Ṛk 2.16.2
Saṃhitā
यस्मा॒दिंद्रा॑द्बृह॒तः किं च॒नेमृ॒ते विश्वा॑न्यस्मि॒न्त्संभृ॒ताधि॑ वी॒र्या॑ ।
ज॒ठरे॒ सोमं॑ त॒न्वी॒३॒॑ सहो॒ महो॒ हस्ते॒ वज्रं॒ भर॑ति शी॒र्षणि॒ क्रतुं॑ ॥
यस्माद् इन्द्राद् बृहतः किं चनेम् ऋते विश्वान्य् अस्मिन् सम्भृताधि वीर्या |
जठरे सोमं तन्वी सहो महो हस्ते वज्रम् भरति शीर्षणि क्रतुम् ||
yásmādíndrādbṛhatáḥ kím canémṛté víśvānyasmintsámbhṛtā́dhi vīryā́ ǀ
jaṭháre sómam tanvī́ sáho máho háste vájram bhárati śīrṣáṇi krátum ǁ
yasmād indrād bṛhataḥ kiṃ canem ṛte viśvāny asmin sambhṛtādhi vīryā |
jaṭhare somaṃ tanvī saho maho haste vajram bharati śīrṣaṇi kratum ||
Padapāṭha
यस्मा॑त् । इन्द्रा॑त् । बृ॒ह॒तः । किम् । च॒न । ई॒म् । ऋ॒ते । विश्वा॑नि । अ॒स्मि॒न् । सम्ऽभृ॑ता । अधि॑ । वी॒र्या॑ ।
ज॒ठरे॑ । सोम॑म् । त॒न्वि॑ । सहः॑ । महः॑ । हस्ते॑ । वज्र॑म् । भर॑ति । शी॒र्षणि॑ । क्रतु॑म् ॥
यस्मात् । इन्द्रात् । बृहतः । किम् । चन । ईम् । ऋते । विश्वानि । अस्मिन् । सम्ऽभृता । अधि । वीर्या ।
जठरे । सोमम् । तन्वि । सहः । महः । हस्ते । वज्रम् । भरति । शीर्षणि । क्रतुम् ॥
yásmāt ǀ índrāt ǀ bṛhatáḥ ǀ kím ǀ caná ǀ īm ǀ ṛté ǀ víśvāni ǀ asmin ǀ sám-bhṛtā ǀ ádhi ǀ vīryā́ ǀ
jaṭháre ǀ sómam ǀ tanví ǀ sáhaḥ ǀ máhaḥ ǀ háste ǀ vájram ǀ bhárati ǀ śīrṣáṇi ǀ krátum ǁ
yasmāt ǀ indrāt ǀ bṛhataḥ ǀ kim ǀ cana ǀ īm ǀ ṛte ǀ viśvāni ǀ asmin ǀ sam-bhṛtā ǀ adhi ǀ vīryā ǀ
jaṭhare ǀ somam ǀ tanvi ǀ sahaḥ ǀ mahaḥ ǀ haste ǀ vajram ǀ bharati ǀ śīrṣaṇi ǀ kratum ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.016.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.17.02
- Maṇḍala · Anuvāka · Ṛk
- 02.02.052
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.