Ṛk 2.14.7
Saṃhitā
अध्व॑र्यवो॒ यः श॒तमा स॒हस्रं॒ भूम्या॑ उ॒पस्थेऽव॑पज्जघ॒न्वान् ।
कुत्स॑स्या॒योर॑तिथि॒ग्वस्य॑ वी॒रान्न्यावृ॑ण॒ग्भर॑ता॒ सोम॑मस्मै ॥
अध्वर्यवो यः शतम् आ सहस्रम् भूम्या उपस्थे ऽवपज् जघन्वान् |
कुत्सस्यायोर् अतिथिग्वस्य वीरान् न्य् आवृणग् भरता सोमम् अस्मै ||
ádhvaryavo yáḥ śatámā́ sahásram bhū́myā upásthé’vapajjaghanvā́n ǀ
kútsasyāyóratithigvásya vīrā́nnyā́vṛṇagbháratā sómamasmai ǁ
adhvaryavo yaḥ śatam ā sahasram bhūmyā upasthe 'vapaj jaghanvān |
kutsasyāyor atithigvasya vīrān ny āvṛṇag bharatā somam asmai ||
Padapāṭha
अध्व॑र्यवः । यः । श॒तम् । आ । स॒हस्र॑म् । भूम्याः॑ । उ॒पऽस्थे॑ । अव॑पत् । ज॒घ॒न्वान् ।
कुत्स॑स्य । आ॒योः । अ॒ति॒थि॒ऽग्वस्य॑ । वी॒रान् । नि । अवृ॑णक् । भर॑त । सोम॑म् । अ॒स्मै॒ ॥
अध्वर्यवः । यः । शतम् । आ । सहस्रम् । भूम्याः । उपऽस्थे । अवपत् । जघन्वान् ।
कुत्सस्य । आयोः । अतिथिऽग्वस्य । वीरान् । नि । अवृणक् । भरत । सोमम् । अस्मै ॥
ádhvaryavaḥ ǀ yáḥ ǀ śatám ǀ ā́ ǀ sahásram ǀ bhū́myāḥ ǀ upá-sthe ǀ ávapat ǀ jaghanvā́n ǀ
kútsasya ǀ āyóḥ ǀ atithi-gvásya ǀ vīrā́n ǀ ní ǀ ávṛṇak ǀ bhárata ǀ sómam ǀ asmai ǁ
adhvaryavaḥ ǀ yaḥ ǀ śatam ǀ ā ǀ sahasram ǀ bhūmyāḥ ǀ upa-sthe ǀ avapat ǀ jaghanvān ǀ
kutsasya ǀ āyoḥ ǀ atithi-gvasya ǀ vīrān ǀ ni ǀ avṛṇak ǀ bharata ǀ somam ǀ asmai ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.014.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.14.01
- Maṇḍala · Anuvāka · Ṛk
- 02.02.035
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.