Sūkta 40
- Devatā देवता
- 1, 3-5: Pūṣan, Soma; 2: Indra, Pūṣan, Soma; 6: Soma, Pūṣan (A); Aditi (B)
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (1, 3); nicṛttriṣṭup (5, 6); virāṭtrisṭup (2); svarāṭpaṅkti (4)
2nd set of styles triṣṭubh
-
Ṛk 1
सोमा॑पूषणा॒ जन॑ना रयी॒णां जन॑ना दि॒वो जन॑ना पृथि॒व्याः ।
जा॒तौ विश्व॑स्य॒ भुव॑नस्य गो॒पौ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभिं॑ ॥सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः |
जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्न् अमृतस्य नाभिम् ||sómāpūṣaṇā jánanā rayīṇā́m jánanā divó jánanā pṛthivyā́ḥ ǀ
jātáu víśvasya bhúvanasya gopáu devā́ akṛṇvannamṛ́tasya nā́bhim ǁsomāpūṣaṇā jananā rayīṇāṃ jananā divo jananā pṛthivyāḥ |
jātau viśvasya bhuvanasya gopau devā akṛṇvann amṛtasya nābhim ||सोमा॑पूषणा । जन॑ना । र॒यी॒णाम् । जन॑ना । दि॒वः । जन॑ना । पृ॒थि॒व्याः ।
जा॒तौ । विश्व॑स्य । भुव॑नस्य । गो॒पौ । दे॒वाः । अ॒कृ॒ण्व॒न् । अ॒मृत॑स्य । नाभि॑म् ॥सोमापूषणा । जनना । रयीणाम् । जनना । दिवः । जनना । पृथिव्याः ।
जातौ । विश्वस्य । भुवनस्य । गोपौ । देवाः । अकृण्वन् । अमृतस्य । नाभिम् ॥sómāpūṣaṇā ǀ jánanā ǀ rayīṇā́m ǀ jánanā ǀ diváḥ ǀ jánanā ǀ pṛthivyā́ḥ ǀ
jātáu ǀ víśvasya ǀ bhúvanasya ǀ gopáu ǀ devā́ḥ ǀ akṛṇvan ǀ amṛ́tasya ǀ nā́bhim ǁsomāpūṣaṇā ǀ jananā ǀ rayīṇām ǀ jananā ǀ divaḥ ǀ jananā ǀ pṛthivyāḥ ǀ
jātau ǀ viśvasya ǀ bhuvanasya ǀ gopau ǀ devāḥ ǀ akṛṇvan ǀ amṛtasya ǀ nābhim ǁ2.40.1 Aṣṭaka 2.8.6.1Anuvāka 2.4.77
-
Ṛk 2
इ॒मौ दे॒वौ जाय॑मानौ जुषंते॒मौ तमां॑सि गूहता॒मजु॑ष्टा ।
आ॒भ्यामिंद्रः॑ प॒क्वमा॒मास्वं॒तः सो॑मापू॒षभ्यां॑ जनदु॒स्रिया॑सु ॥इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहताम् अजुष्टा |
आभ्याम् इन्द्रः पक्वम् आमास्व् अन्तः सोमापूषभ्यां जनद् उस्रियासु ||imáu deváu jā́yamānau juṣantemáu támāṃsi gūhatāmájuṣṭā ǀ
ābhyā́míndraḥ pakvámāmā́svantáḥ somāpūṣábhyām janadusríyāsu ǁimau devau jāyamānau juṣantemau tamāṃsi gūhatām ajuṣṭā |
