Sūkta 38
- Devatā देवता
- 1-7, 9-11: Savitṛ; 8: Varuṇa, Savitṛ
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (3, 4, 6, 10, 11); nicṛttriṣṭup (1, 5); svarāṭpaṅkti (7, 8); triṣṭup (2); bhurikpaṅkti (9)
2nd set of styles triṣṭubh
-
Ṛk 1
उदु॒ ष्य दे॒वः स॑वि॒ता स॒वाय॑ शश्वत्त॒मं तद॑पा॒ वह्नि॑रस्थात् ।
नू॒नं दे॒वेभ्यो॒ वि हि धाति॒ रत्न॒मथाभ॑जद्वी॒तिहो॑त्रं स्व॒स्तौ ॥उद् उ ष्य देवः सविता सवाय शश्वत्तमं तदपा वह्निर् अस्थात् |
नूनं देवेभ्यो वि हि धाति रत्नम् अथाभजद् वीतिहोत्रं स्वस्तौ ||údu ṣyá deváḥ savitā́ savā́ya śaśvattamám tádapā váhnirasthāt ǀ
nūnám devébhyo ví hí dhā́ti rátnamáthā́bhajadvītíhotram svastáu ǁud u ṣya devaḥ savitā savāya śaśvattamaṃ tadapā vahnir asthāt |
nūnaṃ devebhyo vi hi dhāti ratnam athābhajad vītihotraṃ svastau ||उत् । ऊं॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । स॒वाय॑ । श॒श्व॒त्ऽत॒मम् । तत्ऽअ॑पाः । वह्निः॑ । अ॒स्था॒त् ।
नू॒नम् । दे॒वेभ्यः॑ । वि । हि । धाति॑ । रत्न॑म् । अथ॑ । आ । अ॒भ॒ज॒त् । वी॒तिऽहो॑त्रम् । स्व॒स्तौ ॥उत् । ऊं इति । स्यः । देवः । सविता । सवाय । शश्वत्ऽतमम् । तत्ऽअपाः । वह्निः । अस्थात् ।
नूनम् । देवेभ्यः । वि । हि । धाति । रत्नम् । अथ । आ । अभजत् । वीतिऽहोत्रम् । स्वस्तौ ॥út ǀ ūṃ íti ǀ syáḥ ǀ deváḥ ǀ savitā́ ǀ savā́ya ǀ śaśvat-tamám ǀ tát-apāḥ ǀ váhniḥ ǀ asthāt ǀ
nūnám ǀ devébhyaḥ ǀ ví ǀ hí ǀ dhā́ti ǀ rátnam ǀ átha ǀ ā́ ǀ abhajat ǀ vītí-hotram ǀ svastáu ǁut ǀ ūṃ iti ǀ syaḥ ǀ devaḥ ǀ savitā ǀ savāya ǀ śaśvat-tamam ǀ tat-apāḥ ǀ vahniḥ ǀ asthāt ǀ
nūnam ǀ devebhyaḥ ǀ vi ǀ hi ǀ dhāti ǀ ratnam ǀ atha ǀ ā ǀ abhajat ǀ vīti-hotram ǀ svastau ǁ2.38.1 Aṣṭaka 2.8.2.1Anuvāka 2.4.58
-
Ṛk 2
विश्व॑स्य॒ हि श्रु॒ष्टये॑ दे॒व ऊ॒र्ध्वः प्र बा॒हवा॑ पृ॒थुपा॑णिः॒ सिस॑र्ति ।
आप॑श्चिदस्य व्र॒त आ निमृ॑ग्रा अ॒यं चि॒द्वातो॑ रमते॒ परि॑ज्मन् ॥विश्वस्य हि श्रुष्टये देव ऊर्ध्वः प्र बाहवा पृथुपाणिः सिसर्ति |
