Ṛk 2.26.1
Saṃhitā
ऋ॒जुरिच्छंसो॑ वनवद्वनुष्य॒तो दे॑व॒यन्निददे॑वयंतम॒भ्य॑सत् ।
सु॒प्रा॒वीरिद्व॑नवत्पृ॒त्सु दु॒ष्टरं॒ यज्वेदय॑ज्यो॒र्वि भ॑जाति॒ भोज॑नं ॥
ऋजुर् इच् छंसो वनवद् वनुष्यतो देवयन्न् इद् अदेवयन्तम् अभ्य् असत् |
सुप्रावीर् इद् वनवत् पृत्सु दुष्टरं यज्वेद् अयज्योर् वि भजाति भोजनम् ||
ṛjúríccháṃso vanavadvanuṣyató devayánnídádevayantamabhyásat ǀ
suprāvī́rídvanavatpṛtsú duṣṭáram yájvédáyajyorví bhajāti bhójanam ǁ
ṛjur ic chaṃso vanavad vanuṣyato devayann id adevayantam abhy asat |
suprāvīr id vanavat pṛtsu duṣṭaraṃ yajved ayajyor vi bhajāti bhojanam ||
Padapāṭha
ऋ॒जुः । इत् । शंसः॑ । व॒न॒व॒त् । व॒नु॒ष्य॒तः । दे॒व॒ऽयन् । इत् । अदे॑वऽयन्तम् । अ॒भि । अ॒स॒त् ।
सु॒प्र॒ऽअ॒वीः । इत् । व॒न॒व॒त् । पृ॒त्ऽसु । दु॒स्तर॑म् । यज्वा॑ । इत् । अयज्योः॑ । वि । भ॒जा॒ति॒ । भोज॑नम् ॥
ऋजुः । इत् । शंसः । वनवत् । वनुष्यतः । देवऽयन् । इत् । अदेवऽयन्तम् । अभि । असत् ।
सुप्रऽअवीः । इत् । वनवत् । पृत्ऽसु । दुस्तरम् । यज्वा । इत् । अयज्योः । वि । भजाति । भोजनम् ॥
ṛjúḥ ǀ ít ǀ śáṃsaḥ ǀ vanavat ǀ vanuṣyatáḥ ǀ deva-yán ǀ ít ǀ ádeva-yantam ǀ abhí ǀ asat ǀ
supra-avī́ḥ ǀ ít ǀ vanavat ǀ pṛt-sú ǀ dustáram ǀ yájvā ǀ ít ǀ áyájyoḥ ǀ ví ǀ bhajāti ǀ bhójanam ǁ
ṛjuḥ ǀ it ǀ śaṃsaḥ ǀ vanavat ǀ vanuṣyataḥ ǀ deva-yan ǀ it ǀ adeva-yantam ǀ abhi ǀ asat ǀ
supra-avīḥ ǀ it ǀ vanavat ǀ pṛt-su ǀ dustaram ǀ yajvā ǀ it ǀ ayajyoḥ ǀ vi ǀ bhajāti ǀ bhojanam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.026.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.7.05.01
- Maṇḍala · Anuvāka · Ṛk
- 02.03.041
- Devatā देवता
- Brahmaṇaspati
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.