर॑त । इन्द्रा॑य । सोम॑म् । आ । अम॑त्रेभिः । सि॒ञ्च॒त॒ । मद्य॑म् । अन्धः॑ ।
का॒मी । हि । वी॒रः । सद॑म् । अ॒स्य॒ । पी॒तिम् । जु॒होत॑ । वृष्णे॑ । तत् । इत् । ए॒षः । व॒ष्टि॒ ॥अध्वर्यवः । भरत । इन्द्राय । सोमम् । आ । अमत्रेभिः । सिञ्चत । मद्यम् । अन्धः ।
कामी । हि । वीरः । सदम् । अस्य । पीतिम् । जुहोत । वृष्णे । तत् । इत् । एषः । वष्टि ॥ádhvaryavaḥ ǀ bhárata ǀ índrāya ǀ sómam ǀ ā́ ǀ ámatrebhiḥ ǀ siñcata ǀ mádyam ǀ ándhaḥ ǀ
kāmī́ ǀ hí ǀ vīráḥ ǀ sádam ǀ asya ǀ pītím ǀ juhóta ǀ vṛ́ṣṇe ǀ tát ǀ ít ǀ eṣáḥ ǀ vaṣṭi ǁadhvaryavaḥ ǀ bharata ǀ indrāya ǀ somam ǀ ā ǀ amatrebhiḥ ǀ siñcata ǀ madyam ǀ andhaḥ ǀ
kāmī ǀ hi ǀ vīraḥ ǀ sadam ǀ asya ǀ pītim ǀ juhota ǀ vṛṣṇe ǀ tat ǀ it ǀ eṣaḥ ǀ vaṣṭi ǁ2.14.1 Aṣṭaka 2.6.13.1Anuvāka 2.2.29
-
Ṛk 2
अध्व॑र्यवो॒ यो अ॒पो व॑व्रि॒वांसं॑ वृ॒त्रं ज॒घाना॒शन्ये॑व वृ॒क्षं ।
तस्मा॑ ए॒तं भ॑रत तद्व॒शायँ॑ ए॒ष इंद्रो॑ अर्हति पी॒तिम॑स्य ॥अध्वर्यवो यो अपो वव्रिवांसं वृत्रं जघानाशन्येव वृक्षम् |
तस्मा एतम् भरत तद्वशायं एष इन्द्रो अर्हति पीतिम् अस्य ||ádhvaryavo yó apó vavrivā́ṃsam vṛtrám jaghā́nāśányeva vṛkṣám ǀ
tásmā etám bharata tadvaśā́yam̐ eṣá índro arhati pītímasya ǁadhvaryavo yo apo vavrivāṃsaṃ vṛtraṃ jaghānāśanyeva vṛkṣam |
tasmā etam bharata tadvaśāyaṃ eṣa indro arhati pītim asya ||अध्व॑र्यवः । यः । अ॒पः । व॒व्रि॒ऽवांस॑म् । वृ॒त्रम् । ज॒घान॑ । अ॒शन्या॑ऽइव । वृ॒क्षम् ।
तस्मै॑ । ए॒तम् । भ॒र॒त॒ । त॒त्ऽव॒शाय॑ । ए॒षः । इन्द्रः॑ । अ॒र्ह॒ति॒ । पी॒तिम् । अ॒स्य॒ ॥अध्वर्यवः । यः । अपः । वव्रिऽवांसम् । वृत्रम् । जघान । अशन्याऽइव । वृक्षम् ।
तस्मै । एतम् । भरत । तत्ऽवशाय । एषः । इन्द्रः । अर्हति । पीतिम् । अस्य ॥ádhvaryavaḥ ǀ yáḥ ǀ apáḥ ǀ vavri-vā́ṃsam ǀ vṛtrám ǀ jaghā́na ǀ aśányā-iva ǀ vṛkṣám ǀ
tásmai ǀ etám ǀ bharata ǀ tat-vaśā́ya ǀ eṣáḥ ǀ índraḥ ǀ arhati ǀ pītím ǀ asya ǁadhvaryavaḥ ǀ yaḥ ǀ apaḥ ǀ vavri-vāṃsam ǀ vṛtram ǀ jaghāna ǀ aśanyā-iva ǀ vṛkṣam ǀ
