Ṛk 2.40.4
Saṃhitā
दि॒व्य१॒॑न्यः सद॑नं च॒क्र उ॒च्चा पृ॑थि॒व्याम॒न्यो अध्यं॒तरि॑क्षे ।
ताव॒स्मभ्यं॑ पुरु॒वारं॑ पुरु॒क्षुं रा॒यस्पोषं॒ वि ष्य॑तां॒ नाभि॑म॒स्मे ॥
दिव्य् अन्यः सदनं चक्र उच्चा पृथिव्याम् अन्यो अध्य् अन्तरिक्षे |
ताव् अस्मभ्यम् पुरुवारम् पुरुक्षुं रायस् पोषं वि ष्यतां नाभिम् अस्मे ||
divyányáḥ sádanam cakrá uccā́ pṛthivyā́manyó ádhyantárikṣe ǀ
tā́vasmábhyam puruvā́ram purukṣúm rāyáspóṣam ví ṣyatām nā́bhimasmé ǁ
divy anyaḥ sadanaṃ cakra uccā pṛthivyām anyo adhy antarikṣe |
tāv asmabhyam puruvāram purukṣuṃ rāyas poṣaṃ vi ṣyatāṃ nābhim asme ||
Padapāṭha
दि॒वि । अ॒न्यः । सद॑नम् । च॒क्रे । उ॒च्चा । पृ॒थि॒व्याम् । अ॒न्यः । अधि॑ । अ॒न्तरि॑क्षे ।
तौ । अ॒स्मभ्य॑म् । पु॒रु॒ऽवार॑म् । पु॒रु॒ऽक्षुम् । रा॒यः । पोष॑म् । वि । स्य॒ता॒म् । नाभि॑म् । अ॒स्मे इति॑ ॥
दिवि । अन्यः । सदनम् । चक्रे । उच्चा । पृथिव्याम् । अन्यः । अधि । अन्तरिक्षे ।
तौ । अस्मभ्यम् । पुरुऽवारम् । पुरुऽक्षुम् । रायः । पोषम् । वि । स्यताम् । नाभिम् । अस्मे इति ॥
diví ǀ anyáḥ ǀ sádanam ǀ cakré ǀ uccā́ ǀ pṛthivyā́m ǀ anyáḥ ǀ ádhi ǀ antárikṣe ǀ
táu ǀ asmábhyam ǀ puru-vā́ram ǀ puru-kṣúm ǀ rāyáḥ ǀ póṣam ǀ ví ǀ syatām ǀ nā́bhim ǀ asmé íti ǁ
divi ǀ anyaḥ ǀ sadanam ǀ cakre ǀ uccā ǀ pṛthivyām ǀ anyaḥ ǀ adhi ǀ antarikṣe ǀ
tau ǀ asmabhyam ǀ puru-vāram ǀ puru-kṣum ǀ rāyaḥ ǀ poṣam ǀ vi ǀ syatām ǀ nābhim ǀ asme iti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.040.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.8.06.04
- Maṇḍala · Anuvāka · Ṛk
- 02.04.080
- Devatā देवता
- 1, 3-5: Pūṣan, Soma; 2: Indra, Pūṣan, Soma; 6: Soma, Pūṣan (A); Aditi (B)
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.