Ṛgveda · Maṇḍala 2

Sūkta 35

Apām Napād · Gṛtsamada Bhārgava Śaunaka · 15 ṛks

Link
Devatā देवता
Apām Napād
Ṛṣi ऋषि
Gṛtsamada Bhārgava Śaunaka
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (1, 4, 6, 7, 9, 10, 12, 13, 15); bhurikpaṅkti (2, 3, 8); svarāṭpaṅkti (5); virāṭtrisṭup (11); triṣṭup (14)

2nd set of styles triṣṭubh

  1. Ṛk 1

    उपे॑मसृक्षि वाज॒युर्व॑च॒स्यां चनो॑ दधीत ना॒द्यो गिरो॑ मे ।
    अ॒पां नपा॑दाशु॒हेमा॑ कु॒वित्स सु॒पेश॑सस्करति॒ जोषि॑ष॒द्धि ॥

    उपेम् असृक्षि वाजयुर् वचस्यां चनो दधीत नाद्यो गिरो मे |
    अपां नपाद् आशुहेमा कुवित् स सुपेशसस् करति जोषिषद् धि ||

    úpemasṛkṣi vājayúrvacasyā́m cáno dadhīta nādyó gíro me ǀ
    apā́m nápādāśuhémā kuvítsá supéśasaskarati jóṣiṣaddhí ǁ

    upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me |
    apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣad dhi ||

    उप॑ । ई॒म् । अ॒सृ॒क्षि॒ । वा॒ज॒ऽयुः । व॒च॒स्याम् । चनः॑ । द॒धी॒त॒ । ना॒द्यः । गिरः॑ । मे॒ ।
    अ॒पाम् । नपा॑त् । आ॒शु॒ऽहेमा॑ । कु॒वित् । सः । सु॒ऽपेश॑सः । क॒र॒ति॒ । जोषि॑षत् । हि ॥

    उप । ईम् । असृक्षि । वाजऽयुः । वचस्याम् । चनः । दधीत । नाद्यः । गिरः । मे ।
    अपाम् । नपात् । आशुऽहेमा । कुवित् । सः । सुऽपेशसः । करति । जोषिषत् । हि ॥

    úpa ǀ īm ǀ asṛkṣi ǀ vāja-yúḥ ǀ vacasyā́m ǀ cánaḥ ǀ dadhīta ǀ nādyáḥ ǀ gíraḥ ǀ me ǀ
    apā́m ǀ nápāt ǀ āśu-hémā ǀ kuvít ǀ sáḥ ǀ su-péśasaḥ ǀ karati ǀ jóṣiṣat ǀ hí ǁ

    upa ǀ īm ǀ asṛkṣi ǀ vāja-yuḥ ǀ vacasyām ǀ canaḥ ǀ dadhīta ǀ nādyaḥ ǀ giraḥ ǀ me ǀ
    apām ǀ napāt ǀ āśu-hemā ǀ kuvit ǀ saḥ ǀ su-peśasaḥ ǀ karati ǀ joṣiṣat ǀ hi ǁ

    2.35.1 Aṣṭaka 2.7.22.1Anuvāka 2.4.31

  2. Ṛk 2

    इ॒मं स्व॑स्मै हृ॒द आ सुत॑ष्टं॒ मंत्रं॑ वोचेम कु॒विद॑स्य॒ वेद॑त् ।
    अ॒पां नपा॑दसु॒र्य॑स्य म॒ह्ना विश्वा॑न्य॒र्यो भुव॑ना जजान ॥

    इमं स्व् अस्मै हृद आ सुतष्टम् मन्त्रं वोचेम कुविद् अस्य वेदत् |
    अपां नपाद् असुर्यस्य मह्ना विश्वान्य् अर्यो भुवना जजान ||

    imám svásmai hṛdá ā́ sútaṣṭam mántram vocema kuvídasya védat ǀ
    apā́m nápādasuryásya mahnā́ víśvānyaryó bhúvanā jajāna ǁ

    imaṃ sv asmai hṛda ā sutaṣṭam mantraṃ vocema kuvid asya vedat |
    apāṃ napād asuryasya mahnā viśvāny aryo bhuvanā jajāna ||

    इ॒मम् । सु । अ॒स्मै॒ । हृ॒दः । आ । सुऽत॑ष्टम् । मन्त्र॑म् । वो॒चे॒म॒ । कु॒वित् । अ॒स्य॒ । वेद॑त् ।
    अ॒पाम् । नपा॑त् । अ॒सु॒र्य॑स्य । म॒ह्ना । विश्वा॑नि । अ॒र्यः । भुव॑ना । ज॒जा॒न॒ ॥

    इमम् । सु । अस्मै । हृदः । आ । सुऽतष्टम् । मन्त्रम् । वोचेम । कुवित् । अस्य । वेदत् ।
    अपाम् । नपात् । असुर्यस्य । मह्ना । विश्वानि । अर्यः । भुवना । जजान ॥

    imám ǀ sú ǀ asmai ǀ hṛdáḥ ǀ ā́ ǀ sú-taṣṭam ǀ mántram ǀ vocema ǀ kuvít ǀ asya ǀ védat ǀ
    apā́m ǀ nápāt ǀ asuryásya ǀ mahnā́ ǀ víśvāni ǀ aryáḥ ǀ bhúvanā ǀ jajāna ǁ

    imam ǀ su ǀ asmai ǀ hṛdaḥ ǀ ā ǀ su-taṣṭam ǀ mantram ǀ vocema ǀ kuvit ǀ asya ǀ vedat ǀ
    apām ǀ napāt ǀ asuryasya ǀ mahnā ǀ viśvāni ǀ aryaḥ ǀ bhuvanā ǀ jajāna ǁ

