Sūkta 16
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles nicṛjjagatī (4-6, 8); jagatī (1, 7); bhuriktriṣṭup (2); virāḍjagatī (3); triṣṭup (9)
2nd set of styles jagatī (1-8); triṣṭubh (9)
-
Ṛk 1
प्र वः॑ स॒तां ज्येष्ठ॑तमाय सुष्टु॒तिम॒ग्नावि॑व समिधा॒ने ह॒विर्भ॑रे ।
इंद्र॑मजु॒र्यं ज॒रयं॑तमुक्षि॒तं स॒नाद्युवा॑न॒मव॑से हवामहे ॥प्र वः सतां ज्येष्ठतमाय सुष्टुतिम् अग्नाव् इव समिधाने हविर् भरे |
इन्द्रम् अजुर्यं जरयन्तम् उक्षितं सनाद् युवानम् अवसे हवामहे ||prá vaḥ satā́m jyéṣṭhatamāya suṣṭutímagnā́viva samidhāné havírbhare ǀ
índramajuryám jaráyantamukṣitám sanā́dyúvānamávase havāmahe ǁpra vaḥ satāṃ jyeṣṭhatamāya suṣṭutim agnāv iva samidhāne havir bhare |
indram ajuryaṃ jarayantam ukṣitaṃ sanād yuvānam avase havāmahe ||प्र । वः॒ । स॒ताम् । ज्येष्ठ॑तमाय । सु॒ऽस्तु॒तिम् । अ॒ग्नौऽइ॑व । स॒म्ऽइ॒धा॒ने । ह॒विः । भ॒रे॒ ।
इन्द्र॑म् । अ॒जु॒र्यम् । ज॒रय॑न्तम् । उ॒क्षि॒तम् । स॒नात् । युवा॑नम् । अव॑से । ह॒वा॒म॒हे॒ ॥प्र । वः । सताम् । ज्येष्ठतमाय । सुऽस्तुतिम् । अग्नौऽइव । सम्ऽइधाने । हविः । भरे ।
इन्द्रम् । अजुर्यम् । जरयन्तम् । उक्षितम् । सनात् । युवानम् । अवसे । हवामहे ॥prá ǀ vaḥ ǀ satā́m ǀ jyéṣṭhatamāya ǀ su-stutím ǀ agnáu-iva ǀ sam-idhāné ǀ havíḥ ǀ bhare ǀ
índram ǀ ajuryám ǀ jaráyantam ǀ ukṣitám ǀ sanā́t ǀ yúvānam ǀ ávase ǀ havāmahe ǁpra ǀ vaḥ ǀ satām ǀ jyeṣṭhatamāya ǀ su-stutim ǀ agnau-iva ǀ sam-idhāne ǀ haviḥ ǀ bhare ǀ
indram ǀ ajuryam ǀ jarayantam ǀ ukṣitam ǀ sanāt ǀ yuvānam ǀ avase ǀ havāmahe ǁ2.16.1 Aṣṭaka 2.6.17.1Anuvāka 2.2.51
-
Ṛk 2
यस्मा॒दिंद्रा॑द्बृह॒तः किं च॒नेमृ॒ते विश्वा॑न्यस्मि॒न्त्संभृ॒ताधि॑ वी॒र्या॑ ।
ज॒ठरे॒ सोमं॑ त॒न्वी॒३॒॑ सहो॒ महो॒ हस्ते॒ वज्रं॒ भर॑ति शी॒र्षणि॒ क्रतुं॑ ॥यस्माद् इन्द्राद् बृहतः किं चनेम् ऋते विश्वान्य् अस्मिन् सम्भृताधि वीर्या |
जठरे सोमं तन्वी सहो महो हस्ते वज्रम् भरति शीर्षणि क्रतुम् ||yásmādíndrādbṛhatáḥ kím canémṛté víśvānyasmintsámbhṛtā́dhi vīryā́ ǀ
jaṭháre sómam tanvī́ sáho máho háste vájram bhárati śīrṣáṇi krátum ǁyasmād indrād bṛhataḥ kiṃ canem ṛte viśvāny asmin sambhṛtādhi vīryā |
