Ṛk 2.38.6
Saṃhitā
स॒माव॑वर्ति॒ विष्ठि॑तो जिगी॒षुर्विश्वे॑षां॒ काम॒श्चर॑ताम॒माभू॑त् ।
शश्वाँ॒ अपो॒ विकृ॑तं हि॒त्व्यागा॒दनु॑ व्र॒तं स॑वि॒तुर्दैव्य॑स्य ॥
समाववर्ति विष्ठितो जिगीषुर् विश्वेषां कामश् चरताम् अमाभूत् |
शश्वां अपो विकृतं हित्व्य् आगाद् अनु व्रतं सवितुर् दैव्यस्य ||
samā́vavarti víṣṭhito jigīṣúrvíśveṣām kā́maścáratāmamā́bhūt ǀ
śáśvām̐ ápo víkṛtam hitvyā́gādánu vratám savitúrdáivyasya ǁ
samāvavarti viṣṭhito jigīṣur viśveṣāṃ kāmaś caratām amābhūt |
śaśvāṃ apo vikṛtaṃ hitvy āgād anu vrataṃ savitur daivyasya ||
Padapāṭha
स॒म्ऽआव॑वर्ति । विऽस्थि॑तः । जि॒गी॒षुः । विश्वे॑षाम् । कामः॑ । चर॑ताम् । अ॒मा । अ॒भू॒त् ।
शश्वा॑न् । अपः॑ । विऽकृ॑तम् । हि॒त्वी । आ । अ॒गा॒त् । अनु॑ । व्र॒तम् । स॒वि॒तुः । दैव्य॑स्य ॥
सम्ऽआववर्ति । विऽस्थितः । जिगीषुः । विश्वेषाम् । कामः । चरताम् । अमा । अभूत् ।
शश्वान् । अपः । विऽकृतम् । हित्वी । आ । अगात् । अनु । व्रतम् । सवितुः । दैव्यस्य ॥
sam-ā́vavarti ǀ ví-sthitaḥ ǀ jigīṣúḥ ǀ víśveṣām ǀ kā́maḥ ǀ cáratām ǀ amā́ ǀ abhūt ǀ
śáśvān ǀ ápaḥ ǀ ví-kṛtam ǀ hitvī́ ǀ ā́ ǀ agāt ǀ ánu ǀ vratám ǀ savitúḥ ǀ dáivyasya ǁ
sam-āvavarti ǀ vi-sthitaḥ ǀ jigīṣuḥ ǀ viśveṣām ǀ kāmaḥ ǀ caratām ǀ amā ǀ abhūt ǀ
śaśvān ǀ apaḥ ǀ vi-kṛtam ǀ hitvī ǀ ā ǀ agāt ǀ anu ǀ vratam ǀ savituḥ ǀ daivyasya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.038.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.03.01
- Maṇḍala · Anuvāka · Ṛk
- 02.04.063
- Devatā देवता
- 1-7, 9-11: Savitṛ; 8: Varuṇa, Savitṛ
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.