Ṛk 2.14.1
Saṃhitā
अध्व॑र्यवो॒ भर॒तेंद्रा॑य॒ सोम॒माम॑त्रेभिः सिंचता॒ मद्य॒मंधः॑ ।
का॒मी हि वी॒रः सद॑मस्य पी॒तिं जु॒होत॒ वृष्णे॒ तदिदे॒ष व॑ष्टि ॥
अध्वर्यवो भरतेन्द्राय सोमम् आमत्रेभिः सिञ्चता मद्यम् अन्धः |
कामी हि वीरः सदम् अस्य पीतिं जुहोत वृष्णे तद् इद् एष वष्टि ||
ádhvaryavo bháraténdrāya sómamā́matrebhiḥ siñcatā mádyamándhaḥ ǀ
kāmī́ hí vīráḥ sádamasya pītím juhóta vṛ́ṣṇe tádídeṣá vaṣṭi ǁ
adhvaryavo bharatendrāya somam āmatrebhiḥ siñcatā madyam andhaḥ |
kāmī hi vīraḥ sadam asya pītiṃ juhota vṛṣṇe tad id eṣa vaṣṭi ||
Padapāṭha
अध्व॑र्यवः । भर॑त । इन्द्रा॑य । सोम॑म् । आ । अम॑त्रेभिः । सि॒ञ्च॒त॒ । मद्य॑म् । अन्धः॑ ।
का॒मी । हि । वी॒रः । सद॑म् । अ॒स्य॒ । पी॒तिम् । जु॒होत॑ । वृष्णे॑ । तत् । इत् । ए॒षः । व॒ष्टि॒ ॥
अध्वर्यवः । भरत । इन्द्राय । सोमम् । आ । अमत्रेभिः । सिञ्चत । मद्यम् । अन्धः ।
कामी । हि । वीरः । सदम् । अस्य । पीतिम् । जुहोत । वृष्णे । तत् । इत् । एषः । वष्टि ॥
ádhvaryavaḥ ǀ bhárata ǀ índrāya ǀ sómam ǀ ā́ ǀ ámatrebhiḥ ǀ siñcata ǀ mádyam ǀ ándhaḥ ǀ
kāmī́ ǀ hí ǀ vīráḥ ǀ sádam ǀ asya ǀ pītím ǀ juhóta ǀ vṛ́ṣṇe ǀ tát ǀ ít ǀ eṣáḥ ǀ vaṣṭi ǁ
adhvaryavaḥ ǀ bharata ǀ indrāya ǀ somam ǀ ā ǀ amatrebhiḥ ǀ siñcata ǀ madyam ǀ andhaḥ ǀ
kāmī ǀ hi ǀ vīraḥ ǀ sadam ǀ asya ǀ pītim ǀ juhota ǀ vṛṣṇe ǀ tat ǀ it ǀ eṣaḥ ǀ vaṣṭi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.014.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.13.01
- Maṇḍala · Anuvāka · Ṛk
- 02.02.029
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.