    2.35.2 Aṣṭaka 2.7.22.2Anuvāka 2.4.32

  3. Ṛk 3

    सम॒न्या यंत्युप॑ यंत्य॒न्याः स॑मा॒नमू॒र्वं न॒द्यः॑ पृणंति ।
    तमू॒ शुचिं॒ शुच॑यो दीदि॒वांस॑म॒पां नपा॑तं॒ परि॑ तस्थु॒रापः॑ ॥

    सम् अन्या यन्त्य् उप यन्त्य् अन्याः समानम् ऊर्वं नद्यः पृणन्ति |
    तम् ऊ शुचिं शुचयो दीदिवांसम् अपां नपातम् परि तस्थुर् आपः ||

    sámanyā́ yántyúpa yantyanyā́ḥ samānámūrvám nadyáḥ pṛṇanti ǀ
    támū śúcim śúcayo dīdivā́ṃsamapā́m nápātam pári tasthurā́paḥ ǁ

    sam anyā yanty upa yanty anyāḥ samānam ūrvaṃ nadyaḥ pṛṇanti |
    tam ū śuciṃ śucayo dīdivāṃsam apāṃ napātam pari tasthur āpaḥ ||

    सम् । अ॒न्याः । यन्ति॑ । उप॑ । य॒न्ति॒ । अ॒न्याः । स॒मा॒नम् । ऊ॒र्वम् । न॒द्यः॑ । पृ॒ण॒न्ति॒ ।
    तम् । ऊं॒ इति॑ । शुचि॑म् । शुच॑यः । दी॒दि॒ऽवांस॑म् । अ॒पाम् । नपा॑तम् । परि॑ । त॒स्थुः॒ । आपः॑ ॥

    सम् । अन्याः । यन्ति । उप । यन्ति । अन्याः । समानम् । ऊर्वम् । नद्यः । पृणन्ति ।
    तम् । ऊं इति । शुचिम् । शुचयः । दीदिऽवांसम् । अपाम् । नपातम् । परि । तस्थुः । आपः ॥

    sám ǀ anyā́ḥ ǀ yánti ǀ úpa ǀ yanti ǀ anyā́ḥ ǀ samānám ǀ ūrvám ǀ nadyáḥ ǀ pṛṇanti ǀ
    tám ǀ ūṃ íti ǀ śúcim ǀ śúcayaḥ ǀ dīdi-vā́ṃsam ǀ apā́m ǀ nápātam ǀ pári ǀ tasthuḥ ǀ ā́paḥ ǁ

    sam ǀ anyāḥ ǀ yanti ǀ upa ǀ yanti ǀ anyāḥ ǀ samānam ǀ ūrvam ǀ nadyaḥ ǀ pṛṇanti ǀ
    tam ǀ ūṃ iti ǀ śucim ǀ śucayaḥ ǀ dīdi-vāṃsam ǀ apām ǀ napātam ǀ pari ǀ tasthuḥ ǀ āpaḥ ǁ

    2.35.3 Aṣṭaka 2.7.22.3Anuvāka 2.4.33

  4. Ṛk 4

    तमस्मे॑रा युव॒तयो॒ युवा॑नं मर्मृ॒ज्यमा॑नाः॒ परि॑ यं॒त्यापः॑ ।
    स शु॒क्रेभिः॒ शिक्व॑भी रे॒वद॒स्मे दी॒दाया॑नि॒ध्मो घृ॒तनि॑र्णिग॒प्सु ॥

    तम् अस्मेरा युवतयो युवानम् मर्मृज्यमानाः परि यन्त्य् आपः |
    स शुक्रेभिः शिक्वभी रेवद् अस्मे दीदायानिध्मो घृतनिर्णिग् अप्सु ||

    támásmerā yuvatáyo yúvānam marmṛjyámānāḥ pári yantyā́paḥ ǀ
    sá śukrébhiḥ śíkvabhī revádasmé dīdā́yānidhmó ghṛtánirṇigapsú ǁ

    tam asmerā yuvatayo yuvānam marmṛjyamānāḥ pari yanty āpaḥ |
    sa śukrebhiḥ śikvabhī revad asme dīdāyānidhmo ghṛtanirṇig apsu ||

    तम् । अस्मे॑राः । यु॒व॒तयः॑ । युवा॑नम् । म॒र्मृ॒ज्यमा॑नाः । परि॑ । य॒न्ति॒ । आपः॑ ।
    सः । शु॒क्रेभिः॑ । शिक्व॑ऽभिः । रे॒वत् । अ॒स्मे इति॑ । दी॒दाय॑ । अ॒नि॒ध्मः । घृ॒तऽनि॑र्निक् । अ॒प्ऽसु ॥

    तम् । अस्मेराः । युवतयः । युवानम् । मर्मृज्यमानाः । परि । यन्ति । आपः ।
    सः । शुक्रेभिः । शिक्वऽभिः । रेवत् । अस्मे इति । दीदाय । अनिध्मः । घृतऽनिर्निक् । अप्ऽसु ॥

    tám ǀ ásmerāḥ ǀ yuvatáyaḥ ǀ yúvānam ǀ marmṛjyámānāḥ ǀ pári ǀ yanti ǀ ā́paḥ ǀ
    sáḥ ǀ śukrébhiḥ ǀ śíkva-bhiḥ ǀ revát ǀ asmé íti ǀ dīdā́ya ǀ anidhmáḥ ǀ ghṛtá-nirnik ǀ ap-sú ǁ

    tam ǀ asmerāḥ ǀ yuvatayaḥ ǀ yuvānam ǀ marmṛjyamānāḥ ǀ pari ǀ yanti ǀ āpaḥ ǀ
    saḥ ǀ śukrebhiḥ ǀ śikva-bhiḥ ǀ revat ǀ asme iti ǀ dīdāya ǀ anidhmaḥ ǀ ghṛta-nirnik ǀ ap-su ǁ