आपश् चिद् अस्य व्रत आ निमृग्रा अयं चिद् वातो रमते परिज्मन् ||víśvasya hí śruṣṭáye devá ūrdhváḥ prá bāhávā pṛthúpāṇiḥ sísarti ǀ
ā́paścidasya vratá ā́ nímṛgrā ayám cidvā́to ramate párijman ǁviśvasya hi śruṣṭaye deva ūrdhvaḥ pra bāhavā pṛthupāṇiḥ sisarti |
āpaś cid asya vrata ā nimṛgrā ayaṃ cid vāto ramate parijman ||विश्व॑स्य । हि । श्रु॒ष्टये॑ । दे॒वः । ऊ॒र्ध्वः । प्र । बा॒हवा॑ । पृ॒थुऽपा॑णिः । सिस॑र्ति ।
आपः॑ । चि॒त् । अ॒स्य॒ । व्र॒ते । आ । निऽमृ॑ग्राः । अ॒यम् । चि॒त् । वातः॑ । र॒म॒ते॒ । परि॑ऽज्मन् ॥विश्वस्य । हि । श्रुष्टये । देवः । ऊर्ध्वः । प्र । बाहवा । पृथुऽपाणिः । सिसर्ति ।
आपः । चित् । अस्य । व्रते । आ । निऽमृग्राः । अयम् । चित् । वातः । रमते । परिऽज्मन् ॥víśvasya ǀ hí ǀ śruṣṭáye ǀ deváḥ ǀ ūrdhváḥ ǀ prá ǀ bāhávā ǀ pṛthú-pāṇiḥ ǀ sísarti ǀ
ā́paḥ ǀ cit ǀ asya ǀ vraté ǀ ā́ ǀ ní-mṛgrāḥ ǀ ayám ǀ cit ǀ vā́taḥ ǀ ramate ǀ pári-jman ǁviśvasya ǀ hi ǀ śruṣṭaye ǀ devaḥ ǀ ūrdhvaḥ ǀ pra ǀ bāhavā ǀ pṛthu-pāṇiḥ ǀ sisarti ǀ
āpaḥ ǀ cit ǀ asya ǀ vrate ǀ ā ǀ ni-mṛgrāḥ ǀ ayam ǀ cit ǀ vātaḥ ǀ ramate ǀ pari-jman ǁ2.38.2 Aṣṭaka 2.8.2.2Anuvāka 2.4.59
-
Ṛk 3
आ॒शुभि॑श्चि॒द्यान्वि मु॑चाति नू॒नमरी॑रम॒दत॑मानं चि॒देतोः॑ ।
अ॒ह्यर्षू॑णां चि॒न्न्य॑याँ अवि॒ष्यामनु॑ व्र॒तं स॑वि॒तुर्मोक्यागा॑त् ॥आशुभिश् चिद् यान् वि मुचाति नूनम् अरीरमद् अतमानं चिद् एतोः |
अह्यर्षूणां चिन् न्य् अयां अविष्याम् अनु व्रतं सवितुर् मोक्य् आगात् ||āśúbhiścidyā́nví mucāti nūnámárīramadátamānam cidétoḥ ǀ
ahyárṣūṇām cinnyáyām̐ aviṣyā́mánu vratám savitúrmókyā́gāt ǁāśubhiś cid yān vi mucāti nūnam arīramad atamānaṃ cid etoḥ |
ahyarṣūṇāṃ cin ny ayāṃ aviṣyām anu vrataṃ savitur moky āgāt ||आ॒शुऽभिः॑ । चि॒त् । यान् । वि । मु॒चा॒ति॒ । नू॒नम् । अरी॑रमत् । अत॑मानम् । चि॒त् । एतोः॑ ।
अ॒ह्यर्षू॑णाम् । चि॒त् । नि । अ॒या॒न् । अ॒वि॒ष्याम् । अनु॑ । व्र॒तम् । स॒वि॒तुः । मोकी॑ । आ । अ॒गा॒त् ॥आशुऽभिः । चित् । यान् । वि । मुचाति । नूनम् । अरीरमत् । अतमानम् । चित् । एतोः ।
