Ṛgveda · Maṇḍala 2

Sūkta 37

Draviṇodā · Aśvins · Agni · Gṛtsamada Bhārgava Śaunaka · 6 ṛks

Link
Devatā देवता
1-4: Draviṇodā; 5: Aśvins; 6: Agni
Ṛṣi ऋषि
Gṛtsamada Bhārgava Śaunaka
Chandas छन्दस्
Jagatī
Metres by ṛk

1st set of styles nicṛjjagatī (1, 5); bhuriktriṣṭup (4, 6); jagatī (2); virāḍjagatī (3)

2nd set of styles jagatī

  1. Ṛk 1

    मंद॑स्व हो॒त्रादनु॒ जोष॒मंध॒सोऽध्व॑र्यवः॒ स पू॒र्णां व॑ष्ट्या॒सिचं॑ ।
    तस्मा॑ ए॒तं भ॑रत तद्व॒शो द॒दिर्हो॒त्रात्सोमं॑ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ॥

    मन्दस्व होत्राद् अनु जोषम् अन्धसो ऽध्वर्यवः स पूर्णां वष्ट्य् आसिचम् |
    तस्मा एतम् भरत तद्वशो ददिर् होत्रात् सोमं द्रविणोदः पिब ऋतुभिः ||

    mándasva hotrā́dánu jóṣamándhasó’dhvaryavaḥ sá pūrṇā́m vaṣṭyāsícam ǀ
    tásmā etám bharata tadvaśó dadírhotrā́tsómam draviṇodaḥ píba ṛtúbhiḥ ǁ

    mandasva hotrād anu joṣam andhaso 'dhvaryavaḥ sa pūrṇāṃ vaṣṭy āsicam |
    tasmā etam bharata tadvaśo dadir hotrāt somaṃ draviṇodaḥ piba ṛtubhiḥ ||

    मन्द॑स्व । हो॒त्रात् । अनु॑ । जोष॑म् । अन्ध॑सः । अध्व॑र्यवः । सः । पू॒र्णाम् । व॒ष्टि॒ । आ॒ऽसिच॑म् ।
    तस्मै॑ । ए॒तम् । भ॒र॒त॒ । त॒त्ऽव॒शः । द॒दिः । हो॒त्रात् । सोम॑म् । द्र॒वि॒णः॒ऽदः॒ । पिब॑ । ऋ॒तुऽभिः॑ ॥

    मन्दस्व । होत्रात् । अनु । जोषम् । अन्धसः । अध्वर्यवः । सः । पूर्णाम् । वष्टि । आऽसिचम् ।
    तस्मै । एतम् । भरत । तत्ऽवशः । ददिः । होत्रात् । सोमम् । द्रविणःऽदः । पिब । ऋतुऽभिः ॥

    mándasva ǀ hotrā́t ǀ ánu ǀ jóṣam ǀ ándhasaḥ ǀ ádhvaryavaḥ ǀ sáḥ ǀ pūrṇā́m ǀ vaṣṭi ǀ ā-sícam ǀ
    tásmai ǀ etám ǀ bharata ǀ tat-vaśáḥ ǀ dadíḥ ǀ hotrā́t ǀ sómam ǀ draviṇaḥ-daḥ ǀ píba ǀ ṛtú-bhiḥ ǁ

    mandasva ǀ hotrāt ǀ anu ǀ joṣam ǀ andhasaḥ ǀ adhvaryavaḥ ǀ saḥ ǀ pūrṇām ǀ vaṣṭi ǀ ā-sicam ǀ
    tasmai ǀ etam ǀ bharata ǀ tat-vaśaḥ ǀ dadiḥ ǀ hotrāt ǀ somam ǀ draviṇaḥ-daḥ ǀ piba ǀ ṛtu-bhiḥ ǁ

    2.37.1 Aṣṭaka 2.8.1.1Anuvāka 2.4.52

  2. Ṛk 2

    यमु॒ पूर्व॒महु॑वे॒ तमि॒दं हु॑वे॒ सेदु॒ हव्यो॑ द॒दिर्यो नाम॒ पत्य॑ते ।
    अ॒ध्व॒र्युभिः॒ प्रस्थि॑तं सो॒म्यं मधु॑ पो॒त्रात्सोमं॑ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ॥

