Ṛk 2.38.11
Saṃhitā
अ॒स्मभ्यं॒ तद्दि॒वो अ॒द्भ्यः पृ॑थि॒व्यास्त्वया॑ द॒त्तं काम्यं॒ राध॒ आ गा॑त् ।
शं यत्स्तो॒तृभ्य॑ आ॒पये॒ भवा॑त्युरु॒शंसा॑य सवितर्जरि॒त्रे ॥
अस्मभ्यं तद् दिवो अद्भ्यः पृथिव्यास् त्वया दत्तं काम्यं राध आ गात् |
शं यत् स्तोतृभ्य आपये भवात्य् उरुशंसाय सवितर् जरित्रे ||
asmábhyam táddivó adbhyáḥ pṛthivyā́stváyā dattám kā́myam rā́dha ā́ gāt ǀ
śám yátstotṛ́bhya āpáye bhávātyuruśáṃsāya savitarjaritré ǁ
asmabhyaṃ tad divo adbhyaḥ pṛthivyās tvayā dattaṃ kāmyaṃ rādha ā gāt |
śaṃ yat stotṛbhya āpaye bhavāty uruśaṃsāya savitar jaritre ||
Padapāṭha
अ॒स्मभ्य॑म् । तत् । दि॒वः । अ॒त्ऽभ्यः । पृ॒थि॒व्याः । त्वया॑ । द॒त्तम् । काम्य॑म् । राधः॑ । आ । गा॒त् ।
शम् । यत् । स्तो॒तृऽभ्यः॑ । आ॒पये॑ । भवा॑ति । उ॒रु॒ऽशंसा॑य । स॒वि॒तः॒ । ज॒रि॒त्रे ॥
अस्मभ्यम् । तत् । दिवः । अत्ऽभ्यः । पृथिव्याः । त्वया । दत्तम् । काम्यम् । राधः । आ । गात् ।
शम् । यत् । स्तोतृऽभ्यः । आपये । भवाति । उरुऽशंसाय । सवितः । जरित्रे ॥
asmábhyam ǀ tát ǀ diváḥ ǀ at-bhyáḥ ǀ pṛthivyā́ḥ ǀ tváyā ǀ dattám ǀ kā́myam ǀ rā́dhaḥ ǀ ā́ ǀ gāt ǀ
śám ǀ yát ǀ stotṛ́-bhyaḥ ǀ āpáye ǀ bhávāti ǀ uru-śáṃsāya ǀ savitaḥ ǀ jaritré ǁ
asmabhyam ǀ tat ǀ divaḥ ǀ at-bhyaḥ ǀ pṛthivyāḥ ǀ tvayā ǀ dattam ǀ kāmyam ǀ rādhaḥ ǀ ā ǀ gāt ǀ
śam ǀ yat ǀ stotṛ-bhyaḥ ǀ āpaye ǀ bhavāti ǀ uru-śaṃsāya ǀ savitaḥ ǀ jaritre ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.038.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.03.06
- Maṇḍala · Anuvāka · Ṛk
- 02.04.068
- Devatā देवता
- 1-7, 9-11: Savitṛ; 8: Varuṇa, Savitṛ
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.