अह्यर्षूणाम् । चित् । नि । अयान् । अविष्याम् । अनु । व्रतम् । सवितुः । मोकी । आ । अगात् ॥āśú-bhiḥ ǀ cit ǀ yā́n ǀ ví ǀ mucāti ǀ nūnám ǀ árīramat ǀ átamānam ǀ cit ǀ étoḥ ǀ
ahyárṣūṇām ǀ cit ǀ ní ǀ ayān ǀ aviṣyā́m ǀ ánu ǀ vratám ǀ savitúḥ ǀ mókī ǀ ā́ ǀ agāt ǁāśu-bhiḥ ǀ cit ǀ yān ǀ vi ǀ mucāti ǀ nūnam ǀ arīramat ǀ atamānam ǀ cit ǀ etoḥ ǀ
ahyarṣūṇām ǀ cit ǀ ni ǀ ayān ǀ aviṣyām ǀ anu ǀ vratam ǀ savituḥ ǀ mokī ǀ ā ǀ agāt ǁ2.38.3 Aṣṭaka 2.8.2.3Anuvāka 2.4.60
-
Ṛk 4
पुनः॒ सम॑व्य॒द्वित॑तं॒ वयं॑ती म॒ध्या कर्तो॒र्न्य॑धा॒च्छक्म॒ धीरः॑ ।
उत्सं॒हाया॑स्था॒द्व्यृ१॒॑तूँर॑दर्धर॒रम॑तिः सवि॒ता दे॒व आगा॑त् ॥पुनः सम् अव्यद् विततं वयन्ती मध्या कर्तोर् न्य् अधाच् छक्म धीरः |
उत् संहायास्थाद् व्य् ऋतूंर् अदर्धर् अरमतिः सविता देव आगात् ||púnaḥ sámavyadvítatam váyantī madhyā́ kártornyádhācchákma dhī́raḥ ǀ
útsaṃhā́yāsthādvyṛ́tū́m̐radardhararámatiḥ savitā́ devá ā́gāt ǁpunaḥ sam avyad vitataṃ vayantī madhyā kartor ny adhāc chakma dhīraḥ |
ut saṃhāyāsthād vy ṛtūṃr adardhar aramatiḥ savitā deva āgāt ||पुन॒रिति॑ । सम् । अ॒व्य॒त् । विऽत॑तम् । वय॑न्ती । म॒ध्या । कर्तोः॑ । नि । अ॒धा॒त् । शक्म॑ । धीरः॑ ।
उत् । स॒म्ऽहाय॑ । अ॒स्था॒त् । वि । ऋ॒तून् । अ॒द॒र्धः॒ । अ॒रम॑तिः । स॒वि॒ता । दे॒वः । आ । अ॒गा॒त् ॥पुनरिति । सम् । अव्यत् । विऽततम् । वयन्ती । मध्या । कर्तोः । नि । अधात् । शक्म । धीरः ।
उत् । सम्ऽहाय । अस्थात् । वि । ऋतून् । अदर्धः । अरमतिः । सविता । देवः । आ । अगात् ॥púnaríti ǀ sám ǀ avyat ǀ ví-tatam ǀ váyantī ǀ madhyā́ ǀ kártoḥ ǀ ní ǀ adhāt ǀ śákma ǀ dhī́raḥ ǀ
út ǀ sam-hā́ya ǀ asthāt ǀ ví ǀ ṛtū́n ǀ adardhaḥ ǀ arámatiḥ ǀ savitā́ ǀ deváḥ ǀ ā́ ǀ agāt ǁpunariti ǀ sam ǀ avyat ǀ vi-tatam ǀ vayantī ǀ madhyā ǀ kartoḥ ǀ ni ǀ adhāt ǀ śakma ǀ dhīraḥ ǀ