ābhyām indraḥ pakvam āmāsv antaḥ somāpūṣabhyāṃ janad usriyāsu ||इ॒मौ । दे॒वौ । जाय॑मानौ । जु॒ष॒न्त॒ । इ॒मौ । तमां॑सि । गू॒ह॒ता॒म् । अजु॑ष्टा ।
आ॒भ्याम् । इन्द्रः॑ । प॒क्वम् । आ॒मासु॑ । अ॒न्तरिति॑ । सो॒मा॒पू॒षऽभ्या॑म् । ज॒न॒त् । उ॒स्रिया॑सु ॥इमौ । देवौ । जायमानौ । जुषन्त । इमौ । तमांसि । गूहताम् । अजुष्टा ।
आभ्याम् । इन्द्रः । पक्वम् । आमासु । अन्तरिति । सोमापूषऽभ्याम् । जनत् । उस्रियासु ॥imáu ǀ deváu ǀ jā́yamānau ǀ juṣanta ǀ imáu ǀ támāṃsi ǀ gūhatām ǀ ájuṣṭā ǀ
ābhyā́m ǀ índraḥ ǀ pakvám ǀ āmā́su ǀ antáríti ǀ somāpūṣá-bhyām ǀ janat ǀ usríyāsu ǁimau ǀ devau ǀ jāyamānau ǀ juṣanta ǀ imau ǀ tamāṃsi ǀ gūhatām ǀ ajuṣṭā ǀ
ābhyām ǀ indraḥ ǀ pakvam ǀ āmāsu ǀ antariti ǀ somāpūṣa-bhyām ǀ janat ǀ usriyāsu ǁ2.40.2 Aṣṭaka 2.8.6.2Anuvāka 2.4.78
-
Ṛk 3
सोमा॑पूषणा॒ रज॑सो वि॒मानं॑ स॒प्तच॑क्रं॒ रथ॒मवि॑श्वमिन्वं ।
वि॒षू॒वृतं॒ मन॑सा यु॒ज्यमा॑नं॒ तं जि॑न्वथो वृषणा॒ पंच॑रश्मिं ॥सोमापूषणा रजसो विमानं सप्तचक्रं रथम् अविश्वमिन्वम् |
विषूवृतम् मनसा युज्यमानं तं जिन्वथो वृषणा पञ्चरश्मिम् ||sómāpūṣaṇā rájaso vimā́nam saptácakram ráthamáviśvaminvam ǀ
viṣūvṛ́tam mánasā yujyámānam tám jinvatho vṛṣaṇā páñcaraśmim ǁsomāpūṣaṇā rajaso vimānaṃ saptacakraṃ ratham aviśvaminvam |
viṣūvṛtam manasā yujyamānaṃ taṃ jinvatho vṛṣaṇā pañcaraśmim ||सोमा॑पूषणा । रज॑सः । वि॒ऽमान॑म् । स॒प्तऽच॑क्रम् । रथ॑म् । अवि॑श्वऽमिन्वम् ।
वि॒षु॒ऽवृत॑म् । मन॑सा । यु॒ज्यमा॑नम् । तम् । जि॒न्व॒थः॒ । वृ॒ष॒णा॒ । पञ्च॑ऽरश्मिम् ॥सोमापूषणा । रजसः । विऽमानम् । सप्तऽचक्रम् । रथम् । अविश्वऽमिन्वम् ।
विषुऽवृतम् । मनसा । युज्यमानम् । तम् । जिन्वथः । वृषणा । पञ्चऽरश्मिम् ॥sómāpūṣaṇā ǀ rájasaḥ ǀ vi-mā́nam ǀ saptá-cakram ǀ rátham ǀ áviśva-minvam ǀ
viṣu-vṛ́tam ǀ mánasā ǀ yujyámānam ǀ tám ǀ jinvathaḥ ǀ vṛṣaṇā ǀ páñca-raśmim ǁsomāpūṣaṇā ǀ rajasaḥ ǀ vi-mānam ǀ sapta-cakram ǀ ratham ǀ aviśva-minvam ǀ
viṣu-vṛtam ǀ manasā ǀ yujyamānam ǀ tam ǀ jinvathaḥ ǀ vṛṣaṇā ǀ pañca-raśmim ǁ2.40.3 Aṣṭaka 2.8.6.3Anuvāka 2.4.79