jaṭhare somaṃ tanvī saho maho haste vajram bharati śīrṣaṇi kratum ||यस्मा॑त् । इन्द्रा॑त् । बृ॒ह॒तः । किम् । च॒न । ई॒म् । ऋ॒ते । विश्वा॑नि । अ॒स्मि॒न् । सम्ऽभृ॑ता । अधि॑ । वी॒र्या॑ ।
ज॒ठरे॑ । सोम॑म् । त॒न्वि॑ । सहः॑ । महः॑ । हस्ते॑ । वज्र॑म् । भर॑ति । शी॒र्षणि॑ । क्रतु॑म् ॥यस्मात् । इन्द्रात् । बृहतः । किम् । चन । ईम् । ऋते । विश्वानि । अस्मिन् । सम्ऽभृता । अधि । वीर्या ।
जठरे । सोमम् । तन्वि । सहः । महः । हस्ते । वज्रम् । भरति । शीर्षणि । क्रतुम् ॥yásmāt ǀ índrāt ǀ bṛhatáḥ ǀ kím ǀ caná ǀ īm ǀ ṛté ǀ víśvāni ǀ asmin ǀ sám-bhṛtā ǀ ádhi ǀ vīryā́ ǀ
jaṭháre ǀ sómam ǀ tanví ǀ sáhaḥ ǀ máhaḥ ǀ háste ǀ vájram ǀ bhárati ǀ śīrṣáṇi ǀ krátum ǁyasmāt ǀ indrāt ǀ bṛhataḥ ǀ kim ǀ cana ǀ īm ǀ ṛte ǀ viśvāni ǀ asmin ǀ sam-bhṛtā ǀ adhi ǀ vīryā ǀ
jaṭhare ǀ somam ǀ tanvi ǀ sahaḥ ǀ mahaḥ ǀ haste ǀ vajram ǀ bharati ǀ śīrṣaṇi ǀ kratum ǁ2.16.2 Aṣṭaka 2.6.17.2Anuvāka 2.2.52
-
Ṛk 3
न क्षो॒णीभ्यां॑ परि॒भ्वे॑ त इंद्रि॒यं न स॑मु॒द्रैः पर्व॑तैरिंद्र ते॒ रथः॑ ।
न ते॒ वज्र॒मन्व॑श्नोति॒ कश्च॒न यदा॒शुभिः॒ पत॑सि॒ योज॑ना पु॒रु ॥न क्षोणीभ्याम् परिभ्वे त इन्द्रियं न समुद्रैः पर्वतैर् इन्द्र ते रथः |
न ते वज्रम् अन्व् अश्नोति कश् चन यद् आशुभिः पतसि योजना पुरु ||ná kṣoṇī́bhyām paribhvé ta indriyám ná samudráiḥ párvatairindra te ráthaḥ ǀ
ná te vájramánvaśnoti káścaná yádāśúbhiḥ pátasi yójanā purú ǁna kṣoṇībhyām paribhve ta indriyaṃ na samudraiḥ parvatair indra te rathaḥ |
na te vajram anv aśnoti kaś cana yad āśubhiḥ patasi yojanā puru ||न । क्षो॒णीभ्या॑म् । प॒रि॒ऽभ्वे॑ । ते॒ । इ॒न्द्रि॒यम् । न । स॒मु॒द्रैः । पर्व॑तैः । इ॒न्द्र॒ । ते॒ । रथः॑ ।
न । ते॒ । वज्र॑म् । अनु॑ । अ॒श्नो॒ति॒ । कः । च॒न । यत् । आ॒शुऽभिः॑ । पत॑सि । योज॑ना । पु॒रु ॥न । क्षोणीभ्याम् । परिऽभ्वे । ते । इन्द्रियम् । न । समुद्रैः । पर्वतैः । इन्द्र । ते । रथः ।
न । ते । वज्रम् । अनु । अश्नोति । कः । चन । यत् । आशुऽभिः । पतसि । योजना । पुरु ॥ná ǀ kṣoṇī́bhyām ǀ pari-bhvé ǀ te ǀ indriyám ǀ ná ǀ samudráiḥ ǀ párvataiḥ ǀ indra ǀ te ǀ ráthaḥ ǀ
ná ǀ te ǀ vájram ǀ ánu ǀ aśnoti ǀ káḥ ǀ caná ǀ yát ǀ āśú-bhiḥ ǀ pátasi ǀ yójanā ǀ purú ǁna ǀ kṣoṇībhyām ǀ pari-bhve ǀ te ǀ indriyam ǀ na ǀ samudraiḥ ǀ parvataiḥ ǀ indra ǀ te ǀ rathaḥ ǀ