ut ǀ sam-hāya ǀ asthāt ǀ vi ǀ ṛtūn ǀ adardhaḥ ǀ aramatiḥ ǀ savitā ǀ devaḥ ǀ ā ǀ agāt ǁ2.38.4 Aṣṭaka 2.8.2.4Anuvāka 2.4.61
-
Ṛk 5
नानौकां॑सि॒ दुर्यो॒ विश्व॒मायु॒र्वि ति॑ष्ठते प्रभ॒वः शोको॑ अ॒ग्नेः ।
ज्येष्ठं॑ मा॒ता सू॒नवे॑ भा॒गमाधा॒दन्व॑स्य॒ केत॑मिषि॒तं स॑वि॒त्रा ॥नानौकांसि दुर्यो विश्वम् आयुर् वि तिष्ठते प्रभवः शोको अग्नेः |
ज्येष्ठम् माता सूनवे भागम् आधाद् अन्व् अस्य केतम् इषितं सवित्रा ||nā́náukāṃsi dúryo víśvamā́yurví tiṣṭhate prabhaváḥ śóko agnéḥ ǀ
jyéṣṭham mātā́ sūnáve bhāgámā́dhādánvasya kétamiṣitám savitrā́ ǁnānaukāṃsi duryo viśvam āyur vi tiṣṭhate prabhavaḥ śoko agneḥ |
jyeṣṭham mātā sūnave bhāgam ādhād anv asya ketam iṣitaṃ savitrā ||नाना॑ । ओकां॑सि । दुर्यः॑ । विश्व॑म् । आयुः॑ । वि । ति॒ष्ठ॒ते॒ । प्र॒ऽभ॒वः । शोकः॑ । अ॒ग्नेः ।
ज्येष्ठ॑म् । मा॒ता । सू॒नवे॑ । भा॒गम् । आ । अ॒धा॒त् । अनु॑ । अ॒स्य॒ । केत॑म् । इ॒षि॒तम् । स॒वि॒त्रा ॥नाना । ओकांसि । दुर्यः । विश्वम् । आयुः । वि । तिष्ठते । प्रऽभवः । शोकः । अग्नेः ।
ज्येष्ठम् । माता । सूनवे । भागम् । आ । अधात् । अनु । अस्य । केतम् । इषितम् । सवित्रा ॥nā́nā ǀ ókāṃsi ǀ dúryaḥ ǀ víśvam ǀ ā́yuḥ ǀ ví ǀ tiṣṭhate ǀ pra-bhaváḥ ǀ śókaḥ ǀ agnéḥ ǀ
jyéṣṭham ǀ mātā́ ǀ sūnáve ǀ bhāgám ǀ ā́ ǀ adhāt ǀ ánu ǀ asya ǀ kétam ǀ iṣitám ǀ savitrā́ ǁnānā ǀ okāṃsi ǀ duryaḥ ǀ viśvam ǀ āyuḥ ǀ vi ǀ tiṣṭhate ǀ pra-bhavaḥ ǀ śokaḥ ǀ agneḥ ǀ
jyeṣṭham ǀ mātā ǀ sūnave ǀ bhāgam ǀ ā ǀ adhāt ǀ anu ǀ asya ǀ ketam ǀ iṣitam ǀ savitrā ǁ2.38.5 Aṣṭaka 2.8.2.5Anuvāka 2.4.62
-
Ṛk 6
स॒माव॑वर्ति॒ विष्ठि॑तो जिगी॒षुर्विश्वे॑षां॒ काम॒श्चर॑ताम॒माभू॑त् ।
शश्वाँ॒ अपो॒ विकृ॑तं हि॒त्व्यागा॒दनु॑ व्र॒तं स॑वि॒तुर्दैव्य॑स्य ॥समाववर्ति विष्ठितो जिगीषुर् विश्वेषां कामश् चरताम् अमाभूत् |
शश्वां अपो विकृतं हित्व्य् आगाद् अनु व्रतं सवितुर् दैव्यस्य ||samā́vavarti víṣṭhito jigīṣúrvíśveṣām kā́maścáratāmamā́bhūt ǀ
