Ṛgveda · Maṇḍala 2

Sūkta 12

Indra · Gṛtsamada Bhārgava Śaunaka · 15 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Gṛtsamada Bhārgava Śaunaka
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles triṣṭup (1-5, 12-15); nicṛttriṣṭup (6-8, 10, 11); bhuriktriṣṭup (9)

2nd set of styles triṣṭubh

  1. Ṛk 1

    यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वांदे॒वो दे॒वान्क्रतु॑ना प॒र्यभू॑षत् ।
    यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेतां नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इंद्रः॑ ॥

    यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् |
    यस्य शुष्माद् रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ||

    yó jātá evá prathamó mánasvāndevó devā́nkrátunā paryábhūṣat ǀ
    yásya śúṣmādródasī ábhyasetām nṛmṇásya mahnā́ sá janāsa índraḥ ǁ

    yo jāta eva prathamo manasvān devo devān kratunā paryabhūṣat |
    yasya śuṣmād rodasī abhyasetāṃ nṛmṇasya mahnā sa janāsa indraḥ ||

    यः । जा॒तः । ए॒व । प्र॒थ॒मः । मन॑स्वान् । दे॒वः । दे॒वान् । क्रतु॑ना । प॒रि॒ऽअभू॑षत् ।
    यस्य॑ । शुष्मा॑त् । रोद॑सी॒ इति॑ । अभ्य॑सेताम् । नृ॒म्णस्य॑ । म॒ह्ना । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

    यः । जातः । एव । प्रथमः । मनस्वान् । देवः । देवान् । क्रतुना । परिऽअभूषत् ।
    यस्य । शुष्मात् । रोदसी इति । अभ्यसेताम् । नृम्णस्य । मह्ना । सः । जनासः । इन्द्रः ॥

    yáḥ ǀ jātáḥ ǀ evá ǀ prathamáḥ ǀ mánasvān ǀ deváḥ ǀ devā́n ǀ krátunā ǀ pari-ábhūṣat ǀ
    yásya ǀ śúṣmāt ǀ ródasī íti ǀ ábhyasetām ǀ nṛmṇásya ǀ mahnā́ ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ

    yaḥ ǀ jātaḥ ǀ eva ǀ prathamaḥ ǀ manasvān ǀ devaḥ ǀ devān ǀ kratunā ǀ pari-abhūṣat ǀ
    yasya ǀ śuṣmāt ǀ rodasī iti ǀ abhyasetām ǀ nṛmṇasya ǀ mahnā ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ

    2.12.1 Aṣṭaka 2.6.7.1Anuvāka 2.2.1

  2. Ṛk 2

    यः पृ॑थि॒वीं व्यथ॑माना॒मदृं॑ह॒द्यः पर्व॑ता॒न्प्रकु॑पिताँ॒ अर॑म्णात् ।
    यो अं॒तरि॑क्षं विम॒मे वरी॑यो॒ यो द्यामस्त॑भ्ना॒त्स ज॑नास॒ इंद्रः॑ ॥

    यः पृथिवीं व्यथमानाम् अदृंहद् यः पर्वतान् प्रकुपितां अरम्णात् |
    यो अन्तरिक्षं विममे वरीयो यो द्याम् अस्तभ्नात् स जनास इन्द्रः ||

    yáḥ pṛthivī́m vyáthamānāmádṛṃhadyáḥ párvatānprákupitām̐ áramṇāt ǀ
    yó antárikṣam vimamé várīyo yó dyā́mástabhnātsá janāsa índraḥ ǁ

    yaḥ pṛthivīṃ vyathamānām adṛṃhad yaḥ parvatān prakupitāṃ aramṇāt |
    yo antarikṣaṃ vimame varīyo yo dyām astabhnāt sa janāsa indraḥ ||

    यः । पृ॒थि॒वीम् । व्यथ॑मानाम् । अदृं॑हत् । यः । पर्व॑तान् । प्रऽकु॑पितान् । अर॑म्णात् ।
    यः । अ॒न्तरि॑क्षम् । वि॒ऽम॒मे । वरी॑यः । यः । द्याम् । अस्त॑भ्नात् । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

    यः । पृथिवीम् । व्यथमानाम् । अदृंहत् । यः । पर्वतान् । प्रऽकुपितान् । अरम्णात् ।
    यः । अन्तरिक्षम् । विऽममे । वरीयः । यः । द्याम् । अस्तभ्नात् । सः । जनासः । इन्द्रः ॥

    yáḥ ǀ pṛthivī́m ǀ vyáthamānām ǀ ádṛṃhat ǀ yáḥ ǀ párvatān ǀ prá-kupitān ǀ áramṇāt ǀ
    yáḥ ǀ antárikṣam ǀ vi-mamé ǀ várīyaḥ ǀ yáḥ ǀ dyā́m ǀ ástabhnāt ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ

    yaḥ ǀ pṛthivīm ǀ vyathamānām ǀ adṛṃhat ǀ yaḥ ǀ parvatān ǀ pra-kupitān ǀ aramṇāt ǀ
    yaḥ ǀ antarikṣam ǀ vi-mame ǀ varīyaḥ ǀ yaḥ ǀ dyām ǀ astabhnāt ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ

