Ṛk 2.14.10
Saṃhitā
अध्व॑र्यवः॒ पय॒सोध॒र्यथा॒ गोः सोमे॑भिरीं पृणता भो॒जमिंद्रं॑ ।
वेदा॒हम॑स्य॒ निभृ॑तं म ए॒तद्दित्सं॑तं॒ भूयो॑ यज॒तश्चि॑केत ॥
अध्वर्यवः पयसोधर् यथा गोः सोमेभिर् ईम् पृणता भोजम् इन्द्रम् |
वेदाहम् अस्य निभृतम् म एतद् दित्सन्तम् भूयो यजतश् चिकेत ||
ádhvaryavaḥ páyasódharyáthā góḥ sómebhirīm pṛṇatā bhojámíndram ǀ
védāhámasya níbhṛtam ma etáddítsantam bhū́yo yajatáściketa ǁ
adhvaryavaḥ payasodhar yathā goḥ somebhir īm pṛṇatā bhojam indram |
vedāham asya nibhṛtam ma etad ditsantam bhūyo yajataś ciketa ||
Padapāṭha
अध्व॑र्यवः । पय॑सा । ऊधः॑ । यथा॑ । गोः । सोमे॑भिः । ई॒म् । पृ॒ण॒त॒ । भो॒जम् । इन्द्र॑म् ।
वेद॑ । अ॒हम् । अ॒स्य॒ । निऽभृ॑तम् । मे॒ । ए॒तत् । दित्स॑न्तम् । भूयः॑ । य॒ज॒तः । चि॒के॒त॒ ॥
अध्वर्यवः । पयसा । ऊधः । यथा । गोः । सोमेभिः । ईम् । पृणत । भोजम् । इन्द्रम् ।
वेद । अहम् । अस्य । निऽभृतम् । मे । एतत् । दित्सन्तम् । भूयः । यजतः । चिकेत ॥
ádhvaryavaḥ ǀ páyasā ǀ ū́dhaḥ ǀ yáthā ǀ góḥ ǀ sómebhiḥ ǀ īm ǀ pṛṇata ǀ bhojám ǀ índram ǀ
véda ǀ ahám ǀ asya ǀ ní-bhṛtam ǀ me ǀ etát ǀ dítsantam ǀ bhū́yaḥ ǀ yajatáḥ ǀ ciketa ǁ
adhvaryavaḥ ǀ payasā ǀ ūdhaḥ ǀ yathā ǀ goḥ ǀ somebhiḥ ǀ īm ǀ pṛṇata ǀ bhojam ǀ indram ǀ
veda ǀ aham ǀ asya ǀ ni-bhṛtam ǀ me ǀ etat ǀ ditsantam ǀ bhūyaḥ ǀ yajataḥ ǀ ciketa ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.014.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.14.04
- Maṇḍala · Anuvāka · Ṛk
- 02.02.038
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.