Ṛk 2.38.3
Saṃhitā
आ॒शुभि॑श्चि॒द्यान्वि मु॑चाति नू॒नमरी॑रम॒दत॑मानं चि॒देतोः॑ ।
अ॒ह्यर्षू॑णां चि॒न्न्य॑याँ अवि॒ष्यामनु॑ व्र॒तं स॑वि॒तुर्मोक्यागा॑त् ॥
आशुभिश् चिद् यान् वि मुचाति नूनम् अरीरमद् अतमानं चिद् एतोः |
अह्यर्षूणां चिन् न्य् अयां अविष्याम् अनु व्रतं सवितुर् मोक्य् आगात् ||
āśúbhiścidyā́nví mucāti nūnámárīramadátamānam cidétoḥ ǀ
ahyárṣūṇām cinnyáyām̐ aviṣyā́mánu vratám savitúrmókyā́gāt ǁ
āśubhiś cid yān vi mucāti nūnam arīramad atamānaṃ cid etoḥ |
ahyarṣūṇāṃ cin ny ayāṃ aviṣyām anu vrataṃ savitur moky āgāt ||
Padapāṭha
आ॒शुऽभिः॑ । चि॒त् । यान् । वि । मु॒चा॒ति॒ । नू॒नम् । अरी॑रमत् । अत॑मानम् । चि॒त् । एतोः॑ ।
अ॒ह्यर्षू॑णाम् । चि॒त् । नि । अ॒या॒न् । अ॒वि॒ष्याम् । अनु॑ । व्र॒तम् । स॒वि॒तुः । मोकी॑ । आ । अ॒गा॒त् ॥
आशुऽभिः । चित् । यान् । वि । मुचाति । नूनम् । अरीरमत् । अतमानम् । चित् । एतोः ।
अह्यर्षूणाम् । चित् । नि । अयान् । अविष्याम् । अनु । व्रतम् । सवितुः । मोकी । आ । अगात् ॥
āśú-bhiḥ ǀ cit ǀ yā́n ǀ ví ǀ mucāti ǀ nūnám ǀ árīramat ǀ átamānam ǀ cit ǀ étoḥ ǀ
ahyárṣūṇām ǀ cit ǀ ní ǀ ayān ǀ aviṣyā́m ǀ ánu ǀ vratám ǀ savitúḥ ǀ mókī ǀ ā́ ǀ agāt ǁ
āśu-bhiḥ ǀ cit ǀ yān ǀ vi ǀ mucāti ǀ nūnam ǀ arīramat ǀ atamānam ǀ cit ǀ etoḥ ǀ
ahyarṣūṇām ǀ cit ǀ ni ǀ ayān ǀ aviṣyām ǀ anu ǀ vratam ǀ savituḥ ǀ mokī ǀ ā ǀ agāt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.038.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.02.03
- Maṇḍala · Anuvāka · Ṛk
- 02.04.060
- Devatā देवता
- 1-7, 9-11: Savitṛ; 8: Varuṇa, Savitṛ
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.