Ṛk 2.38.4
Saṃhitā
पुनः॒ सम॑व्य॒द्वित॑तं॒ वयं॑ती म॒ध्या कर्तो॒र्न्य॑धा॒च्छक्म॒ धीरः॑ ।
उत्सं॒हाया॑स्था॒द्व्यृ१॒॑तूँर॑दर्धर॒रम॑तिः सवि॒ता दे॒व आगा॑त् ॥
पुनः सम् अव्यद् विततं वयन्ती मध्या कर्तोर् न्य् अधाच् छक्म धीरः |
उत् संहायास्थाद् व्य् ऋतूंर् अदर्धर् अरमतिः सविता देव आगात् ||
púnaḥ sámavyadvítatam váyantī madhyā́ kártornyádhācchákma dhī́raḥ ǀ
útsaṃhā́yāsthādvyṛ́tū́m̐radardhararámatiḥ savitā́ devá ā́gāt ǁ
punaḥ sam avyad vitataṃ vayantī madhyā kartor ny adhāc chakma dhīraḥ |
ut saṃhāyāsthād vy ṛtūṃr adardhar aramatiḥ savitā deva āgāt ||
Padapāṭha
पुन॒रिति॑ । सम् । अ॒व्य॒त् । विऽत॑तम् । वय॑न्ती । म॒ध्या । कर्तोः॑ । नि । अ॒धा॒त् । शक्म॑ । धीरः॑ ।
उत् । स॒म्ऽहाय॑ । अ॒स्था॒त् । वि । ऋ॒तून् । अ॒द॒र्धः॒ । अ॒रम॑तिः । स॒वि॒ता । दे॒वः । आ । अ॒गा॒त् ॥
पुनरिति । सम् । अव्यत् । विऽततम् । वयन्ती । मध्या । कर्तोः । नि । अधात् । शक्म । धीरः ।
उत् । सम्ऽहाय । अस्थात् । वि । ऋतून् । अदर्धः । अरमतिः । सविता । देवः । आ । अगात् ॥
púnaríti ǀ sám ǀ avyat ǀ ví-tatam ǀ váyantī ǀ madhyā́ ǀ kártoḥ ǀ ní ǀ adhāt ǀ śákma ǀ dhī́raḥ ǀ
út ǀ sam-hā́ya ǀ asthāt ǀ ví ǀ ṛtū́n ǀ adardhaḥ ǀ arámatiḥ ǀ savitā́ ǀ deváḥ ǀ ā́ ǀ agāt ǁ
punariti ǀ sam ǀ avyat ǀ vi-tatam ǀ vayantī ǀ madhyā ǀ kartoḥ ǀ ni ǀ adhāt ǀ śakma ǀ dhīraḥ ǀ
ut ǀ sam-hāya ǀ asthāt ǀ vi ǀ ṛtūn ǀ adardhaḥ ǀ aramatiḥ ǀ savitā ǀ devaḥ ǀ ā ǀ agāt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.038.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.02.04
- Maṇḍala · Anuvāka · Ṛk
- 02.04.061
- Devatā देवता
- 1-7, 9-11: Savitṛ; 8: Varuṇa, Savitṛ
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.