tasmai ǀ etam ǀ bharata ǀ tat-vaśāya ǀ eṣaḥ ǀ indraḥ ǀ arhati ǀ pītim ǀ asya ǁ2.14.2 Aṣṭaka 2.6.13.2Anuvāka 2.2.30
-
Ṛk 3
अध्व॑र्यवो॒ यो दृभी॑कं ज॒घान॒ यो गा उ॒दाज॒दप॒ हि व॒लं वः ।
तस्मा॑ ए॒तमं॒तरि॑क्षे॒ न वात॒मिंद्रं॒ सोमै॒रोर्णु॑त॒ जूर्न वस्त्रैः॑ ॥अध्वर्यवो यो दृभीकं जघान यो गा उदाजद् अप हि वलं वः |
तस्मा एतम् अन्तरिक्षे न वातम् इन्द्रं सोमैर् ओर्णुत जूर् न वस्त्रैः ||ádhvaryavo yó dṛ́bhīkam jaghā́na yó gā́ udā́jadápa hí valám váḥ ǀ
tásmā etámantárikṣe ná vā́tamíndram sómairórṇuta jū́rná vástraiḥ ǁadhvaryavo yo dṛbhīkaṃ jaghāna yo gā udājad apa hi valaṃ vaḥ |
tasmā etam antarikṣe na vātam indraṃ somair orṇuta jūr na vastraiḥ ||अध्व॑र्यवः । यः । दृभी॑कम् । ज॒घान॑ । यः । गाः । उ॒त्ऽआज॑त् । अप॑ । हि । व॒लम् । वरिति॒ वः ।
तस्मै॑ । ए॒तम् । अ॒न्तरि॑क्षे । न । वात॑म् । इन्द्र॑म् । सोमैः॑ । आ । ऊ॒र्णु॒त॒ । जूः । न । वस्त्रैः॑ ॥अध्वर्यवः । यः । दृभीकम् । जघान । यः । गाः । उत्ऽआजत् । अप । हि । वलम् । वरिति वः ।
तस्मै । एतम् । अन्तरिक्षे । न । वातम् । इन्द्रम् । सोमैः । आ । ऊर्णुत । जूः । न । वस्त्रैः ॥ádhvaryavaḥ ǀ yáḥ ǀ dṛ́bhīkam ǀ jaghā́na ǀ yáḥ ǀ gā́ḥ ǀ ut-ā́jat ǀ ápa ǀ hí ǀ valám ǀ váríti váḥ ǀ
tásmai ǀ etám ǀ antárikṣe ǀ ná ǀ vā́tam ǀ índram ǀ sómaiḥ ǀ ā́ ǀ ūrṇuta ǀ jū́ḥ ǀ ná ǀ vástraiḥ ǁadhvaryavaḥ ǀ yaḥ ǀ dṛbhīkam ǀ jaghāna ǀ yaḥ ǀ gāḥ ǀ ut-ājat ǀ apa ǀ hi ǀ valam ǀ variti vaḥ ǀ
tasmai ǀ etam ǀ antarikṣe ǀ na ǀ vātam ǀ indram ǀ somaiḥ ǀ ā ǀ ūrṇuta ǀ jūḥ ǀ na ǀ vastraiḥ ǁ2.14.3 Aṣṭaka 2.6.13.3Anuvāka 2.2.31
-
Ṛk 4
अध्व॑र्यवो॒ य उर॑णं ज॒घान॒ नव॑ च॒ख्वांसं॑ नव॒तिं च॑ बा॒हून् ।
यो अर्बु॑द॒मव॑ नी॒चा ब॑बा॒धे तमिंद्रं॒ सोम॑स्य भृ॒थे हि॑नोत ॥अध्वर्यवो य उरणं जघान नव चख्वांसं नवतिं च बाहून् |
यो अर्बुदम् अव नीचा बबाधे तम् इन्द्रं सोमस्य भृथे हिनोत ||ádhvaryavo yá úraṇam jaghā́na náva cakhvā́ṃsam navatím ca bāhū́n ǀ