śáśvām̐ ápo víkṛtam hitvyā́gādánu vratám savitúrdáivyasya ǁsamāvavarti viṣṭhito jigīṣur viśveṣāṃ kāmaś caratām amābhūt |
śaśvāṃ apo vikṛtaṃ hitvy āgād anu vrataṃ savitur daivyasya ||स॒म्ऽआव॑वर्ति । विऽस्थि॑तः । जि॒गी॒षुः । विश्वे॑षाम् । कामः॑ । चर॑ताम् । अ॒मा । अ॒भू॒त् ।
शश्वा॑न् । अपः॑ । विऽकृ॑तम् । हि॒त्वी । आ । अ॒गा॒त् । अनु॑ । व्र॒तम् । स॒वि॒तुः । दैव्य॑स्य ॥सम्ऽआववर्ति । विऽस्थितः । जिगीषुः । विश्वेषाम् । कामः । चरताम् । अमा । अभूत् ।
शश्वान् । अपः । विऽकृतम् । हित्वी । आ । अगात् । अनु । व्रतम् । सवितुः । दैव्यस्य ॥sam-ā́vavarti ǀ ví-sthitaḥ ǀ jigīṣúḥ ǀ víśveṣām ǀ kā́maḥ ǀ cáratām ǀ amā́ ǀ abhūt ǀ
śáśvān ǀ ápaḥ ǀ ví-kṛtam ǀ hitvī́ ǀ ā́ ǀ agāt ǀ ánu ǀ vratám ǀ savitúḥ ǀ dáivyasya ǁsam-āvavarti ǀ vi-sthitaḥ ǀ jigīṣuḥ ǀ viśveṣām ǀ kāmaḥ ǀ caratām ǀ amā ǀ abhūt ǀ
śaśvān ǀ apaḥ ǀ vi-kṛtam ǀ hitvī ǀ ā ǀ agāt ǀ anu ǀ vratam ǀ savituḥ ǀ daivyasya ǁ2.38.6 Aṣṭaka 2.8.3.1Anuvāka 2.4.63
-
Ṛk 7
त्वया॑ हि॒तमप्य॑म॒प्सु भा॒गं धन्वान्वा मृ॑ग॒यसो॒ वि त॑स्थुः ।
वना॑नि॒ विभ्यो॒ नकि॑रस्य॒ तानि॑ व्र॒ता दे॒वस्य॑ सवि॒तुर्मि॑नंति ॥त्वया हितम् अप्यम् अप्सु भागं धन्वान्व् आ मृगयसो वि तस्थुः |
वनानि विभ्यो नकिर् अस्य तानि व्रता देवस्य सवितुर् मिनन्ति ||tváyā hitámápyamapsú bhāgám dhánvā́nvā́ mṛgayáso ví tasthuḥ ǀ
vánāni víbhyo nákirasya tā́ni vratā́ devásya savitúrminanti ǁtvayā hitam apyam apsu bhāgaṃ dhanvānv ā mṛgayaso vi tasthuḥ |
vanāni vibhyo nakir asya tāni vratā devasya savitur minanti ||त्वया॑ । हि॒तम् । अप्य॑म् । अ॒प्ऽसु । भा॒गम् । धन्व॑ । अनु॑ । आ । मृ॒ग॒यसः॑ । वि । त॒स्थुः॒ ।
वना॑नि । विऽभ्यः॑ । नकिः॑ । अ॒स्य॒ । तानि॑ । व्र॒ता । दे॒वस्य॑ । स॒वि॒तुः । मि॒न॒न्ति॒ ॥त्वया । हितम् । अप्यम् । अप्ऽसु । भागम् । धन्व । अनु । आ । मृगयसः । वि । तस्थुः ।
वनानि । विऽभ्यः । नकिः । अस्य । तानि । व्रता । देवस्य । सवितुः । मिनन्ति ॥tváyā ǀ hitám ǀ ápyam ǀ ap-sú ǀ bhāgám ǀ dhánva ǀ ánu ǀ ā́ ǀ mṛgayásaḥ ǀ ví ǀ tasthuḥ ǀ
