Ṛk 2.35.11
Saṃhitā
तद॒स्यानी॑कमु॒त चारु॒ नामा॑पी॒च्यं॑ वर्धते॒ नप्तु॑र॒पां ।
यमिं॒धते॑ युव॒तयः॒ समि॒त्था हिर॑ण्यवर्णं घृ॒तमन्न॑मस्य ॥
तद् अस्यानीकम् उत चारु नामापीच्यं वर्धते नप्तुर् अपाम् |
यम् इन्धते युवतयः सम् इत्था हिरण्यवर्णं घृतम् अन्नम् अस्य ||
tádasyā́nīkamutá cā́ru nā́māpīcyám vardhate nápturapā́m ǀ
yámindháte yuvatáyaḥ sámitthā́ híraṇyavarṇam ghṛtámánnamasya ǁ
tad asyānīkam uta cāru nāmāpīcyaṃ vardhate naptur apām |
yam indhate yuvatayaḥ sam itthā hiraṇyavarṇaṃ ghṛtam annam asya ||
Padapāṭha
तत् । अ॒स्य॒ । अनी॑कम् । उ॒त । चारु॑ । नाम॑ । अ॒पी॒च्य॑म् । व॒र्ध॒ते॒ । नप्तुः॑ । अ॒पाम् ।
यम् । इ॒न्धते॑ । यु॒व॒तयः॑ । सम् । इ॒त्था । हिर॑ण्यऽवर्णम् । घृ॒तम् । अन्न॑म् । अ॒स्य॒ ॥
तत् । अस्य । अनीकम् । उत । चारु । नाम । अपीच्यम् । वर्धते । नप्तुः । अपाम् ।
यम् । इन्धते । युवतयः । सम् । इत्था । हिरण्यऽवर्णम् । घृतम् । अन्नम् । अस्य ॥
tát ǀ asya ǀ ánīkam ǀ utá ǀ cā́ru ǀ nā́ma ǀ apīcyám ǀ vardhate ǀ náptuḥ ǀ apā́m ǀ
yám ǀ indháte ǀ yuvatáyaḥ ǀ sám ǀ itthā́ ǀ híraṇya-varṇam ǀ ghṛtám ǀ ánnam ǀ asya ǁ
tat ǀ asya ǀ anīkam ǀ uta ǀ cāru ǀ nāma ǀ apīcyam ǀ vardhate ǀ naptuḥ ǀ apām ǀ
yam ǀ indhate ǀ yuvatayaḥ ǀ sam ǀ itthā ǀ hiraṇya-varṇam ǀ ghṛtam ǀ annam ǀ asya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.035.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.7.24.01
- Maṇḍala · Anuvāka · Ṛk
- 02.04.041
- Devatā देवता
- Apām Napād
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.