Ṛk 2.35.1
Saṃhitā
उपे॑मसृक्षि वाज॒युर्व॑च॒स्यां चनो॑ दधीत ना॒द्यो गिरो॑ मे ।
अ॒पां नपा॑दाशु॒हेमा॑ कु॒वित्स सु॒पेश॑सस्करति॒ जोषि॑ष॒द्धि ॥
उपेम् असृक्षि वाजयुर् वचस्यां चनो दधीत नाद्यो गिरो मे |
अपां नपाद् आशुहेमा कुवित् स सुपेशसस् करति जोषिषद् धि ||
úpemasṛkṣi vājayúrvacasyā́m cáno dadhīta nādyó gíro me ǀ
apā́m nápādāśuhémā kuvítsá supéśasaskarati jóṣiṣaddhí ǁ
upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me |
apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣad dhi ||
Padapāṭha
उप॑ । ई॒म् । अ॒सृ॒क्षि॒ । वा॒ज॒ऽयुः । व॒च॒स्याम् । चनः॑ । द॒धी॒त॒ । ना॒द्यः । गिरः॑ । मे॒ ।
अ॒पाम् । नपा॑त् । आ॒शु॒ऽहेमा॑ । कु॒वित् । सः । सु॒ऽपेश॑सः । क॒र॒ति॒ । जोषि॑षत् । हि ॥
उप । ईम् । असृक्षि । वाजऽयुः । वचस्याम् । चनः । दधीत । नाद्यः । गिरः । मे ।
अपाम् । नपात् । आशुऽहेमा । कुवित् । सः । सुऽपेशसः । करति । जोषिषत् । हि ॥
úpa ǀ īm ǀ asṛkṣi ǀ vāja-yúḥ ǀ vacasyā́m ǀ cánaḥ ǀ dadhīta ǀ nādyáḥ ǀ gíraḥ ǀ me ǀ
apā́m ǀ nápāt ǀ āśu-hémā ǀ kuvít ǀ sáḥ ǀ su-péśasaḥ ǀ karati ǀ jóṣiṣat ǀ hí ǁ
upa ǀ īm ǀ asṛkṣi ǀ vāja-yuḥ ǀ vacasyām ǀ canaḥ ǀ dadhīta ǀ nādyaḥ ǀ giraḥ ǀ me ǀ
apām ǀ napāt ǀ āśu-hemā ǀ kuvit ǀ saḥ ǀ su-peśasaḥ ǀ karati ǀ joṣiṣat ǀ hi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.035.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.7.22.01
- Maṇḍala · Anuvāka · Ṛk
- 02.04.031
- Devatā देवता
- Apām Napād
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.