    यम् उ पूर्वम् अहुवे तम् इदं हुवे सेद् उ हव्यो ददिर् यो नाम पत्यते |
    अध्वर्युभिः प्रस्थितं सोम्यम् मधु पोत्रात् सोमं द्रविणोदः पिब ऋतुभिः ||

    yámu pū́rvamáhuve támidám huve sédu hávyo dadíryó nā́ma pátyate ǀ
    adhvaryúbhiḥ prásthitam somyám mádhu potrā́tsómam draviṇodaḥ píba ṛtúbhiḥ ǁ

    yam u pūrvam ahuve tam idaṃ huve sed u havyo dadir yo nāma patyate |
    adhvaryubhiḥ prasthitaṃ somyam madhu potrāt somaṃ draviṇodaḥ piba ṛtubhiḥ ||

    यम् । ऊं॒ इति॑ । पूर्व॑म् । अहु॑वे । तम् । इ॒दम् । हु॒वे॒ । सः । इत् । ऊं॒ इति॑ । हव्यः॑ । द॒दिः । यः । नाम॑ । पत्य॑ते ।
    अ॒ध्व॒र्युऽभिः॑ । प्रऽस्थि॑तम् । सो॒म्यम् । मधु॑ । पो॒त्रात् । सोम॑म् । द्र॒वि॒णः॒ऽदः॒ । पिब॑ । ऋ॒तुऽभिः॑ ॥

    यम् । ऊं इति । पूर्वम् । अहुवे । तम् । इदम् । हुवे । सः । इत् । ऊं इति । हव्यः । ददिः । यः । नाम । पत्यते ।
    अध्वर्युऽभिः । प्रऽस्थितम् । सोम्यम् । मधु । पोत्रात् । सोमम् । द्रविणःऽदः । पिब । ऋतुऽभिः ॥

    yám ǀ ūṃ íti ǀ pū́rvam ǀ áhuve ǀ tám ǀ idám ǀ huve ǀ sáḥ ǀ ít ǀ ūṃ íti ǀ hávyaḥ ǀ dadíḥ ǀ yáḥ ǀ nā́ma ǀ pátyate ǀ
    adhvaryú-bhiḥ ǀ prá-sthitam ǀ somyám ǀ mádhu ǀ potrā́t ǀ sómam ǀ draviṇaḥ-daḥ ǀ píba ǀ ṛtú-bhiḥ ǁ

    yam ǀ ūṃ iti ǀ pūrvam ǀ ahuve ǀ tam ǀ idam ǀ huve ǀ saḥ ǀ it ǀ ūṃ iti ǀ havyaḥ ǀ dadiḥ ǀ yaḥ ǀ nāma ǀ patyate ǀ
    adhvaryu-bhiḥ ǀ pra-sthitam ǀ somyam ǀ madhu ǀ potrāt ǀ somam ǀ draviṇaḥ-daḥ ǀ piba ǀ ṛtu-bhiḥ ǁ

    2.37.2 Aṣṭaka 2.8.1.2Anuvāka 2.4.53

  3. Ṛk 3

    मेद्यं॑तु ते॒ वह्न॑यो॒ येभि॒रीय॒सेऽरि॑षण्यन्वीळयस्वा वनस्पते ।
    आ॒यूया॑ धृष्णो अभि॒गूर्या॒ त्वं ने॒ष्ट्रात्सोमं॑ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ॥

    मेद्यन्तु ते वह्नयो येभिर् ईयसे ऽरिषण्यन् वीऌअयस्वा वनस्पते |
    आयूया धृष्णो अभिगूर्या त्वं नेष्ट्रात् सोमं द्रविणोदः पिब ऋतुभिः ||

    médyantu te váhnayo yébhirī́yasé’riṣaṇyanvīḷayasvā vanaspate ǀ
    āyū́yā dhṛṣṇo abhigū́ryā tvám neṣṭrā́tsómam draviṇodaḥ píba ṛtúbhiḥ ǁ

    medyantu te vahnayo yebhir īyase 'riṣaṇyan vīḷayasvā vanaspate |
    āyūyā dhṛṣṇo abhigūryā tvaṃ neṣṭrāt somaṃ draviṇodaḥ piba ṛtubhiḥ ||