yó árbudamáva nīcā́ babādhé támíndram sómasya bhṛthé hinota ǁadhvaryavo ya uraṇaṃ jaghāna nava cakhvāṃsaṃ navatiṃ ca bāhūn |
yo arbudam ava nīcā babādhe tam indraṃ somasya bhṛthe hinota ||अध्व॑र्यवः । यः । उर॑णम् । ज॒घान॑ । नव॑ । च॒ख्वांस॑म् । न॒व॒तिम् । च॒ । बा॒हून् ।
यः । अर्बु॑दम् । अव॑ । नी॒चा । ब॒बा॒धे । तम् । इन्द्र॑म् । सोम॑स्य । भृ॒थे । हि॒नो॒त॒ ॥अध्वर्यवः । यः । उरणम् । जघान । नव । चख्वांसम् । नवतिम् । च । बाहून् ।
यः । अर्बुदम् । अव । नीचा । बबाधे । तम् । इन्द्रम् । सोमस्य । भृथे । हिनोत ॥ádhvaryavaḥ ǀ yáḥ ǀ úraṇam ǀ jaghā́na ǀ náva ǀ cakhvā́ṃsam ǀ navatím ǀ ca ǀ bāhū́n ǀ
yáḥ ǀ árbudam ǀ áva ǀ nīcā́ ǀ babādhé ǀ tám ǀ índram ǀ sómasya ǀ bhṛthé ǀ hinota ǁadhvaryavaḥ ǀ yaḥ ǀ uraṇam ǀ jaghāna ǀ nava ǀ cakhvāṃsam ǀ navatim ǀ ca ǀ bāhūn ǀ
yaḥ ǀ arbudam ǀ ava ǀ nīcā ǀ babādhe ǀ tam ǀ indram ǀ somasya ǀ bhṛthe ǀ hinota ǁ2.14.4 Aṣṭaka 2.6.13.4Anuvāka 2.2.32
-
Ṛk 5
अध्व॑र्यवो॒ यः स्वश्नं॑ ज॒घान॒ यः शुष्ण॑म॒शुषं॒ यो व्यं॑सं ।
यः पिप्रुं॒ नमु॑चिं॒ यो रु॑धि॒क्रां तस्मा॒ इंद्रा॒यांध॑सो जुहोत ॥अध्वर्यवो यः स्व् अश्नं जघान यः शुष्णम् अशुषं यो व्यंसम् |
यः पिप्रुं नमुचिं यो रुधिक्रां तस्मा इन्द्रायान्धसो जुहोत ||ádhvaryavo yáḥ sváśnam jaghā́na yáḥ śúṣṇamaśúṣam yó vyáṃsam ǀ
yáḥ píprum námucim yó rudhikrā́m tásmā índrāyā́ndhaso juhota ǁadhvaryavo yaḥ sv aśnaṃ jaghāna yaḥ śuṣṇam aśuṣaṃ yo vyaṃsam |
yaḥ pipruṃ namuciṃ yo rudhikrāṃ tasmā indrāyāndhaso juhota ||अध्व॑र्यवः । यः । सु । अश्न॑म् । ज॒घान॑ । यः । शुष्ण॑म् । अ॒शुष॑म् । यः । विऽअं॑सम् ।
यः । पिप्रु॑म् । नमु॑चिम् । यः । रु॒धि॒ऽक्राम् । तस्मै॑ । इन्द्रा॑य । अन्ध॑सः । जु॒हो॒त॒ ॥अध्वर्यवः । यः । सु । अश्नम् । जघान । यः । शुष्णम् । अशुषम् । यः । विऽअंसम् ।
यः । पिप्रुम् । नमुचिम् । यः । रुधिऽक्राम् । तस्मै । इन्द्राय । अन्धसः । जुहोत ॥ádhvaryavaḥ ǀ yáḥ ǀ sú ǀ áśnam ǀ jaghā́na ǀ yáḥ ǀ śúṣṇam ǀ aśúṣam ǀ yáḥ ǀ ví-aṃsam ǀ
