Sūkta 26
- Devatā देवता
- Brahmaṇaspati
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī
Metres by ṛk
1st set of styles jagatī (1, 3); nicṛjjagatī (2, 4)
2nd set of styles jagatī
-
Ṛk 1
ऋ॒जुरिच्छंसो॑ वनवद्वनुष्य॒तो दे॑व॒यन्निददे॑वयंतम॒भ्य॑सत् ।
सु॒प्रा॒वीरिद्व॑नवत्पृ॒त्सु दु॒ष्टरं॒ यज्वेदय॑ज्यो॒र्वि भ॑जाति॒ भोज॑नं ॥ऋजुर् इच् छंसो वनवद् वनुष्यतो देवयन्न् इद् अदेवयन्तम् अभ्य् असत् |
सुप्रावीर् इद् वनवत् पृत्सु दुष्टरं यज्वेद् अयज्योर् वि भजाति भोजनम् ||ṛjúríccháṃso vanavadvanuṣyató devayánnídádevayantamabhyásat ǀ
suprāvī́rídvanavatpṛtsú duṣṭáram yájvédáyajyorví bhajāti bhójanam ǁṛjur ic chaṃso vanavad vanuṣyato devayann id adevayantam abhy asat |
suprāvīr id vanavat pṛtsu duṣṭaraṃ yajved ayajyor vi bhajāti bhojanam ||ऋ॒जुः । इत् । शंसः॑ । व॒न॒व॒त् । व॒नु॒ष्य॒तः । दे॒व॒ऽयन् । इत् । अदे॑वऽयन्तम् । अ॒भि । अ॒स॒त् ।
सु॒प्र॒ऽअ॒वीः । इत् । व॒न॒व॒त् । पृ॒त्ऽसु । दु॒स्तर॑म् । यज्वा॑ । इत् । अयज्योः॑ । वि । भ॒जा॒ति॒ । भोज॑नम् ॥ऋजुः । इत् । शंसः । वनवत् । वनुष्यतः । देवऽयन् । इत् । अदेवऽयन्तम् । अभि । असत् ।
सुप्रऽअवीः । इत् । वनवत् । पृत्ऽसु । दुस्तरम् । यज्वा । इत् । अयज्योः । वि । भजाति । भोजनम् ॥ṛjúḥ ǀ ít ǀ śáṃsaḥ ǀ vanavat ǀ vanuṣyatáḥ ǀ deva-yán ǀ ít ǀ ádeva-yantam ǀ abhí ǀ asat ǀ
supra-avī́ḥ ǀ ít ǀ vanavat ǀ pṛt-sú ǀ dustáram ǀ yájvā ǀ ít ǀ áyájyoḥ ǀ ví ǀ bhajāti ǀ bhójanam ǁṛjuḥ ǀ it ǀ śaṃsaḥ ǀ vanavat ǀ vanuṣyataḥ ǀ deva-yan ǀ it ǀ adeva-yantam ǀ abhi ǀ asat ǀ
supra-avīḥ ǀ it ǀ vanavat ǀ pṛt-su ǀ dustaram ǀ yajvā ǀ it ǀ ayajyoḥ ǀ vi ǀ bhajāti ǀ bhojanam ǁ2.26.1 Aṣṭaka 2.7.5.1Anuvāka 2.3.41
-
Ṛk 2
यज॑स्व वीर॒ प्र वि॑हि मनाय॒तो भ॒द्रं मनः॑ कृणुष्व वृत्र॒तूर्ये॑ ।
ह॒विष्कृ॑णुष्व सु॒भगो॒ यथास॑सि॒ ब्रह्म॑ण॒स्पते॒रव॒ आ वृ॑णीमहे ॥यजस्व वीर प्र विहि मनायतो भद्रम् मनः कृणुष्व वृत्रतूर्ये |
हविष् कृणुष्व सुभगो यथाससि ब्रह्मणस् पतेर् अव आ वृणीमहे ||yájasva vīra prá vihi manāyató bhadrám mánaḥ kṛṇuṣva vṛtratū́rye ǀ
