Ṛk 2.38.9
Saṃhitā
न यस्येंद्रो॒ वरु॑णो॒ न मि॒त्रो व्र॒तम॑र्य॒मा न मि॒नंति॑ रु॒द्रः ।
नारा॑तय॒स्तमि॒दं स्व॒स्ति हु॒वे दे॒वं स॑वि॒तारं॒ नमो॑भिः ॥
न यस्येन्द्रो वरुणो न मित्रो व्रतम् अर्यमा न मिनन्ति रुद्रः |
नारातयस् तम् इदं स्वस्ति हुवे देवं सवितारं नमोभिः ||
ná yásyéndro váruṇo ná mitró vratámaryamā́ ná minánti rudráḥ ǀ
nā́rātayastámidám svastí huvé devám savitā́ram námobhiḥ ǁ
na yasyendro varuṇo na mitro vratam aryamā na minanti rudraḥ |
nārātayas tam idaṃ svasti huve devaṃ savitāraṃ namobhiḥ ||
Padapāṭha
न । यस्य॑ । इन्द्रः॑ । वरु॑णः । न । मि॒त्रः । व्र॒तम् । अ॒र्य॒मा । न । मि॒नन्ति॑ । रु॒द्रः ।
न । अरा॑तयः । तम् । इ॒दम् । स्व॒स्ति । हु॒वे । दे॒वम् । स॒वि॒तार॑म् । नमः॑ऽभिः ॥
न । यस्य । इन्द्रः । वरुणः । न । मित्रः । व्रतम् । अर्यमा । न । मिनन्ति । रुद्रः ।
न । अरातयः । तम् । इदम् । स्वस्ति । हुवे । देवम् । सवितारम् । नमःऽभिः ॥
ná ǀ yásya ǀ índraḥ ǀ váruṇaḥ ǀ ná ǀ mitráḥ ǀ vratám ǀ aryamā́ ǀ ná ǀ minánti ǀ rudráḥ ǀ
ná ǀ árātayaḥ ǀ tám ǀ idám ǀ svastí ǀ huvé ǀ devám ǀ savitā́ram ǀ námaḥ-bhiḥ ǁ
na ǀ yasya ǀ indraḥ ǀ varuṇaḥ ǀ na ǀ mitraḥ ǀ vratam ǀ aryamā ǀ na ǀ minanti ǀ rudraḥ ǀ
na ǀ arātayaḥ ǀ tam ǀ idam ǀ svasti ǀ huve ǀ devam ǀ savitāram ǀ namaḥ-bhiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.038.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.03.04
- Maṇḍala · Anuvāka · Ṛk
- 02.04.066
- Devatā देवता
- 1-7, 9-11: Savitṛ; 8: Varuṇa, Savitṛ
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.