yáḥ ǀ píprum ǀ námucim ǀ yáḥ ǀ rudhi-krā́m ǀ tásmai ǀ índrāya ǀ ándhasaḥ ǀ juhota ǁadhvaryavaḥ ǀ yaḥ ǀ su ǀ aśnam ǀ jaghāna ǀ yaḥ ǀ śuṣṇam ǀ aśuṣam ǀ yaḥ ǀ vi-aṃsam ǀ
yaḥ ǀ piprum ǀ namucim ǀ yaḥ ǀ rudhi-krām ǀ tasmai ǀ indrāya ǀ andhasaḥ ǀ juhota ǁ2.14.5 Aṣṭaka 2.6.13.5Anuvāka 2.2.33
-
Ṛk 6
अध्व॑र्यवो॒ यः श॒तं शंब॑रस्य॒ पुरो॑ बि॒भेदाश्म॑नेव पू॒र्वीः ।
यो व॒र्चिनः॑ श॒तमिंद्रः॑ स॒हस्र॑म॒पाव॑प॒द्भर॑ता॒ सोम॑मस्मै ॥अध्वर्यवो यः शतं शम्बरस्य पुरो बिभेदाश्मनेव पूर्वीः |
यो वर्चिनः शतम् इन्द्रः सहस्रम् अपावपद् भरता सोमम् अस्मै ||ádhvaryavo yáḥ śatám śámbarasya púro bibhédā́śmaneva pūrvī́ḥ ǀ
yó varcínaḥ śatámíndraḥ sahásramapā́vapadbháratā sómamasmai ǁadhvaryavo yaḥ śataṃ śambarasya puro bibhedāśmaneva pūrvīḥ |
yo varcinaḥ śatam indraḥ sahasram apāvapad bharatā somam asmai ||अध्व॑र्यवः । यः । श॒तम् । शम्ब॑रस्य । पुरः॑ । बि॒भेद॑ । अश्म॑नाऽइव । पू॒र्वीः ।
यः । व॒र्चिनः॑ । श॒तम् । इन्द्रः॑ । स॒हस्र॑म् । अ॒प॒ऽअव॑पत् । भर॑त । सोम॑म् । अ॒स्मै॒ ॥अध्वर्यवः । यः । शतम् । शम्बरस्य । पुरः । बिभेद । अश्मनाऽइव । पूर्वीः ।
यः । वर्चिनः । शतम् । इन्द्रः । सहस्रम् । अपऽअवपत् । भरत । सोमम् । अस्मै ॥ádhvaryavaḥ ǀ yáḥ ǀ śatám ǀ śámbarasya ǀ púraḥ ǀ bibhéda ǀ áśmanā-iva ǀ pūrvī́ḥ ǀ
yáḥ ǀ varcínaḥ ǀ śatám ǀ índraḥ ǀ sahásram ǀ apa-ávapat ǀ bhárata ǀ sómam ǀ asmai ǁadhvaryavaḥ ǀ yaḥ ǀ śatam ǀ śambarasya ǀ puraḥ ǀ bibheda ǀ aśmanā-iva ǀ pūrvīḥ ǀ
yaḥ ǀ varcinaḥ ǀ śatam ǀ indraḥ ǀ sahasram ǀ apa-avapat ǀ bharata ǀ somam ǀ asmai ǁ2.14.6 Aṣṭaka 2.6.13.6Anuvāka 2.2.34
-
Ṛk 7
अध्व॑र्यवो॒ यः श॒तमा स॒हस्रं॒ भूम्या॑ उ॒पस्थेऽव॑पज्जघ॒न्वान् ।
कुत्स॑स्या॒योर॑तिथि॒ग्वस्य॑ वी॒रान्न्यावृ॑ण॒ग्भर॑ता॒ सोम॑मस्मै ॥अध्वर्यवो यः शतम् आ सहस्रम् भूम्या उपस्थे ऽवपज् जघन्वान् |
कुत्सस्यायोर् अतिथिग्वस्य वीरान् न्य् आवृणग् भरता सोमम् अस्मै ||ádhvaryavo yáḥ śatámā́ sahásram bhū́myā upásthé’vapajjaghanvā́n ǀ