    2.35.4 Aṣṭaka 2.7.22.4Anuvāka 2.4.34

  5. Ṛk 5

    अ॒स्मै ति॒स्रो अ॑व्य॒थ्याय॒ नारी॑र्दे॒वाय॑ दे॒वीर्दि॑धिषं॒त्यन्नं॑ ।
    कृता॑ इ॒वोप॒ हि प्र॑स॒र्स्रे अ॒प्सु स पी॒यूषं॑ धयति पूर्व॒सूनां॑ ॥

    अस्मै तिस्रो अव्यथ्याय नारीर् देवाय देवीर् दिधिषन्त्य् अन्नम् |
    कृता इवोप हि प्रसर्स्रे अप्सु स पीयूषं धयति पूर्वसूनाम् ||

    asmái tisró avyathyā́ya nā́rīrdevā́ya devī́rdidhiṣantyánnam ǀ
    kṛ́tā ivópa hí prasarsré apsú sá pīyū́ṣam dhayati pūrvasū́nām ǁ

    asmai tisro avyathyāya nārīr devāya devīr didhiṣanty annam |
    kṛtā ivopa hi prasarsre apsu sa pīyūṣaṃ dhayati pūrvasūnām ||

    अ॒स्मै । ति॒स्रः । अ॒व्य॒थ्याय॑ । नारीः॑ । दे॒वाय॑ । दे॒वीः । दि॒धि॒ष॒न्ति॒ । अन्न॑म् ।
    कृताः॑ऽइव । उप॑ । हि । प्र॒ऽस॒र्स्रे । अ॒प्ऽसु । सः । पी॒यूष॑म् । ध॒य॒ति॒ । पू॒र्व॒ऽसूना॑म् ॥

    अस्मै । तिस्रः । अव्यथ्याय । नारीः । देवाय । देवीः । दिधिषन्ति । अन्नम् ।
    कृताःऽइव । उप । हि । प्रऽसर्स्रे । अप्ऽसु । सः । पीयूषम् । धयति । पूर्वऽसूनाम् ॥

    asmái ǀ tisráḥ ǀ avyathyā́ya ǀ nā́rīḥ ǀ devā́ya ǀ devī́ḥ ǀ didhiṣanti ǀ ánnam ǀ
    kṛ́tāḥ-iva ǀ úpa ǀ hí ǀ pra-sarsré ǀ ap-sú ǀ sáḥ ǀ pīyū́ṣam ǀ dhayati ǀ pūrva-sū́nām ǁ

    asmai ǀ tisraḥ ǀ avyathyāya ǀ nārīḥ ǀ devāya ǀ devīḥ ǀ didhiṣanti ǀ annam ǀ
    kṛtāḥ-iva ǀ upa ǀ hi ǀ pra-sarsre ǀ ap-su ǀ saḥ ǀ pīyūṣam ǀ dhayati ǀ pūrva-sūnām ǁ

    2.35.5 Aṣṭaka 2.7.22.5Anuvāka 2.4.35

  6. Ṛk 6

    अश्व॒स्यात्र॒ जनि॑मा॒स्य च॒ स्व॑र्द्रु॒हो रि॒षः सं॒पृचः॑ पाहि सू॒रीन् ।
    आ॒मासु॑ पू॒र्षु प॒रो अ॑प्रमृ॒ष्यं नारा॑तयो॒ वि न॑श॒न्नानृ॑तानि ॥

    अश्वस्यात्र जनिमास्य च स्वर् द्रुहो रिषः सम्पृचः पाहि सूरीन् |
    आमासु पूर्षु परो अप्रमृष्यं नारातयो वि नशन् नानृतानि ||

    áśvasyā́tra jánimāsyá ca svárdruhó riṣáḥ sampṛ́caḥ pāhi sūrī́n ǀ
    āmā́su pūrṣú paró apramṛṣyám nā́rātayo ví naśannā́nṛtāni ǁ

    aśvasyātra janimāsya ca svar druho riṣaḥ sampṛcaḥ pāhi sūrīn |
    āmāsu pūrṣu paro apramṛṣyaṃ nārātayo vi naśan nānṛtāni ||

    अश्व॑स्य । अत्र॑ । जनि॑म । अ॒स्य । च॒ । स्वः॑ । द्रु॒हः । रि॒षः । स॒म्ऽपृचः॑ । पा॒हि॒ । सू॒रीन् ।
    आ॒मासु॑ । पू॒र्षु । प॒रः । अ॒प्र॒ऽमृ॒ष्यम् । न । अरा॑तयः । वि । न॒श॒न् । न । अनृ॑तानि ॥

    अश्वस्य । अत्र । जनिम । अस्य । च । स्वः । द्रुहः । रिषः । सम्ऽपृचः । पाहि । सूरीन् ।
    आमासु । पूर्षु । परः । अप्रऽमृष्यम् । न । अरातयः । वि । नशन् । न । अनृतानि ॥

    áśvasya ǀ átra ǀ jánima ǀ asyá ǀ ca ǀ sváḥ ǀ druháḥ ǀ riṣáḥ ǀ sam-pṛ́caḥ ǀ pāhi ǀ sūrī́n ǀ
    āmā́su ǀ pūrṣú ǀ paráḥ ǀ apra-mṛṣyám ǀ ná ǀ árātayaḥ ǀ ví ǀ naśan ǀ ná ǀ ánṛtāni ǁ

    aśvasya ǀ atra ǀ janima ǀ asya ǀ ca ǀ svaḥ ǀ druhaḥ ǀ riṣaḥ ǀ sam-pṛcaḥ ǀ pāhi ǀ sūrīn ǀ
    āmāsu ǀ pūrṣu ǀ paraḥ ǀ apra-mṛṣyam ǀ na ǀ arātayaḥ ǀ vi ǀ naśan ǀ na ǀ anṛtāni ǁ