na ǀ te ǀ vajram ǀ anu ǀ aśnoti ǀ kaḥ ǀ cana ǀ yat ǀ āśu-bhiḥ ǀ patasi ǀ yojanā ǀ puru ǁ2.16.3 Aṣṭaka 2.6.17.3Anuvāka 2.2.53
-
Ṛk 4
विश्वे॒ ह्य॑स्मै यज॒ताय॑ धृ॒ष्णवे॒ क्रतुं॒ भरं॑ति वृष॒भाय॒ सश्च॑ते ।
वृषा॑ यजस्व ह॒विषा॑ वि॒दुष्ट॑रः॒ पिबें॑द्र॒ सोमं॑ वृष॒भेण॑ भा॒नुना॑ ॥विश्वे ह्य् अस्मै यजताय धृष्णवे क्रतुम् भरन्ति वृषभाय सश्चते |
वृषा यजस्व हविषा विदुष्टरः पिबेन्द्र सोमं वृषभेण भानुना ||víśve hyásmai yajatā́ya dhṛṣṇáve krátum bháranti vṛṣabhā́ya sáścate ǀ
vṛ́ṣā yajasva havíṣā vidúṣṭaraḥ píbendra sómam vṛṣabhéṇa bhānúnā ǁviśve hy asmai yajatāya dhṛṣṇave kratum bharanti vṛṣabhāya saścate |
vṛṣā yajasva haviṣā viduṣṭaraḥ pibendra somaṃ vṛṣabheṇa bhānunā ||विश्वे॑ । हि । अ॒स्मै॒ । य॒ज॒ताय॑ । धृ॒ष्णवे॑ । क्रतु॑म् । भर॑न्ति । वृ॒ष॒भाय॑ । सश्च॑ते ।
वृषा॑ । य॒ज॒स्व॒ । ह॒विषा॑ । वि॒दुःऽत॑रः । पिब॑ । इ॒न्द्र॒ । सोम॑म् । वृ॒ष॒भेण॑ । भा॒नुना॑ ॥विश्वे । हि । अस्मै । यजताय । धृष्णवे । क्रतुम् । भरन्ति । वृषभाय । सश्चते ।
वृषा । यजस्व । हविषा । विदुःऽतरः । पिब । इन्द्र । सोमम् । वृषभेण । भानुना ॥víśve ǀ hí ǀ asmai ǀ yajatā́ya ǀ dhṛṣṇáve ǀ krátum ǀ bháranti ǀ vṛṣabhā́ya ǀ sáścate ǀ
vṛ́ṣā ǀ yajasva ǀ havíṣā ǀ vidúḥ-taraḥ ǀ píba ǀ indra ǀ sómam ǀ vṛṣabhéṇa ǀ bhānúnā ǁviśve ǀ hi ǀ asmai ǀ yajatāya ǀ dhṛṣṇave ǀ kratum ǀ bharanti ǀ vṛṣabhāya ǀ saścate ǀ
vṛṣā ǀ yajasva ǀ haviṣā ǀ viduḥ-taraḥ ǀ piba ǀ indra ǀ somam ǀ vṛṣabheṇa ǀ bhānunā ǁ2.16.4 Aṣṭaka 2.6.17.4Anuvāka 2.2.54
-
Ṛk 5
वृष्णः॒ कोशः॑ पवते॒ मध्व॑ ऊ॒र्मिर्वृ॑ष॒भान्ना॑य वृष॒भाय॒ पात॑वे ।
वृष॑णाध्व॒र्यू वृ॑ष॒भासो॒ अद्र॑यो॒ वृष॑णं॒ सोमं॑ वृष॒भाय॑ सुष्वति ॥वृष्णः कोशः पवते मध्व ऊर्मिर् वृषभान्नाय वृषभाय पातवे |
वृषणाध्वर्यू वृषभासो अद्रयो वृषणं सोमं वृषभाय सुष्वति ||vṛ́ṣṇaḥ kóśaḥ pavate mádhva ūrmírvṛṣabhā́nnāya vṛṣabhā́ya pā́tave ǀ
vṛ́ṣaṇādhvaryū́ vṛṣabhā́so ádrayo vṛ́ṣaṇam sómam vṛṣabhā́ya suṣvati ǁvṛṣṇaḥ kośaḥ pavate madhva ūrmir vṛṣabhānnāya vṛṣabhāya pātave |
vṛṣaṇādhvaryū vṛṣabhāso adrayo vṛṣaṇaṃ somaṃ vṛṣabhāya suṣvati ||वृष्णः॑ । कोशः॑ । प॒व॒ते॒ । मध्वः॑ । ऊ॒र्मिः । वृ॒ष॒भऽअ॑न्नाय । वृ॒ष॒भाय॑ । पात॑वे ।