kútsasyāyóratithigvásya vīrā́nnyā́vṛṇagbháratā sómamasmai ǁadhvaryavo yaḥ śatam ā sahasram bhūmyā upasthe 'vapaj jaghanvān |
kutsasyāyor atithigvasya vīrān ny āvṛṇag bharatā somam asmai ||अध्व॑र्यवः । यः । श॒तम् । आ । स॒हस्र॑म् । भूम्याः॑ । उ॒पऽस्थे॑ । अव॑पत् । ज॒घ॒न्वान् ।
कुत्स॑स्य । आ॒योः । अ॒ति॒थि॒ऽग्वस्य॑ । वी॒रान् । नि । अवृ॑णक् । भर॑त । सोम॑म् । अ॒स्मै॒ ॥अध्वर्यवः । यः । शतम् । आ । सहस्रम् । भूम्याः । उपऽस्थे । अवपत् । जघन्वान् ।
कुत्सस्य । आयोः । अतिथिऽग्वस्य । वीरान् । नि । अवृणक् । भरत । सोमम् । अस्मै ॥ádhvaryavaḥ ǀ yáḥ ǀ śatám ǀ ā́ ǀ sahásram ǀ bhū́myāḥ ǀ upá-sthe ǀ ávapat ǀ jaghanvā́n ǀ
kútsasya ǀ āyóḥ ǀ atithi-gvásya ǀ vīrā́n ǀ ní ǀ ávṛṇak ǀ bhárata ǀ sómam ǀ asmai ǁadhvaryavaḥ ǀ yaḥ ǀ śatam ǀ ā ǀ sahasram ǀ bhūmyāḥ ǀ upa-sthe ǀ avapat ǀ jaghanvān ǀ
kutsasya ǀ āyoḥ ǀ atithi-gvasya ǀ vīrān ǀ ni ǀ avṛṇak ǀ bharata ǀ somam ǀ asmai ǁ2.14.7 Aṣṭaka 2.6.14.1Anuvāka 2.2.35
-
Ṛk 8
अध्व॑र्यवो॒ यन्न॑रः का॒मया॑ध्वे श्रु॒ष्टी वहं॑तो नशथा॒ तदिंद्रे॑ ।
गभ॑स्तिपूतं भरत श्रु॒तायेंद्रा॑य॒ सोमं॑ यज्यवो जुहोत ॥अध्वर्यवो यन् नरः कामयाध्वे श्रुष्टी वहन्तो नशथा तद् इन्द्रे |
गभस्तिपूतम् भरत श्रुतायेन्द्राय सोमं यज्यवो जुहोत ||ádhvaryavo yánnaraḥ kāmáyādhve śruṣṭī́ váhanto naśathā tádíndre ǀ
gábhastipūtam bharata śrutā́yéndrāya sómam yajyavo juhota ǁadhvaryavo yan naraḥ kāmayādhve śruṣṭī vahanto naśathā tad indre |
gabhastipūtam bharata śrutāyendrāya somaṃ yajyavo juhota ||अध्व॑र्यवः । यत् । न॒रः॒ । क॒मया॑ध्वे । श्रु॒ष्टी । वह॑न्तः । न॒श॒थ॒ । तत् । इन्द्रे॑ ।
गभ॑स्तिऽपूतम् । भ॒र॒त॒ । श्रु॒ताय॑ । इन्द्रा॑य । सोम॑म् । य॒ज्य॒वः॒ । जु॒हो॒त॒ ॥अध्वर्यवः । यत् । नरः । कमयाध्वे । श्रुष्टी । वहन्तः । नशथ । तत् । इन्द्रे ।
गभस्तिऽपूतम् । भरत । श्रुताय । इन्द्राय । सोमम् । यज्यवः । जुहोत ॥ádhvaryavaḥ ǀ yát ǀ naraḥ ǀ kamáyādhve ǀ śruṣṭī́ ǀ váhantaḥ ǀ naśatha ǀ tát ǀ índre ǀ
