Ṛk 2.35.6
Saṃhitā
अश्व॒स्यात्र॒ जनि॑मा॒स्य च॒ स्व॑र्द्रु॒हो रि॒षः सं॒पृचः॑ पाहि सू॒रीन् ।
आ॒मासु॑ पू॒र्षु प॒रो अ॑प्रमृ॒ष्यं नारा॑तयो॒ वि न॑श॒न्नानृ॑तानि ॥
अश्वस्यात्र जनिमास्य च स्वर् द्रुहो रिषः सम्पृचः पाहि सूरीन् |
आमासु पूर्षु परो अप्रमृष्यं नारातयो वि नशन् नानृतानि ||
áśvasyā́tra jánimāsyá ca svárdruhó riṣáḥ sampṛ́caḥ pāhi sūrī́n ǀ
āmā́su pūrṣú paró apramṛṣyám nā́rātayo ví naśannā́nṛtāni ǁ
aśvasyātra janimāsya ca svar druho riṣaḥ sampṛcaḥ pāhi sūrīn |
āmāsu pūrṣu paro apramṛṣyaṃ nārātayo vi naśan nānṛtāni ||
Padapāṭha
अश्व॑स्य । अत्र॑ । जनि॑म । अ॒स्य । च॒ । स्वः॑ । द्रु॒हः । रि॒षः । स॒म्ऽपृचः॑ । पा॒हि॒ । सू॒रीन् ।
आ॒मासु॑ । पू॒र्षु । प॒रः । अ॒प्र॒ऽमृ॒ष्यम् । न । अरा॑तयः । वि । न॒श॒न् । न । अनृ॑तानि ॥
अश्वस्य । अत्र । जनिम । अस्य । च । स्वः । द्रुहः । रिषः । सम्ऽपृचः । पाहि । सूरीन् ।
आमासु । पूर्षु । परः । अप्रऽमृष्यम् । न । अरातयः । वि । नशन् । न । अनृतानि ॥
áśvasya ǀ átra ǀ jánima ǀ asyá ǀ ca ǀ sváḥ ǀ druháḥ ǀ riṣáḥ ǀ sam-pṛ́caḥ ǀ pāhi ǀ sūrī́n ǀ
āmā́su ǀ pūrṣú ǀ paráḥ ǀ apra-mṛṣyám ǀ ná ǀ árātayaḥ ǀ ví ǀ naśan ǀ ná ǀ ánṛtāni ǁ
aśvasya ǀ atra ǀ janima ǀ asya ǀ ca ǀ svaḥ ǀ druhaḥ ǀ riṣaḥ ǀ sam-pṛcaḥ ǀ pāhi ǀ sūrīn ǀ
āmāsu ǀ pūrṣu ǀ paraḥ ǀ apra-mṛṣyam ǀ na ǀ arātayaḥ ǀ vi ǀ naśan ǀ na ǀ anṛtāni ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.035.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.7.23.01
- Maṇḍala · Anuvāka · Ṛk
- 02.04.036
- Devatā देवता
- Apām Napād
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.