    2.35.6 Aṣṭaka 2.7.23.1Anuvāka 2.4.36

  7. Ṛk 7

    स्व आ दमे॑ सु॒दुघा॒ यस्य॑ धे॒नुः स्व॒धां पी॑पाय सु॒भ्वन्न॑मत्ति ।
    सो अ॒पां नपा॑दू॒र्जय॑न्न॒प्स्वं१॒॑तर्व॑सु॒देया॑य विध॒ते वि भा॑ति ॥

    स्व आ दमे सुदुघा यस्य धेनुः स्वधाम् पीपाय सुभ्व् अन्नम् अत्ति |
    सो अपां नपाद् ऊर्जयन्न् अप्स्व् अन्तर् वसुदेयाय विधते वि भाति ||

    svá ā́ dáme sudúghā yásya dhenúḥ svadhā́m pīpāya subhvánnamatti ǀ
    só apā́m nápādūrjáyannapsvántárvasudéyāya vidhaté ví bhāti ǁ

    sva ā dame sudughā yasya dhenuḥ svadhām pīpāya subhv annam atti |
    so apāṃ napād ūrjayann apsv antar vasudeyāya vidhate vi bhāti ||

    स्वे । आ । दमे॑ । सु॒ऽदुघा॑ । यस्य॑ । धे॒नुः । स्व॒धाम् । पी॒पा॒य॒ । सु॒ऽभु । अन्न॑म् । अ॒त्ति॒ ।
    सः । अ॒पाम् । नपा॑त् । ऊ॒र्जय॑न् । अ॒प्ऽसु । अ॒न्तः । व॒सु॒ऽदेया॑य । वि॒ध॒ते । वि । भा॒ति॒ ॥

    स्वे । आ । दमे । सुऽदुघा । यस्य । धेनुः । स्वधाम् । पीपाय । सुऽभु । अन्नम् । अत्ति ।
    सः । अपाम् । नपात् । ऊर्जयन् । अप्ऽसु । अन्तः । वसुऽदेयाय । विधते । वि । भाति ॥

    své ǀ ā́ ǀ dáme ǀ su-dúghā ǀ yásya ǀ dhenúḥ ǀ svadhā́m ǀ pīpāya ǀ su-bhú ǀ ánnam ǀ atti ǀ
    sáḥ ǀ apā́m ǀ nápāt ǀ ūrjáyan ǀ ap-sú ǀ antáḥ ǀ vasu-déyāya ǀ vidhaté ǀ ví ǀ bhāti ǁ

    sve ǀ ā ǀ dame ǀ su-dughā ǀ yasya ǀ dhenuḥ ǀ svadhām ǀ pīpāya ǀ su-bhu ǀ annam ǀ atti ǀ
    saḥ ǀ apām ǀ napāt ǀ ūrjayan ǀ ap-su ǀ antaḥ ǀ vasu-deyāya ǀ vidhate ǀ vi ǀ bhāti ǁ

    2.35.7 Aṣṭaka 2.7.23.2Anuvāka 2.4.37

  8. Ṛk 8

    यो अ॒प्स्वा शुचि॑ना॒ दैव्ये॑न ऋ॒तावाज॑स्र उर्वि॒या वि॒भाति॑ ।
    व॒या इद॒न्या भुव॑नान्यस्य॒ प्र जा॑यंते वी॒रुध॑श्च प्र॒जाभिः॑ ॥

    यो अप्स्व् आ शुचिना दैव्येन ऋतावाजस्र उर्विया विभाति |
    वया इद् अन्या भुवनान्य् अस्य प्र जायन्ते वीरुधश् च प्रजाभिः ||

    yó apsvā́ śúcinā dáivyena ṛtā́vā́jasra urviyā́ vibhā́ti ǀ
    vayā́ ídanyā́ bhúvanānyasya prá jāyante vīrúdhaśca prajā́bhiḥ ǁ

    yo apsv ā śucinā daivyena ṛtāvājasra urviyā vibhāti |
    vayā id anyā bhuvanāny asya pra jāyante vīrudhaś ca prajābhiḥ ||

    यः । अ॒प्ऽसु । आ । शुचि॑ना । दैव्ये॑न । ऋ॒तऽवा॑ । अज॑स्रः । उ॒र्वि॒या । वि॒ऽभाति॑ ।
    व॒याः । इत् । अ॒न्या । भुव॑नानि । अ॒स्य॒ । प्र । जा॒य॒न्ते॒ । वी॒रुधः॑ । च॒ । प्र॒ऽजाभिः॑ ॥

    यः । अप्ऽसु । आ । शुचिना । दैव्येन । ऋतऽवा । अजस्रः । उर्विया । विऽभाति ।
    वयाः । इत् । अन्या । भुवनानि । अस्य । प्र । जायन्ते । वीरुधः । च । प्रऽजाभिः ॥

    yáḥ ǀ ap-sú ǀ ā́ ǀ śúcinā ǀ dáivyena ǀ ṛtá-vā ǀ ájasraḥ ǀ urviyā́ ǀ vi-bhā́ti ǀ
    vayā́ḥ ǀ ít ǀ anyā́ ǀ bhúvanāni ǀ asya ǀ prá ǀ jāyante ǀ vīrúdhaḥ ǀ ca ǀ pra-jā́bhiḥ ǁ

    yaḥ ǀ ap-su ǀ ā ǀ śucinā ǀ daivyena ǀ ṛta-vā ǀ ajasraḥ ǀ urviyā ǀ vi-bhāti ǀ
    vayāḥ ǀ it ǀ anyā ǀ bhuvanāni ǀ asya ǀ pra ǀ jāyante ǀ vīrudhaḥ ǀ ca ǀ pra-jābhiḥ ǁ