gábhasti-pūtam ǀ bharata ǀ śrutā́ya ǀ índrāya ǀ sómam ǀ yajyavaḥ ǀ juhota ǁadhvaryavaḥ ǀ yat ǀ naraḥ ǀ kamayādhve ǀ śruṣṭī ǀ vahantaḥ ǀ naśatha ǀ tat ǀ indre ǀ
gabhasti-pūtam ǀ bharata ǀ śrutāya ǀ indrāya ǀ somam ǀ yajyavaḥ ǀ juhota ǁ2.14.8 Aṣṭaka 2.6.14.2Anuvāka 2.2.36
-
Ṛk 9
अध्व॑र्यवः॒ कर्त॑ना श्रु॒ष्टिम॑स्मै॒ वने॒ निपू॑तं॒ वन॒ उन्न॑यध्वं ।
जु॒षा॒णो हस्त्य॑म॒भि वा॑वशे व॒ इंद्रा॑य॒ सोमं॑ मदि॒रं जु॑होत ॥अध्वर्यवः कर्तना श्रुष्टिम् अस्मै वने निपूतं वन उन् नयध्वम् |
जुषाणो हस्त्यम् अभि वावशे व इन्द्राय सोमम् मदिरं जुहोत ||ádhvaryavaḥ kártanā śruṣṭímasmai váne nípūtam vána únnayadhvam ǀ
juṣāṇó hástyamabhí vāvaśe va índrāya sómam madirám juhota ǁadhvaryavaḥ kartanā śruṣṭim asmai vane nipūtaṃ vana un nayadhvam |
juṣāṇo hastyam abhi vāvaśe va indrāya somam madiraṃ juhota ||अध्व॑र्यवः । कर्त॑न । श्रु॒ष्टिम् । अ॒स्मै॒ । वने॑ । निऽपू॑तम् । वने॑ । उत् । न॒य॒ध्व॒म् ।
जु॒षा॒णः । हस्त्य॑म् । अ॒भि । वा॒व॒शे॒ । वः॒ । इन्द्रा॑य । सोम॑म् । म॒दि॒रम् । जु॒हो॒त॒ ॥अध्वर्यवः । कर्तन । श्रुष्टिम् । अस्मै । वने । निऽपूतम् । वने । उत् । नयध्वम् ।
जुषाणः । हस्त्यम् । अभि । वावशे । वः । इन्द्राय । सोमम् । मदिरम् । जुहोत ॥ádhvaryavaḥ ǀ kártana ǀ śruṣṭím ǀ asmai ǀ váne ǀ ní-pūtam ǀ váne ǀ út ǀ nayadhvam ǀ
juṣāṇáḥ ǀ hástyam ǀ abhí ǀ vāvaśe ǀ vaḥ ǀ índrāya ǀ sómam ǀ madirám ǀ juhota ǁadhvaryavaḥ ǀ kartana ǀ śruṣṭim ǀ asmai ǀ vane ǀ ni-pūtam ǀ vane ǀ ut ǀ nayadhvam ǀ
juṣāṇaḥ ǀ hastyam ǀ abhi ǀ vāvaśe ǀ vaḥ ǀ indrāya ǀ somam ǀ madiram ǀ juhota ǁ2.14.9 Aṣṭaka 2.6.14.3Anuvāka 2.2.37
-
Ṛk 10
अध्व॑र्यवः॒ पय॒सोध॒र्यथा॒ गोः सोमे॑भिरीं पृणता भो॒जमिंद्रं॑ ।
वेदा॒हम॑स्य॒ निभृ॑तं म ए॒तद्दित्सं॑तं॒ भूयो॑ यज॒तश्चि॑केत ॥अध्वर्यवः पयसोधर् यथा गोः सोमेभिर् ईम् पृणता भोजम् इन्द्रम् |
वेदाहम् अस्य निभृतम् म एतद् दित्सन्तम् भूयो यजतश् चिकेत ||ádhvaryavaḥ páyasódharyáthā góḥ sómebhirīm pṛṇatā bhojámíndram ǀ