havíṣkṛṇuṣva subhágo yáthā́sasi bráhmaṇaspáteráva ā́ vṛṇīmahe ǁyajasva vīra pra vihi manāyato bhadram manaḥ kṛṇuṣva vṛtratūrye |
haviṣ kṛṇuṣva subhago yathāsasi brahmaṇas pater ava ā vṛṇīmahe ||यज॑स्व । वी॒र॒ । प्र । वि॒हि॒ । म॒ना॒य॒तः । भ॒द्रम् । मनः॑ । कृ॒णु॒ष्व॒ । वृ॒त्र॒ऽतूर्ये॑ ।
ह॒विः । कृ॒णु॒ष्व॒ । सु॒ऽभगः॑ । यथा॑ । अस॑सि । ब्रह्म॑णः । पतेः॑ । अवः॑ । आ । वृ॒णी॒म॒हे॒ ॥यजस्व । वीर । प्र । विहि । मनायतः । भद्रम् । मनः । कृणुष्व । वृत्रऽतूर्ये ।
हविः । कृणुष्व । सुऽभगः । यथा । अससि । ब्रह्मणः । पतेः । अवः । आ । वृणीमहे ॥yájasva ǀ vīra ǀ prá ǀ vihi ǀ manāyatáḥ ǀ bhadrám ǀ mánaḥ ǀ kṛṇuṣva ǀ vṛtra-tū́rye ǀ
havíḥ ǀ kṛṇuṣva ǀ su-bhágaḥ ǀ yáthā ǀ ásasi ǀ bráhmaṇaḥ ǀ páteḥ ǀ ávaḥ ǀ ā́ ǀ vṛṇīmahe ǁyajasva ǀ vīra ǀ pra ǀ vihi ǀ manāyataḥ ǀ bhadram ǀ manaḥ ǀ kṛṇuṣva ǀ vṛtra-tūrye ǀ
haviḥ ǀ kṛṇuṣva ǀ su-bhagaḥ ǀ yathā ǀ asasi ǀ brahmaṇaḥ ǀ pateḥ ǀ avaḥ ǀ ā ǀ vṛṇīmahe ǁ2.26.2 Aṣṭaka 2.7.5.2Anuvāka 2.3.42
-
Ṛk 3
स इज्जने॑न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर्वाजं॑ भरते॒ धना॒ नृभिः॑ ।
दे॒वानां॒ यः पि॒तर॑मा॒विवा॑सति श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पतिं॑ ॥स इज् जनेन स विशा स जन्मना स पुत्रैर् वाजम् भरते धना नृभिः |
देवानां यः पितरम् आविवासति श्रद्धामना हविषा ब्रह्मणस् पतिम् ||sá íjjánena sá viśā́ sá jánmanā sá putráirvā́jam bharate dhánā nṛ́bhiḥ ǀ
devā́nām yáḥ pitáramāvívāsati śraddhā́manā havíṣā bráhmaṇaspátim ǁsa ij janena sa viśā sa janmanā sa putrair vājam bharate dhanā nṛbhiḥ |
devānāṃ yaḥ pitaram āvivāsati śraddhāmanā haviṣā brahmaṇas patim ||सः । इत् । जने॑न । सः । वि॒शा । सः । जन्म॑ना । सः । पु॒त्रैः । वाज॑म् । भ॒र॒ते॒ । धना॑ । नृऽभिः॑ ।
दे॒वाना॑म् । यः । पि॒तर॑म् । आ॒ऽविवा॑सति । श्र॒द्धाऽम॑नाः । ह॒विषा॑ । ब्रह्म॑णः । पति॑म् ॥सः । इत् । जनेन । सः । विशा । सः । जन्मना । सः । पुत्रैः । वाजम् । भरते । धना । नृऽभिः ।