    2.12.2 Aṣṭaka 2.6.7.2Anuvāka 2.2.2

  3. Ṛk 3

    यो ह॒त्वाहि॒मरि॑णात्स॒प्त सिंधू॒न्यो गा उ॒दाज॑दप॒धा व॒लस्य॑ ।
    यो अश्म॑नोरं॒तर॒ग्निं ज॒जान॑ सं॒वृक्स॒मत्सु॒ स ज॑नास॒ इंद्रः॑ ॥

    यो हत्वाहिम् अरिणात् सप्त सिन्धून् यो गा उदाजद् अपधा वलस्य |
    यो अश्मनोर् अन्तर् अग्निं जजान संवृक् समत्सु स जनास इन्द्रः ||

    yó hatvā́himáriṇātsaptá síndhūnyó gā́ udā́jadapadhā́ valásya ǀ
    yó áśmanorantáragním jajā́na saṃvṛ́ksamátsu sá janāsa índraḥ ǁ

    yo hatvāhim ariṇāt sapta sindhūn yo gā udājad apadhā valasya |
    yo aśmanor antar agniṃ jajāna saṃvṛk samatsu sa janāsa indraḥ ||

    यः । ह॒त्वा । अहि॑म् । अरि॑णात् । स॒प्त । सिन्धू॑न् । यः । गाः । उ॒त्ऽआज॑त् । अ॒प॒ऽधा । व॒लस्य॑ ।
    यः । अश्म॑नोः । अ॒न्तः । अ॒ग्निम् । ज॒जान॑ । स॒म्ऽवृक् । स॒मत्ऽसु॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

    यः । हत्वा । अहिम् । अरिणात् । सप्त । सिन्धून् । यः । गाः । उत्ऽआजत् । अपऽधा । वलस्य ।
    यः । अश्मनोः । अन्तः । अग्निम् । जजान । सम्ऽवृक् । समत्ऽसु । सः । जनासः । इन्द्रः ॥

    yáḥ ǀ hatvā́ ǀ áhim ǀ áriṇāt ǀ saptá ǀ síndhūn ǀ yáḥ ǀ gā́ḥ ǀ ut-ā́jat ǀ apa-dhā́ ǀ valásya ǀ
    yáḥ ǀ áśmanoḥ ǀ antáḥ ǀ agním ǀ jajā́na ǀ sam-vṛ́k ǀ samát-su ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ

    yaḥ ǀ hatvā ǀ ahim ǀ ariṇāt ǀ sapta ǀ sindhūn ǀ yaḥ ǀ gāḥ ǀ ut-ājat ǀ apa-dhā ǀ valasya ǀ
    yaḥ ǀ aśmanoḥ ǀ antaḥ ǀ agnim ǀ jajāna ǀ sam-vṛk ǀ samat-su ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ

    2.12.3 Aṣṭaka 2.6.7.3Anuvāka 2.2.3

  4. Ṛk 4

    येने॒मा विश्वा॒ च्यव॑ना कृ॒तानि॒ यो दासं॒ वर्ण॒मध॑रं॒ गुहाकः॑ ।
    श्व॒घ्नीव॒ यो जि॑गी॒वां ल॒क्षमाद॑द॒र्यः पु॒ष्टानि॒ स ज॑नास॒ इंद्रः॑ ॥

    येनेमा विश्वा च्यवना कृतानि यो दासं वर्णम् अधरं गुहाकः |
    श्वघ्नीव यो जिगीवांल् लक्षम् आदद् अर्यः पुष्टानि स जनास इन्द्रः ||

    yénemā́ víśvā cyávanā kṛtā́ni yó dā́sam várṇamádharam gúhā́kaḥ ǀ
    śvaghnī́va yó jigīvā́m lakṣámā́dadaryáḥ puṣṭā́ni sá janāsa índraḥ ǁ

    yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇam adharaṃ guhākaḥ |
    śvaghnīva yo jigīvāṃl lakṣam ādad aryaḥ puṣṭāni sa janāsa indraḥ ||

    येन॑ । इ॒मा । विश्वा॑ । च्यव॑ना । कृ॒तानि॑ । यः । दास॑म् । वर्ण॑म् । अध॑रम् । गुहा॑ । अक॒रित्यकः॑ ।
    श्व॒घ्नीऽइ॑व । यः । जि॒गी॒वान् । ल॒क्षम् । आद॑त् । अ॒र्यः । पु॒ष्टानि॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