    2.35.8 Aṣṭaka 2.7.23.3Anuvāka 2.4.38

  9. Ṛk 9

    अ॒पां नपा॒दा ह्यस्था॑दु॒पस्थं॑ जि॒ह्माना॑मू॒र्ध्वो वि॒द्युतं॒ वसा॑नः ।
    तस्य॒ ज्येष्ठं॑ महि॒मानं॒ वहं॑ती॒र्हिर॑ण्यवर्णाः॒ परि॑ यंति य॒ह्वीः ॥

    अपां नपाद् आ ह्य् अस्थाद् उपस्थं जिह्मानाम् ऊर्ध्वो विद्युतं वसानः |
    तस्य ज्येष्ठम् महिमानं वहन्तीर् हिरण्यवर्णाः परि यन्ति यह्वीः ||

    apā́m nápādā́ hyásthādupástham jihmā́nāmūrdhvó vidyútam vásānaḥ ǀ
    tásya jyéṣṭham mahimā́nam váhantīrhíraṇyavarṇāḥ pári yanti yahvī́ḥ ǁ

    apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvo vidyutaṃ vasānaḥ |
    tasya jyeṣṭham mahimānaṃ vahantīr hiraṇyavarṇāḥ pari yanti yahvīḥ ||

    अ॒पाम् । नपा॑त् । आ । हि । अस्था॑त् । उ॒पऽस्थ॑म् । जि॒ह्माना॑म् । ऊ॒र्ध्वः । वि॒ऽद्युत॑म् । वसा॑नः ।
    तस्य॑ । ज्येष्ठ॑म् । म॒हि॒मान॑म् । वह॑न्तीः । हिर॑ण्यऽवर्णाः । परि॑ । य॒न्ति॒ । य॒ह्वीः ॥

    अपाम् । नपात् । आ । हि । अस्थात् । उपऽस्थम् । जिह्मानाम् । ऊर्ध्वः । विऽद्युतम् । वसानः ।
    तस्य । ज्येष्ठम् । महिमानम् । वहन्तीः । हिरण्यऽवर्णाः । परि । यन्ति । यह्वीः ॥

    apā́m ǀ nápāt ǀ ā́ ǀ hí ǀ ásthāt ǀ upá-stham ǀ jihmā́nām ǀ ūrdhváḥ ǀ vi-dyútam ǀ vásānaḥ ǀ
    tásya ǀ jyéṣṭham ǀ mahimā́nam ǀ váhantīḥ ǀ híraṇya-varṇāḥ ǀ pári ǀ yanti ǀ yahvī́ḥ ǁ

    apām ǀ napāt ǀ ā ǀ hi ǀ asthāt ǀ upa-stham ǀ jihmānām ǀ ūrdhvaḥ ǀ vi-dyutam ǀ vasānaḥ ǀ
    tasya ǀ jyeṣṭham ǀ mahimānam ǀ vahantīḥ ǀ hiraṇya-varṇāḥ ǀ pari ǀ yanti ǀ yahvīḥ ǁ

    2.35.9 Aṣṭaka 2.7.23.4Anuvāka 2.4.39

  10. Ṛk 10

    हिर॑ण्यरूपः॒ स हिर॑ण्यसंदृग॒पां नपा॒त्सेदु॒ हिर॑ण्यवर्णः ।
    हि॒र॒ण्यया॒त्परि॒ योने॑र्नि॒षद्या॑ हिरण्य॒दा द॑द॒त्यन्न॑मस्मै ॥

    हिरण्यरूपः स हिरण्यसंदृग् अपां नपात् सेद् उ हिरण्यवर्णः |
    हिरण्ययात् परि योनेर् निषद्या हिरण्यदा ददत्य् अन्नम् अस्मै ||

    híraṇyarūpaḥ sá híraṇyasaṃdṛgapā́m nápātsédu híraṇyavarṇaḥ ǀ
    hiraṇyáyātpári yónerniṣádyā hiraṇyadā́ dadatyánnamasmai ǁ

    hiraṇyarūpaḥ sa hiraṇyasaṃdṛg apāṃ napāt sed u hiraṇyavarṇaḥ |
    hiraṇyayāt pari yoner niṣadyā hiraṇyadā dadaty annam asmai ||

    हिर॑ण्यऽरूपः । सः । हिर॑ण्यऽसन्दृक् । अ॒पाम् । नपा॑त् । सः । इत् । ऊं॒ इति॑ । हिर॑ण्यऽवर्णः ।
    हि॒र॒ण्यया॑त् । परि॑ । योनेः॑ । नि॒ऽसद्य॑ । हि॒र॒ण्य॒ऽदाः । द॒द॒ति॒ । अन्न॑म् । अ॒स्मै॒ ॥