-
Ṛk 4
दि॒व्य१॒॑न्यः सद॑नं च॒क्र उ॒च्चा पृ॑थि॒व्याम॒न्यो अध्यं॒तरि॑क्षे ।
ताव॒स्मभ्यं॑ पुरु॒वारं॑ पुरु॒क्षुं रा॒यस्पोषं॒ वि ष्य॑तां॒ नाभि॑म॒स्मे ॥दिव्य् अन्यः सदनं चक्र उच्चा पृथिव्याम् अन्यो अध्य् अन्तरिक्षे |
ताव् अस्मभ्यम् पुरुवारम् पुरुक्षुं रायस् पोषं वि ष्यतां नाभिम् अस्मे ||divyányáḥ sádanam cakrá uccā́ pṛthivyā́manyó ádhyantárikṣe ǀ
tā́vasmábhyam puruvā́ram purukṣúm rāyáspóṣam ví ṣyatām nā́bhimasmé ǁdivy anyaḥ sadanaṃ cakra uccā pṛthivyām anyo adhy antarikṣe |
tāv asmabhyam puruvāram purukṣuṃ rāyas poṣaṃ vi ṣyatāṃ nābhim asme ||दि॒वि । अ॒न्यः । सद॑नम् । च॒क्रे । उ॒च्चा । पृ॒थि॒व्याम् । अ॒न्यः । अधि॑ । अ॒न्तरि॑क्षे ।
तौ । अ॒स्मभ्य॑म् । पु॒रु॒ऽवार॑म् । पु॒रु॒ऽक्षुम् । रा॒यः । पोष॑म् । वि । स्य॒ता॒म् । नाभि॑म् । अ॒स्मे इति॑ ॥दिवि । अन्यः । सदनम् । चक्रे । उच्चा । पृथिव्याम् । अन्यः । अधि । अन्तरिक्षे ।
तौ । अस्मभ्यम् । पुरुऽवारम् । पुरुऽक्षुम् । रायः । पोषम् । वि । स्यताम् । नाभिम् । अस्मे इति ॥diví ǀ anyáḥ ǀ sádanam ǀ cakré ǀ uccā́ ǀ pṛthivyā́m ǀ anyáḥ ǀ ádhi ǀ antárikṣe ǀ
táu ǀ asmábhyam ǀ puru-vā́ram ǀ puru-kṣúm ǀ rāyáḥ ǀ póṣam ǀ ví ǀ syatām ǀ nā́bhim ǀ asmé íti ǁdivi ǀ anyaḥ ǀ sadanam ǀ cakre ǀ uccā ǀ pṛthivyām ǀ anyaḥ ǀ adhi ǀ antarikṣe ǀ
tau ǀ asmabhyam ǀ puru-vāram ǀ puru-kṣum ǀ rāyaḥ ǀ poṣam ǀ vi ǀ syatām ǀ nābhim ǀ asme iti ǁ2.40.4 Aṣṭaka 2.8.6.4Anuvāka 2.4.80
-
Ṛk 5
विश्वा॑न्य॒न्यो भुव॑ना ज॒जान॒ विश्व॑म॒न्यो अ॑भि॒चक्षा॑ण एति ।
सोमा॑पूषणा॒वव॑तं॒ धियं॑ मे यु॒वाभ्यां॒ विश्वाः॒ पृत॑ना जयेम ॥विश्वान्य् अन्यो भुवना जजान विश्वम् अन्यो अभिचक्षाण एति |
सोमापूषणाव् अवतं धियम् मे युवाभ्यां विश्वाः पृतना जयेम ||víśvānyanyó bhúvanā jajā́na víśvamanyó abhicákṣāṇa eti ǀ
sómāpūṣaṇāvávatam dhíyam me yuvā́bhyām víśvāḥ pṛ́tanā jayema ǁviśvāny anyo bhuvanā jajāna viśvam anyo abhicakṣāṇa eti |
somāpūṣaṇāv avataṃ dhiyam me yuvābhyāṃ viśvāḥ pṛtanā jayema ||विश्वा॑नि । अ॒न्यः । भुव॑ना । ज॒जान॑ । विश्व॑म् । अ॒न्यः । अ॒भि॒ऽचक्षा॑णः । ए॒ति॒ ।