वृष॑णा । अ॒ध्व॒र्यू इति॑ । वृ॒ष॒भासः॑ । अद्र॑यः । वृष॑णम् । सोम॑म् । वृ॒ष॒भाय॑ । सु॒स्व॒ति॒ ॥वृष्णः । कोशः । पवते । मध्वः । ऊर्मिः । वृषभऽअन्नाय । वृषभाय । पातवे ।
वृषणा । अध्वर्यू इति । वृषभासः । अद्रयः । वृषणम् । सोमम् । वृषभाय । सुस्वति ॥vṛ́ṣṇaḥ ǀ kóśaḥ ǀ pavate ǀ mádhvaḥ ǀ ūrmíḥ ǀ vṛṣabhá-annāya ǀ vṛṣabhā́ya ǀ pā́tave ǀ
vṛ́ṣaṇā ǀ adhvaryū́ íti ǀ vṛṣabhā́saḥ ǀ ádrayaḥ ǀ vṛ́ṣaṇam ǀ sómam ǀ vṛṣabhā́ya ǀ susvati ǁvṛṣṇaḥ ǀ kośaḥ ǀ pavate ǀ madhvaḥ ǀ ūrmiḥ ǀ vṛṣabha-annāya ǀ vṛṣabhāya ǀ pātave ǀ
vṛṣaṇā ǀ adhvaryū iti ǀ vṛṣabhāsaḥ ǀ adrayaḥ ǀ vṛṣaṇam ǀ somam ǀ vṛṣabhāya ǀ susvati ǁ2.16.5 Aṣṭaka 2.6.17.5Anuvāka 2.2.55
-
Ṛk 6
वृषा॑ ते॒ वज्र॑ उ॒त ते॒ वृषा॒ रथो॒ वृष॑णा॒ हरी॑ वृष॒भाण्यायु॑धा ।
वृष्णो॒ मद॑स्य वृषभ॒ त्वमी॑शिष॒ इंद्र॒ सोम॑स्य वृष॒भस्य॑ तृप्णुहि ॥वृषा ते वज्र उत ते वृषा रथो वृषणा हरी वृषभाण्य् आयुधा |
वृष्णो मदस्य वृषभ त्वम् ईशिष इन्द्र सोमस्य वृषभस्य तृप्णुहि ||vṛ́ṣā te vájra utá te vṛ́ṣā rátho vṛ́ṣaṇā hárī vṛṣabhā́ṇyā́yudhā ǀ
vṛ́ṣṇo mádasya vṛṣabha tvámīśiṣa índra sómasya vṛṣabhásya tṛpṇuhi ǁvṛṣā te vajra uta te vṛṣā ratho vṛṣaṇā harī vṛṣabhāṇy āyudhā |
vṛṣṇo madasya vṛṣabha tvam īśiṣa indra somasya vṛṣabhasya tṛpṇuhi ||वृषा॑ । ते॒ । वज्रः॑ । उ॒त । ते॒ । वृषा॑ । रथः॑ । वृष॑णा । हरी॒ इति॑ । वृ॒ष॒भाणि॑ । आयु॑धा ।
वृष्णः॑ । मद॑स्य । वृ॒ष॒भ॒ । त्वम् । ई॒शि॒षे॒ । इन्द्र॑ । सोम॑स्य । वृ॒ष॒भस्य॑ । तृ॒प्णु॒हि॒ ॥वृषा । ते । वज्रः । उत । ते । वृषा । रथः । वृषणा । हरी इति । वृषभाणि । आयुधा ।
वृष्णः । मदस्य । वृषभ । त्वम् । ईशिषे । इन्द्र । सोमस्य । वृषभस्य । तृप्णुहि ॥vṛ́ṣā ǀ te ǀ vájraḥ ǀ utá ǀ te ǀ vṛ́ṣā ǀ ráthaḥ ǀ vṛ́ṣaṇā ǀ hárī íti ǀ vṛṣabhā́ṇi ǀ ā́yudhā ǀ
vṛ́ṣṇaḥ ǀ mádasya ǀ vṛṣabha ǀ tvám ǀ īśiṣe ǀ índra ǀ sómasya ǀ vṛṣabhásya ǀ tṛpṇuhi ǁvṛṣā ǀ te ǀ vajraḥ ǀ uta ǀ te ǀ vṛṣā ǀ rathaḥ ǀ vṛṣaṇā ǀ harī iti ǀ vṛṣabhāṇi ǀ āyudhā ǀ
vṛṣṇaḥ ǀ madasya ǀ vṛṣabha ǀ tvam ǀ īśiṣe ǀ indra ǀ somasya ǀ vṛṣabhasya ǀ tṛpṇuhi ǁ2.16.6 Aṣṭaka 2.6.18.1Anuvāka 2.2.56
-
Ṛk 7
प्र ते॒ नावं॒ न सम॑ने वच॒स्युवं॒ ब्रह्म॑णा यामि॒ सव॑नेषु॒ दाधृ॑षिः ।