    हिरण्यऽरूपः । सः । हिरण्यऽसन्दृक् । अपाम् । नपात् । सः । इत् । ऊं इति । हिरण्यऽवर्णः ।
    हिरण्ययात् । परि । योनेः । निऽसद्य । हिरण्यऽदाः । ददति । अन्नम् । अस्मै ॥

    híraṇya-rūpaḥ ǀ sáḥ ǀ híraṇya-sandṛk ǀ apā́m ǀ nápāt ǀ sáḥ ǀ ít ǀ ūṃ íti ǀ híraṇya-varṇaḥ ǀ
    hiraṇyáyāt ǀ pári ǀ yóneḥ ǀ ni-sádya ǀ hiraṇya-dā́ḥ ǀ dadati ǀ ánnam ǀ asmai ǁ

    hiraṇya-rūpaḥ ǀ saḥ ǀ hiraṇya-sandṛk ǀ apām ǀ napāt ǀ saḥ ǀ it ǀ ūṃ iti ǀ hiraṇya-varṇaḥ ǀ
    hiraṇyayāt ǀ pari ǀ yoneḥ ǀ ni-sadya ǀ hiraṇya-dāḥ ǀ dadati ǀ annam ǀ asmai ǁ

    2.35.10 Aṣṭaka 2.7.23.5Anuvāka 2.4.40

  11. Ṛk 11

    तद॒स्यानी॑कमु॒त चारु॒ नामा॑पी॒च्यं॑ वर्धते॒ नप्तु॑र॒पां ।
    यमिं॒धते॑ युव॒तयः॒ समि॒त्था हिर॑ण्यवर्णं घृ॒तमन्न॑मस्य ॥

    तद् अस्यानीकम् उत चारु नामापीच्यं वर्धते नप्तुर् अपाम् |
    यम् इन्धते युवतयः सम् इत्था हिरण्यवर्णं घृतम् अन्नम् अस्य ||

    tádasyā́nīkamutá cā́ru nā́māpīcyám vardhate nápturapā́m ǀ
    yámindháte yuvatáyaḥ sámitthā́ híraṇyavarṇam ghṛtámánnamasya ǁ

    tad asyānīkam uta cāru nāmāpīcyaṃ vardhate naptur apām |
    yam indhate yuvatayaḥ sam itthā hiraṇyavarṇaṃ ghṛtam annam asya ||

    तत् । अ॒स्य॒ । अनी॑कम् । उ॒त । चारु॑ । नाम॑ । अ॒पी॒च्य॑म् । व॒र्ध॒ते॒ । नप्तुः॑ । अ॒पाम् ।
    यम् । इ॒न्धते॑ । यु॒व॒तयः॑ । सम् । इ॒त्था । हिर॑ण्यऽवर्णम् । घृ॒तम् । अन्न॑म् । अ॒स्य॒ ॥

    तत् । अस्य । अनीकम् । उत । चारु । नाम । अपीच्यम् । वर्धते । नप्तुः । अपाम् ।
    यम् । इन्धते । युवतयः । सम् । इत्था । हिरण्यऽवर्णम् । घृतम् । अन्नम् । अस्य ॥

    tát ǀ asya ǀ ánīkam ǀ utá ǀ cā́ru ǀ nā́ma ǀ apīcyám ǀ vardhate ǀ náptuḥ ǀ apā́m ǀ
    yám ǀ indháte ǀ yuvatáyaḥ ǀ sám ǀ itthā́ ǀ híraṇya-varṇam ǀ ghṛtám ǀ ánnam ǀ asya ǁ

    tat ǀ asya ǀ anīkam ǀ uta ǀ cāru ǀ nāma ǀ apīcyam ǀ vardhate ǀ naptuḥ ǀ apām ǀ
    yam ǀ indhate ǀ yuvatayaḥ ǀ sam ǀ itthā ǀ hiraṇya-varṇam ǀ ghṛtam ǀ annam ǀ asya ǁ

    2.35.11 Aṣṭaka 2.7.24.1Anuvāka 2.4.41

  12. Ṛk 12

    अ॒स्मै ब॑हू॒नाम॑व॒माय॒ सख्ये॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ ।
    सं सानु॒ मार्ज्मि॒ दिधि॑षामि॒ बिल्मै॒र्दधा॒म्यन्नैः॒ परि॑ वंद ऋ॒ग्भिः ॥

    अस्मै बहूनाम् अवमाय सख्ये यज्ञैर् विधेम नमसा हविर्भिः |
    सं सानु मार्ज्मि दिधिषामि बिल्मैर् दधाम्य् अन्नैः परि वन्द ऋग्भिः ||

    asmái bahūnā́mavamā́ya sákhye yajñáirvidhema námasā havírbhiḥ ǀ
    sám sā́nu mā́rjmi dídhiṣāmi bílmairdádhāmyánnaiḥ pári vanda ṛgbhíḥ ǁ

    asmai bahūnām avamāya sakhye yajñair vidhema namasā havirbhiḥ |
    saṃ sānu mārjmi didhiṣāmi bilmair dadhāmy annaiḥ pari vanda ṛgbhiḥ ||

    अ॒स्मै । ब॒हू॒नाम् । अ॒व॒माय॑ । सख्ये॑ । य॒ज्ञैः । वि॒धे॒म॒ । नम॑सा । ह॒विःऽभिः॑ ।
    सम् । सानु॑ । मार्ज्मि॑ । दिधि॑षामि । बिल्मैः॑ । दधा॑मि । अन्नैः॑ । परि॑ । व॒न्दे॒ । ऋ॒क्ऽभिः ॥

    अस्मै । बहूनाम् । अवमाय । सख्ये । यज्ञैः । विधेम । नमसा । हविःऽभिः ।
    सम् । सानु । मार्ज्मि । दिधिषामि । बिल्मैः । दधामि । अन्नैः । परि । वन्दे । ऋक्ऽभिः ॥

    asmái ǀ bahūnā́m ǀ avamā́ya ǀ sákhye ǀ yajñáiḥ ǀ vidhema ǀ námasā ǀ havíḥ-bhiḥ ǀ
    sám ǀ sā́nu ǀ mā́rjmi ǀ dídhiṣāmi ǀ bílmaiḥ ǀ dádhāmi ǀ ánnaiḥ ǀ pári ǀ vande ǀ ṛk-bhíḥ ǁ

    asmai ǀ bahūnām ǀ avamāya ǀ sakhye ǀ yajñaiḥ ǀ vidhema ǀ namasā ǀ haviḥ-bhiḥ ǀ
    sam ǀ sānu ǀ mārjmi ǀ didhiṣāmi ǀ bilmaiḥ ǀ dadhāmi ǀ annaiḥ ǀ pari ǀ vande ǀ ṛk-bhiḥ ǁ