    मेद्य॑न्तु । ते॒ । वह्न॑यः । येभिः॑ । ईय॑से । अरि॑षण्यन् । वी॒ळ॒य॒स्व॒ । व॒न॒स्प॒ते॒ ।
    आ॒ऽयूय॑ । धृ॒ष्णो॒ इति॑ । अ॒भि॒ऽगूर्य॑ । त्वम् । ने॒ष्ट्रात् । सोम॑म् । द्र॒वि॒णः॒ऽदः॒ । पिब॑ । ऋ॒तुऽभिः॑ ॥

    मेद्यन्तु । ते । वह्नयः । येभिः । ईयसे । अरिषण्यन् । वीळयस्व । वनस्पते ।
    आऽयूय । धृष्णो इति । अभिऽगूर्य । त्वम् । नेष्ट्रात् । सोमम् । द्रविणःऽदः । पिब । ऋतुऽभिः ॥

    médyantu ǀ te ǀ váhnayaḥ ǀ yébhiḥ ǀ ī́yase ǀ áriṣaṇyan ǀ vīḷayasva ǀ vanaspate ǀ
    ā-yū́ya ǀ dhṛṣṇo íti ǀ abhi-gū́rya ǀ tvám ǀ neṣṭrā́t ǀ sómam ǀ draviṇaḥ-daḥ ǀ píba ǀ ṛtú-bhiḥ ǁ

    medyantu ǀ te ǀ vahnayaḥ ǀ yebhiḥ ǀ īyase ǀ ariṣaṇyan ǀ vīḷayasva ǀ vanaspate ǀ
    ā-yūya ǀ dhṛṣṇo iti ǀ abhi-gūrya ǀ tvam ǀ neṣṭrāt ǀ somam ǀ draviṇaḥ-daḥ ǀ piba ǀ ṛtu-bhiḥ ǁ

    2.37.3 Aṣṭaka 2.8.1.3Anuvāka 2.4.54

  4. Ṛk 4

    अपा॑द्धो॒त्रादु॒त पो॒त्राद॑मत्तो॒त ने॒ष्ट्राद॑जुषत॒ प्रयो॑ हि॒तं ।
    तु॒रीयं॒ पात्र॒ममृ॑क्त॒मम॑र्त्यं द्रविणो॒दाः पि॑बतु द्राविणोद॒सः ॥

    अपाद् धोत्राद् उत पोत्राद् अमत्तोत नेष्ट्राद् अजुषत प्रयो हितम् |
    तुरीयम् पात्रम् अमृक्तम् अमर्त्यं द्रविणोदाः पिबतु द्राविणोदसः ||

    ápāddhotrā́dutá potrā́damattotá neṣṭrā́dajuṣata práyo hitám ǀ
    turī́yam pā́tramámṛktamámartyam draviṇodā́ḥ pibatu drāviṇodasáḥ ǁ

    apād dhotrād uta potrād amattota neṣṭrād ajuṣata prayo hitam |
    turīyam pātram amṛktam amartyaṃ draviṇodāḥ pibatu drāviṇodasaḥ ||

    अपा॑त् । हो॒त्रात् । उ॒त । पो॒त्रात् । अ॒म॒त्त॒ । उ॒त । ने॒ष्ट्रात् । अ॒जु॒ष॒त॒ । प्रयः॑ । हि॒तम् ।
    तु॒रीय॑म् । पात्र॑म् । अमृ॑क्तम् । अम॑र्त्यम् । द्र॒वि॒णः॒ऽदाः । पि॒ब॒तु॒ । द्रा॒वि॒णः॒ऽद॒सः ॥

    अपात् । होत्रात् । उत । पोत्रात् । अमत्त । उत । नेष्ट्रात् । अजुषत । प्रयः । हितम् ।
    तुरीयम् । पात्रम् । अमृक्तम् । अमर्त्यम् । द्रविणःऽदाः । पिबतु । द्राविणःऽदसः ॥