कु॒विन्नो॑ अ॒स्य वच॑सो नि॒बोधि॑ष॒दिंद्र॒मुत्सं॒ न वसु॑नः सिचामहे ॥प्र ते नावं न समने वचस्युवम् ब्रह्मणा यामि सवनेषु दाधृषिः |
कुविन् नो अस्य वचसो निबोधिषद् इन्द्रम् उत्सं न वसुनः सिचामहे ||prá te nā́vam ná sámane vacasyúvam bráhmaṇā yāmi sávaneṣu dā́dhṛṣiḥ ǀ
kuvínno asyá vácaso nibódhiṣadíndramútsam ná vásunaḥ sicāmahe ǁpra te nāvaṃ na samane vacasyuvam brahmaṇā yāmi savaneṣu dādhṛṣiḥ |
kuvin no asya vacaso nibodhiṣad indram utsaṃ na vasunaḥ sicāmahe ||प्र । ते॒ । नाव॑म् । न । सम॑ने । व॒च॒स्युव॑म् । ब्रह्म॑णा । या॒मि॒ । सव॑नेषु । दधृ॑षिः ।
कु॒वित् । नः॒ । अ॒स्य । वच॑सः । नि॒ऽबोधि॑षत् । इन्द्र॑म् । उत्स॑म् । न । वसु॑नः । सि॒चा॒म॒हे॒ ॥प्र । ते । नावम् । न । समने । वचस्युवम् । ब्रह्मणा । यामि । सवनेषु । दधृषिः ।
कुवित् । नः । अस्य । वचसः । निऽबोधिषत् । इन्द्रम् । उत्सम् । न । वसुनः । सिचामहे ॥prá ǀ te ǀ nā́vam ǀ ná ǀ sámane ǀ vacasyúvam ǀ bráhmaṇā ǀ yāmi ǀ sávaneṣu ǀ dádhṛṣiḥ ǀ
kuvít ǀ naḥ ǀ asyá ǀ vácasaḥ ǀ ni-bódhiṣat ǀ índram ǀ útsam ǀ ná ǀ vásunaḥ ǀ sicāmahe ǁpra ǀ te ǀ nāvam ǀ na ǀ samane ǀ vacasyuvam ǀ brahmaṇā ǀ yāmi ǀ savaneṣu ǀ dadhṛṣiḥ ǀ
kuvit ǀ naḥ ǀ asya ǀ vacasaḥ ǀ ni-bodhiṣat ǀ indram ǀ utsam ǀ na ǀ vasunaḥ ǀ sicāmahe ǁ2.16.7 Aṣṭaka 2.6.18.2Anuvāka 2.2.57
-
Ṛk 8
पु॒रा सं॑बा॒धाद॒भ्या व॑वृत्स्व नो धे॒नुर्न व॒त्सं यव॑सस्य पि॒प्युषी॑ ।
स॒कृत्सु ते॑ सुम॒तिभिः॑ शतक्रतो॒ सं पत्नी॑भि॒र्न वृष॑णो नसीमहि ॥पुरा सम्बाधाद् अभ्य् आ ववृत्स्व नो धेनुर् न वत्सं यवसस्य पिप्युषी |
सकृत् सु ते सुमतिभिः शतक्रतो सम् पत्नीभिर् न वृषणो नसीमहि ||purā́ sambādhā́dabhyā́ vavṛtsva no dhenúrná vatsám yávasasya pipyúṣī ǀ
sakṛ́tsú te sumatíbhiḥ śatakrato sám pátnībhirná vṛ́ṣaṇo nasīmahi ǁpurā sambādhād abhy ā vavṛtsva no dhenur na vatsaṃ yavasasya pipyuṣī |
sakṛt su te sumatibhiḥ śatakrato sam patnībhir na vṛṣaṇo nasīmahi ||पु॒रा । स॒म्ऽबा॒धात् । अ॒भि । आ । व॒वृ॒त्स्व॒ । नः॒ । धे॒नुः । न । व॒त्सम् । यव॑सस्य । पि॒प्युषी॑ ।
स॒कृत् । सु । ते॒ । सु॒म॒तिऽभिः॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । सम् । पत्नी॑भिः । न । वृष॑णः । न॒सी॒म॒हि॒ ॥पुरा । सम्ऽबाधात् । अभि । आ । ववृत्स्व । नः । धेनुः । न । वत्सम् । यवसस्य । पिप्युषी ।