védāhámasya níbhṛtam ma etáddítsantam bhū́yo yajatáściketa ǁadhvaryavaḥ payasodhar yathā goḥ somebhir īm pṛṇatā bhojam indram |
vedāham asya nibhṛtam ma etad ditsantam bhūyo yajataś ciketa ||अध्व॑र्यवः । पय॑सा । ऊधः॑ । यथा॑ । गोः । सोमे॑भिः । ई॒म् । पृ॒ण॒त॒ । भो॒जम् । इन्द्र॑म् ।
वेद॑ । अ॒हम् । अ॒स्य॒ । निऽभृ॑तम् । मे॒ । ए॒तत् । दित्स॑न्तम् । भूयः॑ । य॒ज॒तः । चि॒के॒त॒ ॥अध्वर्यवः । पयसा । ऊधः । यथा । गोः । सोमेभिः । ईम् । पृणत । भोजम् । इन्द्रम् ।
वेद । अहम् । अस्य । निऽभृतम् । मे । एतत् । दित्सन्तम् । भूयः । यजतः । चिकेत ॥ádhvaryavaḥ ǀ páyasā ǀ ū́dhaḥ ǀ yáthā ǀ góḥ ǀ sómebhiḥ ǀ īm ǀ pṛṇata ǀ bhojám ǀ índram ǀ
véda ǀ ahám ǀ asya ǀ ní-bhṛtam ǀ me ǀ etát ǀ dítsantam ǀ bhū́yaḥ ǀ yajatáḥ ǀ ciketa ǁadhvaryavaḥ ǀ payasā ǀ ūdhaḥ ǀ yathā ǀ goḥ ǀ somebhiḥ ǀ īm ǀ pṛṇata ǀ bhojam ǀ indram ǀ
veda ǀ aham ǀ asya ǀ ni-bhṛtam ǀ me ǀ etat ǀ ditsantam ǀ bhūyaḥ ǀ yajataḥ ǀ ciketa ǁ2.14.10 Aṣṭaka 2.6.14.4Anuvāka 2.2.38
-
Ṛk 11
अध्व॑र्यवो॒ यो दि॒व्यस्य॒ वस्वो॒ यः पार्थि॑वस्य॒ क्षम्य॑स्य॒ राजा॑ ।
तमूर्द॑रं॒ न पृ॑णता॒ यवे॒नेंद्रं॒ सोमे॑भि॒स्तदपो॑ वो अस्तु ॥अध्वर्यवो यो दिव्यस्य वस्वो यः पार्थिवस्य क्षम्यस्य राजा |
तम् ऊर्दरं न पृणता यवेनेन्द्रं सोमेभिस् तद् अपो वो अस्तु ||ádhvaryavo yó divyásya vásvo yáḥ pā́rthivasya kṣámyasya rā́jā ǀ
támū́rdaram ná pṛṇatā yávenéndram sómebhistádápo vo astu ǁadhvaryavo yo divyasya vasvo yaḥ pārthivasya kṣamyasya rājā |
tam ūrdaraṃ na pṛṇatā yavenendraṃ somebhis tad apo vo astu ||अध्व॑र्यवः । यः । दि॒व्यस्य॑ । वस्वः॑ । यः । पार्थि॑वस्य । क्षम्य॑स्य । राजा॑ ।
तम् । ऊर्द॑रम् । न । पृ॒ण॒त॒ । यवे॑न । इन्द्र॑म् । सोमे॑भिः । तत् । अपः॑ । वः॒ । अ॒स्तु॒ ॥अध्वर्यवः । यः । दिव्यस्य । वस्वः । यः । पार्थिवस्य । क्षम्यस्य । राजा ।
