Ṛk 2.16.3
Saṃhitā
न क्षो॒णीभ्यां॑ परि॒भ्वे॑ त इंद्रि॒यं न स॑मु॒द्रैः पर्व॑तैरिंद्र ते॒ रथः॑ ।
न ते॒ वज्र॒मन्व॑श्नोति॒ कश्च॒न यदा॒शुभिः॒ पत॑सि॒ योज॑ना पु॒रु ॥
न क्षोणीभ्याम् परिभ्वे त इन्द्रियं न समुद्रैः पर्वतैर् इन्द्र ते रथः |
न ते वज्रम् अन्व् अश्नोति कश् चन यद् आशुभिः पतसि योजना पुरु ||
ná kṣoṇī́bhyām paribhvé ta indriyám ná samudráiḥ párvatairindra te ráthaḥ ǀ
ná te vájramánvaśnoti káścaná yádāśúbhiḥ pátasi yójanā purú ǁ
na kṣoṇībhyām paribhve ta indriyaṃ na samudraiḥ parvatair indra te rathaḥ |
na te vajram anv aśnoti kaś cana yad āśubhiḥ patasi yojanā puru ||
Padapāṭha
न । क्षो॒णीभ्या॑म् । प॒रि॒ऽभ्वे॑ । ते॒ । इ॒न्द्रि॒यम् । न । स॒मु॒द्रैः । पर्व॑तैः । इ॒न्द्र॒ । ते॒ । रथः॑ ।
न । ते॒ । वज्र॑म् । अनु॑ । अ॒श्नो॒ति॒ । कः । च॒न । यत् । आ॒शुऽभिः॑ । पत॑सि । योज॑ना । पु॒रु ॥
न । क्षोणीभ्याम् । परिऽभ्वे । ते । इन्द्रियम् । न । समुद्रैः । पर्वतैः । इन्द्र । ते । रथः ।
न । ते । वज्रम् । अनु । अश्नोति । कः । चन । यत् । आशुऽभिः । पतसि । योजना । पुरु ॥
ná ǀ kṣoṇī́bhyām ǀ pari-bhvé ǀ te ǀ indriyám ǀ ná ǀ samudráiḥ ǀ párvataiḥ ǀ indra ǀ te ǀ ráthaḥ ǀ
ná ǀ te ǀ vájram ǀ ánu ǀ aśnoti ǀ káḥ ǀ caná ǀ yát ǀ āśú-bhiḥ ǀ pátasi ǀ yójanā ǀ purú ǁ
na ǀ kṣoṇībhyām ǀ pari-bhve ǀ te ǀ indriyam ǀ na ǀ samudraiḥ ǀ parvataiḥ ǀ indra ǀ te ǀ rathaḥ ǀ
na ǀ te ǀ vajram ǀ anu ǀ aśnoti ǀ kaḥ ǀ cana ǀ yat ǀ āśu-bhiḥ ǀ patasi ǀ yojanā ǀ puru ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.016.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.17.03
- Maṇḍala · Anuvāka · Ṛk
- 02.02.053
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.