Ṛk 2.40.2
Saṃhitā
इ॒मौ दे॒वौ जाय॑मानौ जुषंते॒मौ तमां॑सि गूहता॒मजु॑ष्टा ।
आ॒भ्यामिंद्रः॑ प॒क्वमा॒मास्वं॒तः सो॑मापू॒षभ्यां॑ जनदु॒स्रिया॑सु ॥
इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहताम् अजुष्टा |
आभ्याम् इन्द्रः पक्वम् आमास्व् अन्तः सोमापूषभ्यां जनद् उस्रियासु ||
imáu deváu jā́yamānau juṣantemáu támāṃsi gūhatāmájuṣṭā ǀ
ābhyā́míndraḥ pakvámāmā́svantáḥ somāpūṣábhyām janadusríyāsu ǁ
imau devau jāyamānau juṣantemau tamāṃsi gūhatām ajuṣṭā |
ābhyām indraḥ pakvam āmāsv antaḥ somāpūṣabhyāṃ janad usriyāsu ||
Padapāṭha
इ॒मौ । दे॒वौ । जाय॑मानौ । जु॒ष॒न्त॒ । इ॒मौ । तमां॑सि । गू॒ह॒ता॒म् । अजु॑ष्टा ।
आ॒भ्याम् । इन्द्रः॑ । प॒क्वम् । आ॒मासु॑ । अ॒न्तरिति॑ । सो॒मा॒पू॒षऽभ्या॑म् । ज॒न॒त् । उ॒स्रिया॑सु ॥
इमौ । देवौ । जायमानौ । जुषन्त । इमौ । तमांसि । गूहताम् । अजुष्टा ।
आभ्याम् । इन्द्रः । पक्वम् । आमासु । अन्तरिति । सोमापूषऽभ्याम् । जनत् । उस्रियासु ॥
imáu ǀ deváu ǀ jā́yamānau ǀ juṣanta ǀ imáu ǀ támāṃsi ǀ gūhatām ǀ ájuṣṭā ǀ
ābhyā́m ǀ índraḥ ǀ pakvám ǀ āmā́su ǀ antáríti ǀ somāpūṣá-bhyām ǀ janat ǀ usríyāsu ǁ
imau ǀ devau ǀ jāyamānau ǀ juṣanta ǀ imau ǀ tamāṃsi ǀ gūhatām ǀ ajuṣṭā ǀ
ābhyām ǀ indraḥ ǀ pakvam ǀ āmāsu ǀ antariti ǀ somāpūṣa-bhyām ǀ janat ǀ usriyāsu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.040.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.06.02
- Maṇḍala · Anuvāka · Ṛk
- 02.04.078
- Devatā देवता
- 1, 3-5: Pūṣan, Soma; 2: Indra, Pūṣan, Soma; 6: Soma, Pūṣan (A); Aditi (B)
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.