Ṛk 2.14.3
Saṃhitā
अध्व॑र्यवो॒ यो दृभी॑कं ज॒घान॒ यो गा उ॒दाज॒दप॒ हि व॒लं वः ।
तस्मा॑ ए॒तमं॒तरि॑क्षे॒ न वात॒मिंद्रं॒ सोमै॒रोर्णु॑त॒ जूर्न वस्त्रैः॑ ॥
अध्वर्यवो यो दृभीकं जघान यो गा उदाजद् अप हि वलं वः |
तस्मा एतम् अन्तरिक्षे न वातम् इन्द्रं सोमैर् ओर्णुत जूर् न वस्त्रैः ||
ádhvaryavo yó dṛ́bhīkam jaghā́na yó gā́ udā́jadápa hí valám váḥ ǀ
tásmā etámantárikṣe ná vā́tamíndram sómairórṇuta jū́rná vástraiḥ ǁ
adhvaryavo yo dṛbhīkaṃ jaghāna yo gā udājad apa hi valaṃ vaḥ |
tasmā etam antarikṣe na vātam indraṃ somair orṇuta jūr na vastraiḥ ||
Padapāṭha
अध्व॑र्यवः । यः । दृभी॑कम् । ज॒घान॑ । यः । गाः । उ॒त्ऽआज॑त् । अप॑ । हि । व॒लम् । वरिति॒ वः ।
तस्मै॑ । ए॒तम् । अ॒न्तरि॑क्षे । न । वात॑म् । इन्द्र॑म् । सोमैः॑ । आ । ऊ॒र्णु॒त॒ । जूः । न । वस्त्रैः॑ ॥
अध्वर्यवः । यः । दृभीकम् । जघान । यः । गाः । उत्ऽआजत् । अप । हि । वलम् । वरिति वः ।
तस्मै । एतम् । अन्तरिक्षे । न । वातम् । इन्द्रम् । सोमैः । आ । ऊर्णुत । जूः । न । वस्त्रैः ॥
ádhvaryavaḥ ǀ yáḥ ǀ dṛ́bhīkam ǀ jaghā́na ǀ yáḥ ǀ gā́ḥ ǀ ut-ā́jat ǀ ápa ǀ hí ǀ valám ǀ váríti váḥ ǀ
tásmai ǀ etám ǀ antárikṣe ǀ ná ǀ vā́tam ǀ índram ǀ sómaiḥ ǀ ā́ ǀ ūrṇuta ǀ jū́ḥ ǀ ná ǀ vástraiḥ ǁ
adhvaryavaḥ ǀ yaḥ ǀ dṛbhīkam ǀ jaghāna ǀ yaḥ ǀ gāḥ ǀ ut-ājat ǀ apa ǀ hi ǀ valam ǀ variti vaḥ ǀ
tasmai ǀ etam ǀ antarikṣe ǀ na ǀ vātam ǀ indram ǀ somaiḥ ǀ ā ǀ ūrṇuta ǀ jūḥ ǀ na ǀ vastraiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.014.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.13.03
- Maṇḍala · Anuvāka · Ṛk
- 02.02.031
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.