तम् । ऊर्दरम् । न । पृणत । यवेन । इन्द्रम् । सोमेभिः । तत् । अपः । वः । अस्तु ॥ádhvaryavaḥ ǀ yáḥ ǀ divyásya ǀ vásvaḥ ǀ yáḥ ǀ pā́rthivasya ǀ kṣámyasya ǀ rā́jā ǀ
tám ǀ ū́rdaram ǀ ná ǀ pṛṇata ǀ yávena ǀ índram ǀ sómebhiḥ ǀ tát ǀ ápaḥ ǀ vaḥ ǀ astu ǁadhvaryavaḥ ǀ yaḥ ǀ divyasya ǀ vasvaḥ ǀ yaḥ ǀ pārthivasya ǀ kṣamyasya ǀ rājā ǀ
tam ǀ ūrdaram ǀ na ǀ pṛṇata ǀ yavena ǀ indram ǀ somebhiḥ ǀ tat ǀ apaḥ ǀ vaḥ ǀ astu ǁ2.14.11 Aṣṭaka 2.6.14.5Anuvāka 2.2.39
-
Ṛk 12
अ॒स्मभ्यं॒ तद्व॑सो दा॒नाय॒ राधः॒ सम॑र्थयस्व ब॒हु ते॑ वस॒व्यं॑ ।
इंद्र॒ यच्चि॒त्रं श्र॑व॒स्या अनु॒ द्यून्बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥अस्मभ्यं तद् वसो दानाय राधः सम् अर्थयस्व बहु ते वसव्यम् |
इन्द्र यच् चित्रं श्रवस्या अनु द्यून् बृहद् वदेम विदथे सुवीराः ||asmábhyam tádvaso dānā́ya rā́dhaḥ sámarthayasva bahú te vasavyám ǀ
índra yáccitrám śravasyā́ ánu dyū́nbṛhádvadema vidáthe suvī́rāḥ ǁasmabhyaṃ tad vaso dānāya rādhaḥ sam arthayasva bahu te vasavyam |
indra yac citraṃ śravasyā anu dyūn bṛhad vadema vidathe suvīrāḥ ||अ॒स्मभ्य॑म् । तत् । व॒सो॒ इति॑ । दा॒नाय॑ । राधः॑ । सम् । अ॒र्थ॒य॒स्व॒ । ब॒हु । ते॒ । व॒स॒व्य॑म् ।
इन्द्र॑ । यत् । चि॒त्रम् । श्र॒व॒स्याः । अनु॑ । द्यून् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥अस्मभ्यम् । तत् । वसो इति । दानाय । राधः । सम् । अर्थयस्व । बहु । ते । वसव्यम् ।
इन्द्र । यत् । चित्रम् । श्रवस्याः । अनु । द्यून् । बृहत् । वदेम । विदथे । सुऽवीराः ॥asmábhyam ǀ tát ǀ vaso íti ǀ dānā́ya ǀ rā́dhaḥ ǀ sám ǀ arthayasva ǀ bahú ǀ te ǀ vasavyám ǀ
índra ǀ yát ǀ citrám ǀ śravasyā́ḥ ǀ ánu ǀ dyū́n ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁasmabhyam ǀ tat ǀ vaso iti ǀ dānāya ǀ rādhaḥ ǀ sam ǀ arthayasva ǀ bahu ǀ te ǀ vasavyam ǀ
indra ǀ yat ǀ citram ǀ śravasyāḥ ǀ anu ǀ dyūn ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ2.14.12 Aṣṭaka 2.6.14.6Anuvāka 2.2.40
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.