    ápāt ǀ hotrā́t ǀ utá ǀ potrā́t ǀ amatta ǀ utá ǀ neṣṭrā́t ǀ ajuṣata ǀ práyaḥ ǀ hitám ǀ
    turī́yam ǀ pā́tram ǀ ámṛktam ǀ ámartyam ǀ draviṇaḥ-dā́ḥ ǀ pibatu ǀ drāviṇaḥ-dasáḥ ǁ

    apāt ǀ hotrāt ǀ uta ǀ potrāt ǀ amatta ǀ uta ǀ neṣṭrāt ǀ ajuṣata ǀ prayaḥ ǀ hitam ǀ
    turīyam ǀ pātram ǀ amṛktam ǀ amartyam ǀ draviṇaḥ-dāḥ ǀ pibatu ǀ drāviṇaḥ-dasaḥ ǁ

    2.37.4 Aṣṭaka 2.8.1.4Anuvāka 2.4.55

  5. Ṛk 5

    अ॒र्वांच॑म॒द्य य॒य्यं॑ नृ॒वाह॑णं॒ रथं॑ युंजाथामि॒ह वां॑ वि॒मोच॑नं ।
    पृं॒क्तं ह॒वींषि॒ मधु॒ना हि कं॑ ग॒तमथा॒ सोमं॑ पिबतं वाजिनीवसू ॥

    अर्वाञ्चम् अद्य यय्यं नृवाहणं रथं युञ्जाथाम् इह वां विमोचनम् |
    पृङ्क्तं हवींषि मधुना हि कं गतम् अथा सोमम् पिबतं वाजिनीवसू ||

    arvā́ñcamadyá yayyám nṛvā́haṇam rátham yuñjāthāmihá vām vimócanam ǀ
    pṛṅktám havī́ṃṣi mádhunā́ hí kam gatámáthā sómam pibatam vājinīvasū ǁ

    arvāñcam adya yayyaṃ nṛvāhaṇaṃ rathaṃ yuñjāthām iha vāṃ vimocanam |
    pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somam pibataṃ vājinīvasū ||

    अ॒र्वाञ्च॑म् । अ॒द्य । य॒य्य॑म् । नृ॒ऽवाह॑नम् । रथ॑म् । यु॒ञ्जा॒था॒म् । इ॒ह । वा॒म् । वि॒ऽमोच॑नम् ।
    पृ॒ङ्क्तम् । ह॒वींषि॑ । मधु॑ना । आ । हि । क॒म् । ग॒तम् । अथ॑ । सोम॑म् । पि॒ब॒त॒म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ॥

    अर्वाञ्चम् । अद्य । यय्यम् । नृऽवाहनम् । रथम् । युञ्जाथाम् । इह । वाम् । विऽमोचनम् ।
    पृङ्क्तम् । हवींषि । मधुना । आ । हि । कम् । गतम् । अथ । सोमम् । पिबतम् । वाजिनीवसू इति वाजिनीऽवसू ॥

    arvā́ñcam ǀ adyá ǀ yayyám ǀ nṛ-vā́hanam ǀ rátham ǀ yuñjāthām ǀ ihá ǀ vām ǀ vi-mócanam ǀ
    pṛṅktám ǀ havī́ṃṣi ǀ mádhunā ǀ ā́ ǀ hí ǀ kam ǀ gatám ǀ átha ǀ sómam ǀ pibatam ǀ vājinīvasū íti vājinī-vasū ǁ

    arvāñcam ǀ adya ǀ yayyam ǀ nṛ-vāhanam ǀ ratham ǀ yuñjāthām ǀ iha ǀ vām ǀ vi-mocanam ǀ
    pṛṅktam ǀ havīṃṣi ǀ madhunā ǀ ā ǀ hi ǀ kam ǀ gatam ǀ atha ǀ somam ǀ pibatam ǀ vājinīvasū iti vājinī-vasū ǁ

    2.37.5 Aṣṭaka 2.8.1.5Anuvāka 2.4.56

  6. Ṛk 6

    जोष्य॑ग्ने स॒मिधं॒ जोष्याहु॑तिं॒ जोषि॒ ब्रह्म॒ जन्यं॒ जोषि॑ सुष्टु॒तिं ।
    विश्वे॑भि॒र्विश्वाँ॑ ऋ॒तुना॑ वसो म॒ह उ॒शंदे॒वाँ उ॑श॒तः पा॑यया ह॒विः ॥