    येन । इमा । विश्वा । च्यवना । कृतानि । यः । दासम् । वर्णम् । अधरम् । गुहा । अकरित्यकः ।
    श्वघ्नीऽइव । यः । जिगीवान् । लक्षम् । आदत् । अर्यः । पुष्टानि । सः । जनासः । इन्द्रः ॥

    yéna ǀ imā́ ǀ víśvā ǀ cyávanā ǀ kṛtā́ni ǀ yáḥ ǀ dā́sam ǀ várṇam ǀ ádharam ǀ gúhā ǀ ákarítyakaḥ ǀ
    śvaghnī́-iva ǀ yáḥ ǀ jigīvā́n ǀ lakṣám ǀ ā́dat ǀ aryáḥ ǀ puṣṭā́ni ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ

    yena ǀ imā ǀ viśvā ǀ cyavanā ǀ kṛtāni ǀ yaḥ ǀ dāsam ǀ varṇam ǀ adharam ǀ guhā ǀ akarityakaḥ ǀ
    śvaghnī-iva ǀ yaḥ ǀ jigīvān ǀ lakṣam ǀ ādat ǀ aryaḥ ǀ puṣṭāni ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ

    2.12.4 Aṣṭaka 2.6.7.4Anuvāka 2.2.4

  5. Ṛk 5

    यं स्मा॑ पृ॒च्छंति॒ कुह॒ सेति॑ घो॒रमु॒तेमा॑हु॒र्नैषो अ॒स्तीत्ये॑नं ।
    सो अ॒र्यः पु॒ष्टीर्विज॑ इ॒वा मि॑नाति॒ श्रद॑स्मै धत्त॒ स ज॑नास॒ इंद्रः॑ ॥

    यं स्मा पृच्छन्ति कुह सेति घोरम् उतेम् आहुर् नैषो अस्तीत्य् एनम् |
    सो अर्यः पुष्टीर् विज इवा मिनाति श्रद् अस्मै धत्त स जनास इन्द्रः ||

    yám smā pṛcchánti kúha séti ghorámutémāhurnáiṣó astī́tyenam ǀ
    só aryáḥ puṣṭī́rvíja ivā́ mināti śrádasmai dhatta sá janāsa índraḥ ǁ

    yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam |
    so aryaḥ puṣṭīr vija ivā mināti śrad asmai dhatta sa janāsa indraḥ ||

    यम् । स्म॒ । पृ॒च्छन्ति॑ । कुह॑ । सः । इति॑ । घो॒रम् । उ॒त । ई॒म् । आ॒हुः॒ । न । ए॒षः । अ॒स्ति॒ । इति॑ । ए॒न॒म् ।
    सः । अ॒र्यः । पु॒ष्टीः । विजः॑ऽइव । आ । मि॒ना॒ति॒ । श्रत् । अ॒स्मै॒ । ध॒त्त॒ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

    यम् । स्म । पृच्छन्ति । कुह । सः । इति । घोरम् । उत । ईम् । आहुः । न । एषः । अस्ति । इति । एनम् ।
    सः । अर्यः । पुष्टीः । विजःऽइव । आ । मिनाति । श्रत् । अस्मै । धत्त । सः । जनासः । इन्द्रः ॥

    yám ǀ sma ǀ pṛcchánti ǀ kúha ǀ sáḥ ǀ íti ǀ ghorám ǀ utá ǀ īm ǀ āhuḥ ǀ ná ǀ eṣáḥ ǀ asti ǀ íti ǀ enam ǀ
    sáḥ ǀ aryáḥ ǀ puṣṭī́ḥ ǀ víjaḥ-iva ǀ ā́ ǀ mināti ǀ śrát ǀ asmai ǀ dhatta ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ

    yam ǀ sma ǀ pṛcchanti ǀ kuha ǀ saḥ ǀ iti ǀ ghoram ǀ uta ǀ īm ǀ āhuḥ ǀ na ǀ eṣaḥ ǀ asti ǀ iti ǀ enam ǀ
    saḥ ǀ aryaḥ ǀ puṣṭīḥ ǀ vijaḥ-iva ǀ ā ǀ mināti ǀ śrat ǀ asmai ǀ dhatta ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ

    2.12.5 Aṣṭaka 2.6.7.5Anuvāka 2.2.5

  6. Ṛk 6

    यो र॒ध्रस्य॑ चोदि॒ता यः कृ॒शस्य॒ यो ब्र॒ह्मणो॒ नाध॑मानस्य की॒रेः ।
    यु॒क्तग्रा॑व्णो॒ योऽवि॒ता सु॑शि॒प्रः सु॒तसो॑मस्य॒ स ज॑नास॒ इंद्रः॑ ॥

    यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः |
    युक्तग्राव्णो यो ऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ||

    yó radhrásya coditā́ yáḥ kṛśásya yó brahmáṇo nā́dhamānasya kīréḥ ǀ
    yuktágrāvṇo yó’vitā́ suśipráḥ sutásomasya sá janāsa índraḥ ǁ

    yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasya kīreḥ |
    yuktagrāvṇo yo 'vitā suśipraḥ sutasomasya sa janāsa indraḥ ||

    यः । र॒ध्रस्य॑ । चो॒दि॒ता । यः । कृ॒शस्य॑ । यः । ब्र॒ह्मणः॑ । नाध॑मानस्य । की॒रेः ।
    यु॒क्तऽग्रा॑व्णः । यः । अ॒वि॒ता । सु॒ऽशि॒प्रः । सु॒तऽसो॑मस्य । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

    यः । रध्रस्य । चोदिता । यः । कृशस्य । यः । ब्रह्मणः । नाधमानस्य । कीरेः ।
    युक्तऽग्राव्णः । यः । अविता । सुऽशिप्रः । सुतऽसोमस्य । सः । जनासः । इन्द्रः ॥

    yáḥ ǀ radhrásya ǀ coditā́ ǀ yáḥ ǀ kṛśásya ǀ yáḥ ǀ brahmáṇaḥ ǀ nā́dhamānasya ǀ kīréḥ ǀ
    yuktá-grāvṇaḥ ǀ yáḥ ǀ avitā́ ǀ su-śipráḥ ǀ sutá-somasya ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ

    yaḥ ǀ radhrasya ǀ coditā ǀ yaḥ ǀ kṛśasya ǀ yaḥ ǀ brahmaṇaḥ ǀ nādhamānasya ǀ kīreḥ ǀ
    yukta-grāvṇaḥ ǀ yaḥ ǀ avitā ǀ su-śipraḥ ǀ suta-somasya ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ

    2.12.6 Aṣṭaka 2.6.8.1Anuvāka 2.2.6

  7. Ṛk 7

    यस्याश्वा॑सः प्र॒दिशि॒ यस्य॒ गावो॒ यस्य॒ ग्रामा॒ यस्य॒ विश्वे॒ रथा॑सः ।
    यः सूर्यं॒ य उ॒षसं॑ ज॒जान॒ यो अ॒पां ने॒ता स ज॑नास॒ इंद्रः॑ ॥

    यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः |
    यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ||

    yásyā́śvāsaḥ pradíśi yásya gā́vo yásya grā́mā yásya víśve ráthāsaḥ ǀ
    yáḥ sū́ryam yá uṣásam jajā́na yó apā́m netā́ sá janāsa índraḥ ǁ

    yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ |
    yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā sa janāsa indraḥ ||

    यस्य॑ । अश्वा॑सः । प्र॒ऽदिशि॑ । यस्य॑ । गावः॑ । यस्य॑ । ग्रामाः॑ । यस्य॑ । विश्वे॑ । रथा॑सः ।
    यः । सूर्य॑म् । यः । उ॒षस॑म् । ज॒जान॑ । यः । अ॒पाम् । ने॒ता । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

    यस्य । अश्वासः । प्रऽदिशि । यस्य । गावः । यस्य । ग्रामाः । यस्य । विश्वे । रथासः ।
    यः । सूर्यम् । यः । उषसम् । जजान । यः । अपाम् । नेता । सः । जनासः । इन्द्रः ॥

    yásya ǀ áśvāsaḥ ǀ pra-díśi ǀ yásya ǀ gā́vaḥ ǀ yásya ǀ grā́māḥ ǀ yásya ǀ víśve ǀ ráthāsaḥ ǀ
    yáḥ ǀ sū́ryam ǀ yáḥ ǀ uṣásam ǀ jajā́na ǀ yáḥ ǀ apā́m ǀ netā́ ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ

    yasya ǀ aśvāsaḥ ǀ pra-diśi ǀ yasya ǀ gāvaḥ ǀ yasya ǀ grāmāḥ ǀ yasya ǀ viśve ǀ rathāsaḥ ǀ
    yaḥ ǀ sūryam ǀ yaḥ ǀ uṣasam ǀ jajāna ǀ yaḥ ǀ apām ǀ netā ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ

    2.12.7 Aṣṭaka 2.6.8.2Anuvāka 2.2.7

  8. Ṛk 8

    यं क्रंद॑सी संय॒ती वि॒ह्वये॑ते॒ परेऽव॑र उ॒भया॑ अ॒मित्राः॑ ।
    स॒मा॒नं चि॒द्रथ॑मातस्थि॒वांसा॒ नाना॑ हवेते॒ स ज॑नास॒ इंद्रः॑ ॥