vánāni ǀ ví-bhyaḥ ǀ nákiḥ ǀ asya ǀ tā́ni ǀ vratā́ ǀ devásya ǀ savitúḥ ǀ minanti ǁtvayā ǀ hitam ǀ apyam ǀ ap-su ǀ bhāgam ǀ dhanva ǀ anu ǀ ā ǀ mṛgayasaḥ ǀ vi ǀ tasthuḥ ǀ
vanāni ǀ vi-bhyaḥ ǀ nakiḥ ǀ asya ǀ tāni ǀ vratā ǀ devasya ǀ savituḥ ǀ minanti ǁ2.38.7 Aṣṭaka 2.8.3.2Anuvāka 2.4.64
-
Ṛk 8
या॒द्रा॒ध्यं१॒॑ वरु॑णो॒ योनि॒मप्य॒मनि॑शितं नि॒मिषि॒ जर्भु॑राणः ।
विश्वो॑ मार्तां॒डो व्र॒जमा प॒शुर्गा॑त्स्थ॒शो जन्मा॑नि सवि॒ता व्याकः॑ ॥याद्राध्यं वरुणो योनिम् अप्यम् अनिशितं निमिषि जर्भुराणः |
विश्वो मार्ताण्डो व्रजम् आ पशुर् गात् स्थशो जन्मानि सविता व्य् आकः ||yādrādhyám váruṇo yónimápyamániśitam nimíṣi járbhurāṇaḥ ǀ
víśvo mārtāṇḍó vrajámā́ paśúrgātsthaśó jánmāni savitā́ vyā́kaḥ ǁyādrādhyaṃ varuṇo yonim apyam aniśitaṃ nimiṣi jarbhurāṇaḥ |
viśvo mārtāṇḍo vrajam ā paśur gāt sthaśo janmāni savitā vy ākaḥ ||या॒त्ऽरा॒ध्य॑म् । वरु॑णः । योनि॑म् । अप्य॑म् । अनि॑ऽशितम् । नि॒ऽमिषि॑ । जर्भु॑राणः ।
विश्वः॑ । मा॒र्ता॒ण्डः । व्र॒जम् । आ । प॒शुः । गा॒त् । स्थ॒ऽशः । जन्मा॑नि । स॒वि॒ता । वि । आ । अ॒क॒रित्य॑कः ॥यात्ऽराध्यम् । वरुणः । योनिम् । अप्यम् । अनिऽशितम् । निऽमिषि । जर्भुराणः ।
विश्वः । मार्ताण्डः । व्रजम् । आ । पशुः । गात् । स्थऽशः । जन्मानि । सविता । वि । आ । अकरित्यकः ॥yāt-rādhyám ǀ váruṇaḥ ǀ yónim ǀ ápyam ǀ áni-śitam ǀ ni-míṣi ǀ járbhurāṇaḥ ǀ
víśvaḥ ǀ mārtāṇḍáḥ ǀ vrajám ǀ ā́ ǀ paśúḥ ǀ gāt ǀ stha-śáḥ ǀ jánmāni ǀ savitā́ ǀ ví ǀ ā́ ǀ akarítyakaḥ ǁyāt-rādhyam ǀ varuṇaḥ ǀ yonim ǀ apyam ǀ ani-śitam ǀ ni-miṣi ǀ jarbhurāṇaḥ ǀ
viśvaḥ ǀ mārtāṇḍaḥ ǀ vrajam ǀ ā ǀ paśuḥ ǀ gāt ǀ stha-śaḥ ǀ janmāni ǀ savitā ǀ vi ǀ ā ǀ akarityakaḥ ǁ2.38.8 Aṣṭaka 2.8.3.3Anuvāka 2.4.65
-
Ṛk 9
न यस्येंद्रो॒ वरु॑णो॒ न मि॒त्रो व्र॒तम॑र्य॒मा न मि॒नंति॑ रु॒द्रः ।
नारा॑तय॒स्तमि॒दं स्व॒स्ति हु॒वे दे॒वं स॑वि॒तारं॒ नमो॑भिः ॥न यस्येन्द्रो वरुणो न मित्रो व्रतम् अर्यमा न मिनन्ति रुद्रः |