    2.35.12 Aṣṭaka 2.7.24.2Anuvāka 2.4.42

  13. Ṛk 13

    स ईं॒ वृषा॑जनय॒त्तासु॒ गर्भं॒ स ईं॒ शिशु॑र्धयति॒ तं रि॑हंति ।
    सो अ॒पां नपा॒दन॑भिम्लातवर्णो॒ऽन्यस्ये॑वे॒ह त॒न्वा॑ विवेष ॥

    स ईं वृषाजनयत् तासु गर्भं स ईं शिशुर् धयति तं रिहन्ति |
    सो अपां नपाद् अनभिम्लातवर्णो ऽन्यस्येवेह तन्वा विवेष ||

    sá īm vṛ́ṣājanayattā́su gárbham sá īm śíśurdhayati tám rihanti ǀ
    só apā́m nápādánabhimlātavarṇo’nyásyevehá tanvā́ viveṣa ǁ

    sa īṃ vṛṣājanayat tāsu garbhaṃ sa īṃ śiśur dhayati taṃ rihanti |
    so apāṃ napād anabhimlātavarṇo 'nyasyeveha tanvā viveṣa ||

    सः । ई॒म् । वृषा॑ । अ॒ज॒न॒य॒त् । तासु॑ । गर्भ॑म् । सः । ई॒म् । शिशुः॑ । ध॒य॒ति॒ । तम् । रि॒ह॒न्ति॒ ।
    सः । अ॒पाम् । नपा॑त् । अन॑भिम्लातऽवर्णः । अ॒न्यस्य॑ऽइव । इ॒ह । त॒न्वा॑ । वि॒वे॒ष॒ ॥

    सः । ईम् । वृषा । अजनयत् । तासु । गर्भम् । सः । ईम् । शिशुः । धयति । तम् । रिहन्ति ।
    सः । अपाम् । नपात् । अनभिम्लातऽवर्णः । अन्यस्यऽइव । इह । तन्वा । विवेष ॥

    sáḥ ǀ īm ǀ vṛ́ṣā ǀ ajanayat ǀ tā́su ǀ gárbham ǀ sáḥ ǀ īm ǀ śíśuḥ ǀ dhayati ǀ tám ǀ rihanti ǀ
    sáḥ ǀ apā́m ǀ nápāt ǀ ánabhimlāta-varṇaḥ ǀ anyásya-iva ǀ ihá ǀ tanvā́ ǀ viveṣa ǁ

    saḥ ǀ īm ǀ vṛṣā ǀ ajanayat ǀ tāsu ǀ garbham ǀ saḥ ǀ īm ǀ śiśuḥ ǀ dhayati ǀ tam ǀ rihanti ǀ
    saḥ ǀ apām ǀ napāt ǀ anabhimlāta-varṇaḥ ǀ anyasya-iva ǀ iha ǀ tanvā ǀ viveṣa ǁ

    2.35.13 Aṣṭaka 2.7.24.3Anuvāka 2.4.43

  14. Ṛk 14

    अ॒स्मिन्प॒दे प॑र॒मे त॑स्थि॒वांस॑मध्व॒स्मभि॑र्वि॒श्वहा॑ दीदि॒वांसं॑ ।
    आपो॒ नप्त्रे॑ घृ॒तमन्नं॒ वहं॑तीः स्व॒यमत्कैः॒ परि॑ दीयंति य॒ह्वीः ॥

    अस्मिन् पदे परमे तस्थिवांसम् अध्वस्मभिर् विश्वहा दीदिवांसम् |
    आपो नप्त्रे घृतम् अन्नं वहन्तीः स्वयम् अत्कैः परि दीयन्ति यह्वीः ||

    asmínpadé paramé tasthivā́ṃsamadhvasmábhirviśváhā dīdivā́ṃsam ǀ
    ā́po náptre ghṛtámánnam váhantīḥ svayámátkaiḥ pári dīyanti yahvī́ḥ ǁ

    asmin pade parame tasthivāṃsam adhvasmabhir viśvahā dīdivāṃsam |
    āpo naptre ghṛtam annaṃ vahantīḥ svayam atkaiḥ pari dīyanti yahvīḥ ||

    अ॒स्मिन् । प॒दे । प॒र॒मे । त॒स्थि॒ऽवांस॑म् । अ॒ध्व॒स्मऽभिः॑ । वि॒श्वहा॑ । दी॒दि॒ऽवांस॑म् ।
    आपः॑ । नप्त्रे॑ । घृ॒तम् । अन्न॑म् । वह॑न्तीः । स्व॒यम् । अत्कैः॑ । परि॑ । दी॒य॒न्ति॒ । य॒ह्वीः ॥