    यं क्रन्दसी संयती विह्वयेते परे ऽवर उभया अमित्राः |
    समानं चिद् रथम् आतस्थिवांसा नाना हवेते स जनास इन्द्रः ||

    yám krándasī saṃyatī́ vihváyete páré’vara ubháyā amítrāḥ ǀ
    samānám cidráthamātasthivā́ṃsā nā́nā havete sá janāsa índraḥ ǁ

    yaṃ krandasī saṃyatī vihvayete pare 'vara ubhayā amitrāḥ |
    samānaṃ cid ratham ātasthivāṃsā nānā havete sa janāsa indraḥ ||

    यम् । क्रन्द॑सी॒ इति॑ । सं॒य॒ती इति॑ स॒म्ऽय॒ती । वि॒ह्वये॑ते॒ इति॑ वि॒ऽह्वये॑ते । परे॑ । अव॑रे । उ॒भयाः॑ । अ॒मित्राः॑ ।
    स॒मा॒नम् । चि॒त् । रथ॑म् । आ॒त॒स्थि॒ऽवांसा॑ । नाना॑ । ह॒वे॒ते॒ इति॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

    यम् । क्रन्दसी इति । संयती इति सम्ऽयती । विह्वयेते इति विऽह्वयेते । परे । अवरे । उभयाः । अमित्राः ।
    समानम् । चित् । रथम् । आतस्थिऽवांसा । नाना । हवेते इति । सः । जनासः । इन्द्रः ॥

    yám ǀ krándasī íti ǀ saṃyatī́ íti sam-yatī́ ǀ vihváyete íti vi-hváyete ǀ páre ǀ ávare ǀ ubháyāḥ ǀ amítrāḥ ǀ
    samānám ǀ cit ǀ rátham ǀ ātasthi-vā́ṃsā ǀ nā́nā ǀ havete íti ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ

    yam ǀ krandasī iti ǀ saṃyatī iti sam-yatī ǀ vihvayete iti vi-hvayete ǀ pare ǀ avare ǀ ubhayāḥ ǀ amitrāḥ ǀ
    samānam ǀ cit ǀ ratham ǀ ātasthi-vāṃsā ǀ nānā ǀ havete iti ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ

    2.12.8 Aṣṭaka 2.6.8.3Anuvāka 2.2.8

  9. Ṛk 9

    यस्मा॒न्न ऋ॒ते वि॒जयं॑ते॒ जना॑सो॒ यं युध्य॑माना॒ अव॑से॒ हवं॑ते ।
    यो विश्व॑स्य प्रति॒मानं॑ ब॒भूव॒ यो अ॑च्युत॒च्युत्स ज॑नास॒ इंद्रः॑ ॥

    यस्मान् न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते |
    यो विश्वस्य प्रतिमानम् बभूव यो अच्युतच्युत् स जनास इन्द्रः ||

    yásmānná ṛté vijáyante jánāso yám yúdhyamānā ávase hávante ǀ
    yó víśvasya pratimā́nam babhū́va yó acyutacyútsá janāsa índraḥ ǁ

    yasmān na ṛte vijayante janāso yaṃ yudhyamānā avase havante |
    yo viśvasya pratimānam babhūva yo acyutacyut sa janāsa indraḥ ||

    यस्मा॑त् । न । ऋ॒ते । वि॒ऽजय॑न्ते । जना॑सः । यम् । युध्य॑मानाः । अव॑से । हव॑न्ते ।
    यः । विश्व॑स्य । प्र॒ति॒ऽमान॑म् । ब॒भूव॑ । यः । अ॒च्यु॒त॒ऽच्युत् । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

    यस्मात् । न । ऋते । विऽजयन्ते । जनासः । यम् । युध्यमानाः । अवसे । हवन्ते ।
    यः । विश्वस्य । प्रतिऽमानम् । बभूव । यः । अच्युतऽच्युत् । सः । जनासः । इन्द्रः ॥

    yásmāt ǀ ná ǀ ṛté ǀ vi-jáyante ǀ jánāsaḥ ǀ yám ǀ yúdhyamānāḥ ǀ ávase ǀ hávante ǀ
    yáḥ ǀ víśvasya ǀ prati-mā́nam ǀ babhū́va ǀ yáḥ ǀ acyuta-cyút ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ

    yasmāt ǀ na ǀ ṛte ǀ vi-jayante ǀ janāsaḥ ǀ yam ǀ yudhyamānāḥ ǀ avase ǀ havante ǀ
    yaḥ ǀ viśvasya ǀ prati-mānam ǀ babhūva ǀ yaḥ ǀ acyuta-cyut ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ

    2.12.9 Aṣṭaka 2.6.8.4Anuvāka 2.2.9

  10. Ṛk 10

    यः शश्व॑तो॒ मह्येनो॒ दधा॑ना॒नम॑न्यमानां॒छर्वा॑ ज॒घान॑ ।
    यः शर्ध॑ते॒ नानु॒ददा॑ति शृ॒ध्यां यो दस्यो॑र्हं॒ता स ज॑नास॒ इंद्रः॑ ॥