नारातयस् तम् इदं स्वस्ति हुवे देवं सवितारं नमोभिः ||ná yásyéndro váruṇo ná mitró vratámaryamā́ ná minánti rudráḥ ǀ
nā́rātayastámidám svastí huvé devám savitā́ram námobhiḥ ǁna yasyendro varuṇo na mitro vratam aryamā na minanti rudraḥ |
nārātayas tam idaṃ svasti huve devaṃ savitāraṃ namobhiḥ ||न । यस्य॑ । इन्द्रः॑ । वरु॑णः । न । मि॒त्रः । व्र॒तम् । अ॒र्य॒मा । न । मि॒नन्ति॑ । रु॒द्रः ।
न । अरा॑तयः । तम् । इ॒दम् । स्व॒स्ति । हु॒वे । दे॒वम् । स॒वि॒तार॑म् । नमः॑ऽभिः ॥न । यस्य । इन्द्रः । वरुणः । न । मित्रः । व्रतम् । अर्यमा । न । मिनन्ति । रुद्रः ।
न । अरातयः । तम् । इदम् । स्वस्ति । हुवे । देवम् । सवितारम् । नमःऽभिः ॥ná ǀ yásya ǀ índraḥ ǀ váruṇaḥ ǀ ná ǀ mitráḥ ǀ vratám ǀ aryamā́ ǀ ná ǀ minánti ǀ rudráḥ ǀ
ná ǀ árātayaḥ ǀ tám ǀ idám ǀ svastí ǀ huvé ǀ devám ǀ savitā́ram ǀ námaḥ-bhiḥ ǁna ǀ yasya ǀ indraḥ ǀ varuṇaḥ ǀ na ǀ mitraḥ ǀ vratam ǀ aryamā ǀ na ǀ minanti ǀ rudraḥ ǀ
na ǀ arātayaḥ ǀ tam ǀ idam ǀ svasti ǀ huve ǀ devam ǀ savitāram ǀ namaḥ-bhiḥ ǁ2.38.9 Aṣṭaka 2.8.3.4Anuvāka 2.4.66
-
Ṛk 10
भगं॒ धियं॑ वा॒जयं॑तः॒ पुरं॑धिं॒ नरा॒शंसो॒ ग्नास्पति॑र्नो अव्याः ।
आ॒ये वा॒मस्य॑ संग॒थे र॑यी॒णां प्रि॒या दे॒वस्य॑ सवि॒तुः स्या॑म ॥भगं धियं वाजयन्तः पुरन्धिं नराशंसो ग्नास्पतिर् नो अव्याः |
आये वामस्य संगथे रयीणाम् प्रिया देवस्य सवितुः स्याम ||bhágam dhíyam vājáyantaḥ púraṃdhim nárāśáṃso gnā́spátirno avyāḥ ǀ
āyé vāmásya saṃgathé rayīṇā́m priyā́ devásya savitúḥ syāma ǁbhagaṃ dhiyaṃ vājayantaḥ purandhiṃ narāśaṃso gnāspatir no avyāḥ |
āye vāmasya saṃgathe rayīṇām priyā devasya savituḥ syāma ||भग॑म् । धिय॑म् । वा॒जय॑न्तः । पुर॑म्ऽधिम् । नरा॒शंसः॑ । ग्नाःपतिः॑ । नः॒ । अ॒व्याः॒ ।
आ॒ऽअ॒ये । वा॒मस्य॑ । स॒म्ऽग॒थे । र॒यी॒णाम् । प्रि॒याः । दे॒वस्य॑ । स॒वि॒तुः । स्या॒म॒ ॥भगम् । धियम् । वाजयन्तः । पुरम्ऽधिम् । नराशंसः । ग्नाःपतिः । नः । अव्याः ।