सकृत् । सु । ते । सुमतिऽभिः । शतक्रतो इति शतऽक्रतो । सम् । पत्नीभिः । न । वृषणः । नसीमहि ॥purā́ ǀ sam-bādhā́t ǀ abhí ǀ ā́ ǀ vavṛtsva ǀ naḥ ǀ dhenúḥ ǀ ná ǀ vatsám ǀ yávasasya ǀ pipyúṣī ǀ
sakṛ́t ǀ sú ǀ te ǀ sumatí-bhiḥ ǀ śatakrato íti śata-krato ǀ sám ǀ pátnībhiḥ ǀ ná ǀ vṛ́ṣaṇaḥ ǀ nasīmahi ǁpurā ǀ sam-bādhāt ǀ abhi ǀ ā ǀ vavṛtsva ǀ naḥ ǀ dhenuḥ ǀ na ǀ vatsam ǀ yavasasya ǀ pipyuṣī ǀ
sakṛt ǀ su ǀ te ǀ sumati-bhiḥ ǀ śatakrato iti śata-krato ǀ sam ǀ patnībhiḥ ǀ na ǀ vṛṣaṇaḥ ǀ nasīmahi ǁ2.16.8 Aṣṭaka 2.6.18.3Anuvāka 2.2.58
-
Ṛk 9
नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदिं॑द्र॒ दक्षि॑णा म॒घोनी॑ ।
शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥नूनं सा ते प्रति वरं जरित्रे दुहीयद् इन्द्र दक्षिणा मघोनी |
शिक्षा स्तोतृभ्यो माति धग् भगो नो बृहद् वदेम विदथे सुवीराः ||nūnám sā́ te práti váram jaritré duhīyádindra dákṣiṇā maghónī ǀ
śíkṣā stotṛ́bhyo mā́ti dhagbhágo no bṛhádvadema vidáthe suvī́rāḥ ǁnūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī |
śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ ||नू॒नम् । सा । ते॒ । प्रति॑ । वर॑म् । ज॒रि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि॑णा । म॒घोनी॑ ।
शिक्ष॑ । स्तो॒तृऽभ्यः॑ । मा । अति॑ । ध॒क् । भगः॑ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥नूनम् । सा । ते । प्रति । वरम् । जरित्रे । दुहीयत् । इन्द्र । दक्षिणा । मघोनी ।
शिक्ष । स्तोतृऽभ्यः । मा । अति । धक् । भगः । नः । बृहत् । वदेम । विदथे । सुऽवीराः ॥nūnám ǀ sā́ ǀ te ǀ práti ǀ váram ǀ jaritré ǀ duhīyát ǀ indra ǀ dákṣiṇā ǀ maghónī ǀ
śíkṣa ǀ stotṛ́-bhyaḥ ǀ mā́ ǀ áti ǀ dhak ǀ bhágaḥ ǀ naḥ ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁnūnam ǀ sā ǀ te ǀ prati ǀ varam ǀ jaritre ǀ duhīyat ǀ indra ǀ dakṣiṇā ǀ maghonī ǀ
śikṣa ǀ stotṛ-bhyaḥ ǀ mā ǀ ati ǀ dhak ǀ bhagaḥ ǀ naḥ ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ2.16.9 Aṣṭaka 2.6.18.4Anuvāka 2.2.59
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.