देवानाम् । यः । पितरम् । आऽविवासति । श्रद्धाऽमनाः । हविषा । ब्रह्मणः । पतिम् ॥sáḥ ǀ ít ǀ jánena ǀ sáḥ ǀ viśā́ ǀ sáḥ ǀ jánmanā ǀ sáḥ ǀ putráiḥ ǀ vā́jam ǀ bharate ǀ dhánā ǀ nṛ́-bhiḥ ǀ
devā́nām ǀ yáḥ ǀ pitáram ǀ ā-vívāsati ǀ śraddhā́-manāḥ ǀ havíṣā ǀ bráhmaṇaḥ ǀ pátim ǁsaḥ ǀ it ǀ janena ǀ saḥ ǀ viśā ǀ saḥ ǀ janmanā ǀ saḥ ǀ putraiḥ ǀ vājam ǀ bharate ǀ dhanā ǀ nṛ-bhiḥ ǀ
devānām ǀ yaḥ ǀ pitaram ǀ ā-vivāsati ǀ śraddhā-manāḥ ǀ haviṣā ǀ brahmaṇaḥ ǀ patim ǁ2.26.3 Aṣṭaka 2.7.5.3Anuvāka 2.3.43
-
Ṛk 4
यो अ॑स्मै ह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त्प्र तं प्रा॒चा न॑यति॒ ब्रह्म॑ण॒स्पतिः॑ ।
उ॒रु॒ष्यती॒मंह॑सो॒ रक्ष॑ती रि॒षो॒३॒॑ऽंहोश्चि॑दस्मा उरु॒चक्रि॒रद्भु॑तः ॥यो अस्मै हव्यैर् घृतवद्भिर् अविधत् प्र तम् प्राचा नयति ब्रह्मणस् पतिः |
उरुष्यतीम् अंहसो रक्षती रिषो ऽंहोश् चिद् अस्मा उरुचक्रिर् अद्भुतः ||yó asmai havyáirghṛtávadbhirávidhatprá tám prācā́ nayati bráhmaṇaspátiḥ ǀ
uruṣyátīmáṃhaso rákṣatī riṣó’ṃhóścidasmā urucákrirádbhutaḥ ǁyo asmai havyair ghṛtavadbhir avidhat pra tam prācā nayati brahmaṇas patiḥ |
uruṣyatīm aṃhaso rakṣatī riṣo 'ṃhoś cid asmā urucakrir adbhutaḥ ||यः । अ॒स्मै॒ । ह॒व्यैः । घृ॒तव॑त्ऽभिः । अवि॑धत् । प्र । तम् । प्रा॒चा । न॒य॒ति॒ । ब्रह्म॑णः । पतिः॑ ।
उ॒रु॒ष्यति॑ । ई॒म् । अंह॑सः । रक्ष॑ति । रि॒षः । अं॒होः । चि॒त् । अ॒स्मै॒ । उ॒रु॒ऽचक्रिः॑ । अद्भु॑तः ॥यः । अस्मै । हव्यैः । घृतवत्ऽभिः । अविधत् । प्र । तम् । प्राचा । नयति । ब्रह्मणः । पतिः ।
उरुष्यति । ईम् । अंहसः । रक्षति । रिषः । अंहोः । चित् । अस्मै । उरुऽचक्रिः । अद्भुतः ॥yáḥ ǀ asmai ǀ havyáiḥ ǀ ghṛtávat-bhiḥ ǀ ávidhat ǀ prá ǀ tám ǀ prācā́ ǀ nayati ǀ bráhmaṇaḥ ǀ pátiḥ ǀ
uruṣyáti ǀ īm ǀ áṃhasaḥ ǀ rákṣati ǀ riṣáḥ ǀ aṃhóḥ ǀ cit ǀ asmai ǀ uru-cákriḥ ǀ ádbhutaḥ ǁyaḥ ǀ asmai ǀ havyaiḥ ǀ ghṛtavat-bhiḥ ǀ avidhat ǀ pra ǀ tam ǀ prācā ǀ nayati ǀ brahmaṇaḥ ǀ patiḥ ǀ
uruṣyati ǀ īm ǀ aṃhasaḥ ǀ rakṣati ǀ riṣaḥ ǀ aṃhoḥ ǀ cit ǀ asmai ǀ uru-cakriḥ ǀ adbhutaḥ ǁ2.26.4 Aṣṭaka 2.7.5.4Anuvāka 2.3.44
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.