आऽअये । वामस्य । सम्ऽगथे । रयीणाम् । प्रियाः । देवस्य । सवितुः । स्याम ॥bhágam ǀ dhíyam ǀ vājáyantaḥ ǀ púram-dhim ǀ nárāśáṃsaḥ ǀ gnā́ḥpátiḥ ǀ naḥ ǀ avyāḥ ǀ
ā-ayé ǀ vāmásya ǀ sam-gathé ǀ rayīṇā́m ǀ priyā́ḥ ǀ devásya ǀ savitúḥ ǀ syāma ǁbhagam ǀ dhiyam ǀ vājayantaḥ ǀ puram-dhim ǀ narāśaṃsaḥ ǀ gnāḥpatiḥ ǀ naḥ ǀ avyāḥ ǀ
ā-aye ǀ vāmasya ǀ sam-gathe ǀ rayīṇām ǀ priyāḥ ǀ devasya ǀ savituḥ ǀ syāma ǁ2.38.10 Aṣṭaka 2.8.3.5Anuvāka 2.4.67
-
Ṛk 11
अ॒स्मभ्यं॒ तद्दि॒वो अ॒द्भ्यः पृ॑थि॒व्यास्त्वया॑ द॒त्तं काम्यं॒ राध॒ आ गा॑त् ।
शं यत्स्तो॒तृभ्य॑ आ॒पये॒ भवा॑त्युरु॒शंसा॑य सवितर्जरि॒त्रे ॥अस्मभ्यं तद् दिवो अद्भ्यः पृथिव्यास् त्वया दत्तं काम्यं राध आ गात् |
शं यत् स्तोतृभ्य आपये भवात्य् उरुशंसाय सवितर् जरित्रे ||asmábhyam táddivó adbhyáḥ pṛthivyā́stváyā dattám kā́myam rā́dha ā́ gāt ǀ
śám yátstotṛ́bhya āpáye bhávātyuruśáṃsāya savitarjaritré ǁasmabhyaṃ tad divo adbhyaḥ pṛthivyās tvayā dattaṃ kāmyaṃ rādha ā gāt |
śaṃ yat stotṛbhya āpaye bhavāty uruśaṃsāya savitar jaritre ||अ॒स्मभ्य॑म् । तत् । दि॒वः । अ॒त्ऽभ्यः । पृ॒थि॒व्याः । त्वया॑ । द॒त्तम् । काम्य॑म् । राधः॑ । आ । गा॒त् ।
शम् । यत् । स्तो॒तृऽभ्यः॑ । आ॒पये॑ । भवा॑ति । उ॒रु॒ऽशंसा॑य । स॒वि॒तः॒ । ज॒रि॒त्रे ॥अस्मभ्यम् । तत् । दिवः । अत्ऽभ्यः । पृथिव्याः । त्वया । दत्तम् । काम्यम् । राधः । आ । गात् ।
शम् । यत् । स्तोतृऽभ्यः । आपये । भवाति । उरुऽशंसाय । सवितः । जरित्रे ॥asmábhyam ǀ tát ǀ diváḥ ǀ at-bhyáḥ ǀ pṛthivyā́ḥ ǀ tváyā ǀ dattám ǀ kā́myam ǀ rā́dhaḥ ǀ ā́ ǀ gāt ǀ
śám ǀ yát ǀ stotṛ́-bhyaḥ ǀ āpáye ǀ bhávāti ǀ uru-śáṃsāya ǀ savitaḥ ǀ jaritré ǁasmabhyam ǀ tat ǀ divaḥ ǀ at-bhyaḥ ǀ pṛthivyāḥ ǀ tvayā ǀ dattam ǀ kāmyam ǀ rādhaḥ ǀ ā ǀ gāt ǀ
śam ǀ yat ǀ stotṛ-bhyaḥ ǀ āpaye ǀ bhavāti ǀ uru-śaṃsāya ǀ savitaḥ ǀ jaritre ǁ2.38.11 Aṣṭaka 2.8.3.6Anuvāka 2.4.68
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.