    अस्मिन् । पदे । परमे । तस्थिऽवांसम् । अध्वस्मऽभिः । विश्वहा । दीदिऽवांसम् ।
    आपः । नप्त्रे । घृतम् । अन्नम् । वहन्तीः । स्वयम् । अत्कैः । परि । दीयन्ति । यह्वीः ॥

    asmín ǀ padé ǀ paramé ǀ tasthi-vā́ṃsam ǀ adhvasmá-bhiḥ ǀ viśváhā ǀ dīdi-vā́ṃsam ǀ
    ā́paḥ ǀ náptre ǀ ghṛtám ǀ ánnam ǀ váhantīḥ ǀ svayám ǀ átkaiḥ ǀ pári ǀ dīyanti ǀ yahvī́ḥ ǁ

    asmin ǀ pade ǀ parame ǀ tasthi-vāṃsam ǀ adhvasma-bhiḥ ǀ viśvahā ǀ dīdi-vāṃsam ǀ
    āpaḥ ǀ naptre ǀ ghṛtam ǀ annam ǀ vahantīḥ ǀ svayam ǀ atkaiḥ ǀ pari ǀ dīyanti ǀ yahvīḥ ǁ

    2.35.14 Aṣṭaka 2.7.24.4Anuvāka 2.4.44

  15. Ṛk 15

    अयां॑समग्ने सुक्षि॒तिं जना॒यायां॑समु म॒घव॑द्भ्यः सुवृ॒क्तिं ।
    विश्वं॒ तद्भ॒द्रं यदवं॑ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

    अयांसम् अग्ने सुक्षितिं जनायायांसम् उ मघवद्भ्यः सुवृक्तिम् |
    विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः ||

    áyāṃsamagne sukṣitím jánāyā́yāṃsamu maghávadbhyaḥ suvṛktím ǀ
    víśvam tádbhadrám yádávanti devā́ bṛhádvadema vidáthe suvī́rāḥ ǁ

    ayāṃsam agne sukṣitiṃ janāyāyāṃsam u maghavadbhyaḥ suvṛktim |
    viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ ||

    अयां॑सम् । अ॒ग्ने॒ । सु॒ऽक्षि॒तिम् । जना॑य । अयां॑सम् । ऊं॒ इति॑ । म॒घव॑त्ऽभ्यः । सु॒ऽवृ॒क्तिम् ।
    विश्व॑म् । तत् । भ॒द्रम् । यत् । अव॑न्ति । दे॒वाः । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

    अयांसम् । अग्ने । सुऽक्षितिम् । जनाय । अयांसम् । ऊं इति । मघवत्ऽभ्यः । सुऽवृक्तिम् ।
    विश्वम् । तत् । भद्रम् । यत् । अवन्ति । देवाः । बृहत् । वदेम । विदथे । सुऽवीराः ॥

    áyāṃsam ǀ agne ǀ su-kṣitím ǀ jánāya ǀ áyāṃsam ǀ ūṃ íti ǀ maghávat-bhyaḥ ǀ su-vṛktím ǀ
    víśvam ǀ tát ǀ bhadrám ǀ yát ǀ ávanti ǀ devā́ḥ ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

    ayāṃsam ǀ agne ǀ su-kṣitim ǀ janāya ǀ ayāṃsam ǀ ūṃ iti ǀ maghavat-bhyaḥ ǀ su-vṛktim ǀ
    viśvam ǀ tat ǀ bhadram ǀ yat ǀ avanti ǀ devāḥ ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ

    2.35.15 Aṣṭaka 2.7.24.5Anuvāka 2.4.45

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 2.35 · Apām Napād

Interpretations

Ralph T. H. Griffith

Ṛk 1

EAGER for spoil my flow of speech I utter: may the Floods' Child accept my songs with favour. Will not the rapid Son of Waters make them lovely, for he it is who shall enjoy them?

Ṛk 2

To him let us address the song well-fashioned, forth from the heart. Shall he not understand it' The friendly Son of Waters by the greatness of Godhead hath produced all things existing.

Ṛk 3

Some floods unite themselves and others join them: die sounding rivers fill one common storehouse. On every side the bright Floods have encompassed the bright resplendent Offspring of the Waters.

Ṛk 4

The never-sullen waters, youthful Maidens, carefully decking, wait on him the youthful. He with bright rays shines forth in splendid beauty, unfed with wood, in waters, oil-enveloped.

Ṛk 5

To him three Dames are offering food to feed him, Goddesses to the God whom none may injure. Within the waters hath he pressed, as hollows, and drinks their milk who now are first made mothers.

Ṛk 6

Here was the horse's birth; his was the sunlight. Save thou our princes from the oppressor's onslaught. Him, indestructible, dwelling at a distance in forts unwrought lies and ill spirits reach not.

Ṛk 7

He, in whose mansion is the teeming Milch-cow, swells the Gods’ nectar and cats noble viands. The Son of Waters, gathering strength in waters, shines for his worshipper to give him treasures.

Ṛk 8

He who in waters with his own pure Godhead shines widely, law-abiding, everlasting— The other worlds are verily his branches, and plants are born of him with all their offspring.

Ṛk 9

The Waters’ Son hath risen, and clothed in lightning ascended up unto the curled cloud's bosom; And bearing with them his supremest glory the Youthful Ones, gold-coloured, move around him.

Ṛk 10

Golden in form is he, like gold to look on, his colour is like gold, the Son of Waters. When he is seated fresh from golden birthplace those who present their gold give food to feed him.

Ṛk 11

This the fair name and this the lovely aspect of him the Waters’ Son increase in secret. Whom here the youthful Maids together kindle, his food is sacred oil of golden colour.

Ṛk 12

Him, nearest Friend of many, will we worship with sacrifice. and reverence and oblation. I make his back to shine, with chips provide him; I offer food and with my songs exalt him.

Ṛk 13

The Bull hath laid his own life-germ Within them. He sucks them as an infant, and they kiss him. He, Son of Waters, of unfading colour, hath entered here as in another's body.

Ṛk 14

While here he dwelleth in sublimest station, resplendent with the rays that never perish, The Waters, bearing oil to feed their offspring, flow, Youthful Ones, in wanderings about him.