    जोष्य् अग्ने समिधं जोष्य् आहुतिं जोषि ब्रह्म जन्यं जोषि सुष्टुतिम् |
    विश्वेभिर् विश्वां ऋतुना वसो मह उशन् देवां उशतः पायया हविः ||

    jóṣyagne samídham jóṣyā́hutim jóṣi bráhma jányam jóṣi suṣṭutím ǀ
    víśvebhirvíśvām̐ ṛtúnā vaso mahá uśándevā́m̐ uśatáḥ pāyayā havíḥ ǁ

    joṣy agne samidhaṃ joṣy āhutiṃ joṣi brahma janyaṃ joṣi suṣṭutim |
    viśvebhir viśvāṃ ṛtunā vaso maha uśan devāṃ uśataḥ pāyayā haviḥ ||

    जोषि॑ । अ॒ग्ने॒ । स॒म्ऽइध॑म् । जोषि॑ । आऽहु॑तिम् । जोषि॑ । ब्रह्म॑ । जन्य॑म् । जोषि॑ । सु॒ऽस्तु॒तिम् ।
    विश्वे॑भिः । विश्वा॑न् । ऋ॒तुना॑ । व॒सो॒ इति॑ । म॒हः । उ॒शन् । दे॒वान् । उ॒श॒तः । पा॒य॒य॒ । ह॒विः ॥

    जोषि । अग्ने । सम्ऽइधम् । जोषि । आऽहुतिम् । जोषि । ब्रह्म । जन्यम् । जोषि । सुऽस्तुतिम् ।
    विश्वेभिः । विश्वान् । ऋतुना । वसो इति । महः । उशन् । देवान् । उशतः । पायय । हविः ॥

    jóṣi ǀ agne ǀ sam-ídham ǀ jóṣi ǀ ā́-hutim ǀ jóṣi ǀ bráhma ǀ jányam ǀ jóṣi ǀ su-stutím ǀ
    víśvebhiḥ ǀ víśvān ǀ ṛtúnā ǀ vaso íti ǀ maháḥ ǀ uśán ǀ devā́n ǀ uśatáḥ ǀ pāyaya ǀ havíḥ ǁ

    joṣi ǀ agne ǀ sam-idham ǀ joṣi ǀ ā-hutim ǀ joṣi ǀ brahma ǀ janyam ǀ joṣi ǀ su-stutim ǀ
    viśvebhiḥ ǀ viśvān ǀ ṛtunā ǀ vaso iti ǀ mahaḥ ǀ uśan ǀ devān ǀ uśataḥ ǀ pāyaya ǀ haviḥ ǁ

    2.37.6 Aṣṭaka 2.8.1.6Anuvāka 2.4.57

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 2.37 · Draviṇodā · Aśvins · Agni

Interpretations

Ralph T. H. Griffith

Ṛk 1

Enjoy thy fill of meath out of the Hotar's cup: Adhvaryus he desires a full draught poured for him. Bring it him: seeking this he gives. Granter of Wealth, drink Soma with the Ṛtus from the Hotar's cup.

Ṛk 2

He whom of old I called on, him I call on now. He is to be invoked; his name is He who Gives, Here brought by priests is Soma meath. Granter of Wealth, drink Soma with the Ṛtus from the Potar's cup.

Ṛk 3

Fat may the horses be wherewith thou speedest on: Lord of the Wood, unharming, strengthen thou thyself. Drawing and seizing, Bold One, thou who grantest wealth, drink Soma with the Ṛtus from the Neṣṭar's cup.

Ṛk 4

From Hotar's cup and Potar's he hath drunk and joyed: the proffered food hath pleased him from the Neṣṭar's bowl. The fourth cup undisturbed, immortal, let him drink who giveth wealth, the cup of the wealth-giving God.

Ṛk 5

Yoke, O ye Twain, to-day your hero-bearing car, swift-moving hitherward: your loosing-place is here. Mix the oblations, then come hither with the meath, and drink the Soma, ye rich in abundant strength.