    यः शश्वतो मह्य् एनो दधानान् अमन्यमानाञ् छर्वा जघान |
    यः शर्धते नानुददाति शृध्यां यो दस्योर् हन्ता स जनास इन्द्रः ||

    yáḥ śáśvato máhyéno dádhānānámanyamānāñchárvā jaghā́na ǀ
    yáḥ śárdhate nā́nudádāti śṛdhyā́m yó dásyorhantā́ sá janāsa índraḥ ǁ

    yaḥ śaśvato mahy eno dadhānān amanyamānāñ charvā jaghāna |
    yaḥ śardhate nānudadāti śṛdhyāṃ yo dasyor hantā sa janāsa indraḥ ||

    यः । शश्व॑तः । महि॑ । एनः॑ । दधा॑नान् । अम॑न्यमानान् । शर्वा॑ । ज॒घान॑ ।
    यः । शर्ध॑ते । न । अ॒नु॒ऽददा॑ति । शृ॒ध्याम् । यः । दस्योः॑ । ह॒न्ता । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

    यः । शश्वतः । महि । एनः । दधानान् । अमन्यमानान् । शर्वा । जघान ।
    यः । शर्धते । न । अनुऽददाति । शृध्याम् । यः । दस्योः । हन्ता । सः । जनासः । इन्द्रः ॥

    yáḥ ǀ śáśvataḥ ǀ máhi ǀ énaḥ ǀ dádhānān ǀ ámanyamānān ǀ śárvā ǀ jaghā́na ǀ
    yáḥ ǀ śárdhate ǀ ná ǀ anu-dádāti ǀ śṛdhyā́m ǀ yáḥ ǀ dásyoḥ ǀ hantā́ ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ

    yaḥ ǀ śaśvataḥ ǀ mahi ǀ enaḥ ǀ dadhānān ǀ amanyamānān ǀ śarvā ǀ jaghāna ǀ
    yaḥ ǀ śardhate ǀ na ǀ anu-dadāti ǀ śṛdhyām ǀ yaḥ ǀ dasyoḥ ǀ hantā ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ

    2.12.10 Aṣṭaka 2.6.8.5Anuvāka 2.2.10

  11. Ṛk 11

    यः शंब॑रं॒ पर्व॑तेषु क्षि॒यंतं॑ चत्वारिं॒श्यां श॒रद्य॒न्वविं॑दत् ।
    ओ॒जा॒यमा॑नं॒ यो अहिं॑ ज॒घान॒ दानुं॒ शया॑नं॒ स ज॑नास॒ इंद्रः॑ ॥

    यः शम्बरम् पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्य् अन्वविन्दत् |
    ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ||

    yáḥ śámbaram párvateṣu kṣiyántam catvāriṃśyā́m śarádyanvávindat ǀ
    ojāyámānam yó áhim jaghā́na dā́num śáyānam sá janāsa índraḥ ǁ

    yaḥ śambaram parvateṣu kṣiyantaṃ catvāriṃśyāṃ śarady anvavindat |
    ojāyamānaṃ yo ahiṃ jaghāna dānuṃ śayānaṃ sa janāsa indraḥ ||

    यः । शम्ब॑रम् । पर्व॑तेषु । क्षि॒यन्त॑म् । च॒त्वा॒रिं॒श्याम् । श॒रदि॑ । अ॒नु॒ऽअवि॑न्दत् ।
    ओ॒जा॒यमा॑नम् । यः । अहि॑म् । ज॒घान॑ । दानु॑म् । शया॑नम् । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

    यः । शम्बरम् । पर्वतेषु । क्षियन्तम् । चत्वारिंश्याम् । शरदि । अनुऽअविन्दत् ।
    ओजायमानम् । यः । अहिम् । जघान । दानुम् । शयानम् । सः । जनासः । इन्द्रः ॥

    yáḥ ǀ śámbaram ǀ párvateṣu ǀ kṣiyántam ǀ catvāriṃśyā́m ǀ śarádi ǀ anu-ávindat ǀ
    ojāyámānam ǀ yáḥ ǀ áhim ǀ jaghā́na ǀ dā́num ǀ śáyānam ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ

    yaḥ ǀ śambaram ǀ parvateṣu ǀ kṣiyantam ǀ catvāriṃśyām ǀ śaradi ǀ anu-avindat ǀ
    ojāyamānam ǀ yaḥ ǀ ahim ǀ jaghāna ǀ dānum ǀ śayānam ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ

    2.12.11 Aṣṭaka 2.6.9.1Anuvāka 2.2.11

  12. Ṛk 12

    यः स॒प्तर॑श्मिर्वृष॒भस्तुवि॑ष्मान॒वासृ॑ज॒त्सर्त॑वे स॒प्त सिंधू॑न् ।
    यो रौ॑हि॒णमस्फु॑र॒द्वज्र॑बाहु॒र्द्यामा॒रोहं॑तं॒ स ज॑नास॒ इंद्रः॑ ॥