सोमा॑पूषणौ । अव॑तम् । धिय॑म् । मे॒ । यु॒वाभ्या॑म् । विश्वाः॑ । पृत॑नाः । ज॒ये॒म॒ ॥विश्वानि । अन्यः । भुवना । जजान । विश्वम् । अन्यः । अभिऽचक्षाणः । एति ।
सोमापूषणौ । अवतम् । धियम् । मे । युवाभ्याम् । विश्वाः । पृतनाः । जयेम ॥víśvāni ǀ anyáḥ ǀ bhúvanā ǀ jajā́na ǀ víśvam ǀ anyáḥ ǀ abhi-cákṣāṇaḥ ǀ eti ǀ
sómāpūṣaṇau ǀ ávatam ǀ dhíyam ǀ me ǀ yuvā́bhyām ǀ víśvāḥ ǀ pṛ́tanāḥ ǀ jayema ǁviśvāni ǀ anyaḥ ǀ bhuvanā ǀ jajāna ǀ viśvam ǀ anyaḥ ǀ abhi-cakṣāṇaḥ ǀ eti ǀ
somāpūṣaṇau ǀ avatam ǀ dhiyam ǀ me ǀ yuvābhyām ǀ viśvāḥ ǀ pṛtanāḥ ǀ jayema ǁ2.40.5 Aṣṭaka 2.8.6.5Anuvāka 2.4.81
-
Ṛk 6
धियं॑ पू॒षा जि॑न्वतु विश्वमि॒न्वो र॒यिं सोमो॑ रयि॒पति॑र्दधातु ।
अव॑तु दे॒व्यदि॑तिरन॒र्वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥धियम् पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर् दधातु |
अवतु देव्य् अदितिर् अनर्वा बृहद् वदेम विदथे सुवीराः ||dhíyam pūṣā́ jinvatu viśvaminvó rayím sómo rayipátirdadhātu ǀ
ávatu devyáditiranarvā́ bṛhádvadema vidáthe suvī́rāḥ ǁdhiyam pūṣā jinvatu viśvaminvo rayiṃ somo rayipatir dadhātu |
avatu devy aditir anarvā bṛhad vadema vidathe suvīrāḥ ||धिय॑म् । पू॒षा । जि॒न्व॒तु॒ । वि॒श्व॒म्ऽइ॒न्वः । र॒यिम् । सोमः॑ । र॒यि॒ऽपतिः॑ । द॒धा॒तु॒ ।
अव॑तु । दे॒वी । अदि॑तिः । अ॒न॒र्वा । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥धियम् । पूषा । जिन्वतु । विश्वम्ऽइन्वः । रयिम् । सोमः । रयिऽपतिः । दधातु ।
अवतु । देवी । अदितिः । अनर्वा । बृहत् । वदेम । विदथे । सुऽवीराः ॥dhíyam ǀ pūṣā́ ǀ jinvatu ǀ viśvam-inváḥ ǀ rayím ǀ sómaḥ ǀ rayi-pátiḥ ǀ dadhātu ǀ
ávatu ǀ devī́ ǀ áditiḥ ǀ anarvā́ ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁdhiyam ǀ pūṣā ǀ jinvatu ǀ viśvam-invaḥ ǀ rayim ǀ somaḥ ǀ rayi-patiḥ ǀ dadhātu ǀ
avatu ǀ devī ǀ aditiḥ ǀ anarvā ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ2.40.6 Aṣṭaka 2.8.6.6Anuvāka 2.4.82
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.