Ṛk 2.35.3
Saṃhitā
सम॒न्या यंत्युप॑ यंत्य॒न्याः स॑मा॒नमू॒र्वं न॒द्यः॑ पृणंति ।
तमू॒ शुचिं॒ शुच॑यो दीदि॒वांस॑म॒पां नपा॑तं॒ परि॑ तस्थु॒रापः॑ ॥
सम् अन्या यन्त्य् उप यन्त्य् अन्याः समानम् ऊर्वं नद्यः पृणन्ति |
तम् ऊ शुचिं शुचयो दीदिवांसम् अपां नपातम् परि तस्थुर् आपः ||
sámanyā́ yántyúpa yantyanyā́ḥ samānámūrvám nadyáḥ pṛṇanti ǀ
támū śúcim śúcayo dīdivā́ṃsamapā́m nápātam pári tasthurā́paḥ ǁ
sam anyā yanty upa yanty anyāḥ samānam ūrvaṃ nadyaḥ pṛṇanti |
tam ū śuciṃ śucayo dīdivāṃsam apāṃ napātam pari tasthur āpaḥ ||
Padapāṭha
सम् । अ॒न्याः । यन्ति॑ । उप॑ । य॒न्ति॒ । अ॒न्याः । स॒मा॒नम् । ऊ॒र्वम् । न॒द्यः॑ । पृ॒ण॒न्ति॒ ।
तम् । ऊं॒ इति॑ । शुचि॑म् । शुच॑यः । दी॒दि॒ऽवांस॑म् । अ॒पाम् । नपा॑तम् । परि॑ । त॒स्थुः॒ । आपः॑ ॥
सम् । अन्याः । यन्ति । उप । यन्ति । अन्याः । समानम् । ऊर्वम् । नद्यः । पृणन्ति ।
तम् । ऊं इति । शुचिम् । शुचयः । दीदिऽवांसम् । अपाम् । नपातम् । परि । तस्थुः । आपः ॥
sám ǀ anyā́ḥ ǀ yánti ǀ úpa ǀ yanti ǀ anyā́ḥ ǀ samānám ǀ ūrvám ǀ nadyáḥ ǀ pṛṇanti ǀ
tám ǀ ūṃ íti ǀ śúcim ǀ śúcayaḥ ǀ dīdi-vā́ṃsam ǀ apā́m ǀ nápātam ǀ pári ǀ tasthuḥ ǀ ā́paḥ ǁ
sam ǀ anyāḥ ǀ yanti ǀ upa ǀ yanti ǀ anyāḥ ǀ samānam ǀ ūrvam ǀ nadyaḥ ǀ pṛṇanti ǀ
tam ǀ ūṃ iti ǀ śucim ǀ śucayaḥ ǀ dīdi-vāṃsam ǀ apām ǀ napātam ǀ pari ǀ tasthuḥ ǀ āpaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.035.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.7.22.03
- Maṇḍala · Anuvāka · Ṛk
- 02.04.033
- Devatā देवता
- Apām Napād
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.