    यः सप्तरश्मिर् वृषभस् तुविष्मान् अवासृजत् सर्तवे सप्त सिन्धून् |
    यो रौहिणम् अस्फुरद् वज्रबाहुर् द्याम् आरोहन्तं स जनास इन्द्रः ||

    yáḥ saptáraśmirvṛṣabhástúviṣmānavā́sṛjatsártave saptá síndhūn ǀ
    yó rauhiṇámásphuradvájrabāhurdyā́māróhantam sá janāsa índraḥ ǁ

    yaḥ saptaraśmir vṛṣabhas tuviṣmān avāsṛjat sartave sapta sindhūn |
    yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indraḥ ||

    यः । स॒प्तऽर॑श्मिः । वृ॒ष॒भः । तुवि॑ष्मान् । अ॒व॒ऽअसृ॑जत् । सर्त॑वे । स॒प्त । सिन्धू॑न् ।
    यः । रौ॒हि॒णम् । अस्फु॑रत् । वज्र॑ऽबाहुः । द्याम् । आ॒ऽरोह॑न्तम् । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

    यः । सप्तऽरश्मिः । वृषभः । तुविष्मान् । अवऽअसृजत् । सर्तवे । सप्त । सिन्धून् ।
    यः । रौहिणम् । अस्फुरत् । वज्रऽबाहुः । द्याम् । आऽरोहन्तम् । सः । जनासः । इन्द्रः ॥

    yáḥ ǀ saptá-raśmiḥ ǀ vṛṣabháḥ ǀ túviṣmān ǀ ava-ásṛjat ǀ sártave ǀ saptá ǀ síndhūn ǀ
    yáḥ ǀ rauhiṇám ǀ ásphurat ǀ vájra-bāhuḥ ǀ dyā́m ǀ ā-róhantam ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ

    yaḥ ǀ sapta-raśmiḥ ǀ vṛṣabhaḥ ǀ tuviṣmān ǀ ava-asṛjat ǀ sartave ǀ sapta ǀ sindhūn ǀ
    yaḥ ǀ rauhiṇam ǀ asphurat ǀ vajra-bāhuḥ ǀ dyām ǀ ā-rohantam ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ

    2.12.12 Aṣṭaka 2.6.9.2Anuvāka 2.2.12

  13. Ṛk 13

    द्यावा॑ चिदस्मै पृथि॒वी न॑मेते॒ शुष्मा॑च्चिदस्य॒ पर्व॑ता भयंते ।
    यः सो॑म॒पा नि॑चि॒तो वज्र॑बाहु॒र्यो वज्र॑हस्तः॒ स ज॑नास॒ इंद्रः॑ ॥

    द्यावा चिद् अस्मै पृथिवी नमेते शुष्माच् चिद् अस्य पर्वता भयन्ते |
    यः सोमपा निचितो वज्रबाहुर् यो वज्रहस्तः स जनास इन्द्रः ||

    dyā́vā cidasmai pṛthivī́ namete śúṣmāccidasya párvatā bhayante ǀ
    yáḥ somapā́ nicitó vájrabāhuryó vájrahastaḥ sá janāsa índraḥ ǁ

    dyāvā cid asmai pṛthivī namete śuṣmāc cid asya parvatā bhayante |
    yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ ||

    द्यावा॑ । चि॒त् । अ॒स्मै॒ । पृ॒थि॒वी इति॑ । न॒मे॒ते॒ इति॑ । शुष्मा॑त् । चि॒त् । अ॒स्य॒ । पर्व॑ताः । भ॒य॒न्ते॒ ।
    यः । सो॒म॒ऽपाः । नि॒ऽचि॒तः । वज्र॑ऽबाहुः । यः । वज्र॑ऽहस्तः । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

    द्यावा । चित् । अस्मै । पृथिवी इति । नमेते इति । शुष्मात् । चित् । अस्य । पर्वताः । भयन्ते ।
    यः । सोमऽपाः । निऽचितः । वज्रऽबाहुः । यः । वज्रऽहस्तः । सः । जनासः । इन्द्रः ॥

    dyā́vā ǀ cit ǀ asmai ǀ pṛthivī́ íti ǀ namete íti ǀ śúṣmāt ǀ cit ǀ asya ǀ párvatāḥ ǀ bhayante ǀ
    yáḥ ǀ soma-pā́ḥ ǀ ni-citáḥ ǀ vájra-bāhuḥ ǀ yáḥ ǀ vájra-hastaḥ ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ

    dyāvā ǀ cit ǀ asmai ǀ pṛthivī iti ǀ namete iti ǀ śuṣmāt ǀ cit ǀ asya ǀ parvatāḥ ǀ bhayante ǀ
    yaḥ ǀ soma-pāḥ ǀ ni-citaḥ ǀ vajra-bāhuḥ ǀ yaḥ ǀ vajra-hastaḥ ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ

    2.12.13 Aṣṭaka 2.6.9.3Anuvāka 2.2.13

  14. Ṛk 14

    यः सु॒न्वंत॒मव॑ति॒ यः पचं॑तं॒ यः शंसं॑तं॒ यः श॑शमा॒नमू॒ती ।
    यस्य॒ ब्रह्म॒ वर्ध॑नं॒ यस्य॒ सोमो॒ यस्ये॒दं राधः॒ स ज॑नास॒ इंद्रः॑ ॥

    यः सुन्वन्तम् अवति यः पचन्तं यः शंसन्तं यः शशमानम् ऊती |
    यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ||

    yáḥ sunvántamávati yáḥ pácantam yáḥ śáṃsantam yáḥ śaśamānámūtī́ ǀ
    yásya bráhma várdhanam yásya sómo yásyedám rā́dhaḥ sá janāsa índraḥ ǁ

    yaḥ sunvantam avati yaḥ pacantaṃ yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī |
    yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ sa janāsa indraḥ ||

    यः । सु॒न्वन्त॑म् । अव॑ति । यः । पच॑न्तम् । यः । शंस॑न्तम् । यः । श॒श॒मा॒नम् । ऊ॒ती ।
    यस्य॑ । ब्रह्म॑ । वर्ध॑नम् । यस्य॑ । सोमः॑ । यस्य॑ । इ॒दम् । राधः॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

    यः । सुन्वन्तम् । अवति । यः । पचन्तम् । यः । शंसन्तम् । यः । शशमानम् । ऊती ।
    यस्य । ब्रह्म । वर्धनम् । यस्य । सोमः । यस्य । इदम् । राधः । सः । जनासः । इन्द्रः ॥

    yáḥ ǀ sunvántam ǀ ávati ǀ yáḥ ǀ pácantam ǀ yáḥ ǀ śáṃsantam ǀ yáḥ ǀ śaśamānám ǀ ūtī́ ǀ
    yásya ǀ bráhma ǀ várdhanam ǀ yásya ǀ sómaḥ ǀ yásya ǀ idám ǀ rā́dhaḥ ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ

    yaḥ ǀ sunvantam ǀ avati ǀ yaḥ ǀ pacantam ǀ yaḥ ǀ śaṃsantam ǀ yaḥ ǀ śaśamānam ǀ ūtī ǀ
    yasya ǀ brahma ǀ vardhanam ǀ yasya ǀ somaḥ ǀ yasya ǀ idam ǀ rādhaḥ ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ

    2.12.14 Aṣṭaka 2.6.9.4Anuvāka 2.2.14

  15. Ṛk 15

    यः सु॑न्व॒ते पच॑ते दु॒ध्र आ चि॒द्वाजं॒ दर्द॑र्षि॒ स किला॑सि स॒त्यः ।
    व॒यं त॑ इंद्र वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥

    यः सुन्वते पचते दुध्र आ चिद् वाजं दर्दर्षि स किलासि सत्यः |
    वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथम् आ वदेम ||

    yáḥ sunvaté pácate dudhrá ā́ cidvā́jam dárdarṣi sá kílāsi satyáḥ ǀ
    vayám ta indra viśváha priyā́saḥ suvī́rāso vidáthamā́ vadema ǁ

    yaḥ sunvate pacate dudhra ā cid vājaṃ dardarṣi sa kilāsi satyaḥ |
    vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidatham ā vadema ||

    यः । सु॒न्व॒ते । पच॑ते । दु॒ध्रः । आ । चि॒त् । वाज॑म् । दर्द॑र्षि । सः । किल॑ । अ॒सि॒ । स॒त्यः ।
    व॒यम् । ते॒ । इ॒न्द्र॒ । वि॒श्वह॑ । प्रि॒यासः॑ । सु॒ऽवीरा॑सः । वि॒दथ॑म् । आ । व॒दे॒म॒ ॥

    यः । सुन्वते । पचते । दुध्रः । आ । चित् । वाजम् । दर्दर्षि । सः । किल । असि । सत्यः ।
    वयम् । ते । इन्द्र । विश्वह । प्रियासः । सुऽवीरासः । विदथम् । आ । वदेम ॥

    yáḥ ǀ sunvaté ǀ pácate ǀ dudhráḥ ǀ ā́ ǀ cit ǀ vā́jam ǀ dárdarṣi ǀ sáḥ ǀ kíla ǀ asi ǀ satyáḥ ǀ
    vayám ǀ te ǀ indra ǀ viśváha ǀ priyā́saḥ ǀ su-vī́rāsaḥ ǀ vidátham ǀ ā́ ǀ vadema ǁ

    yaḥ ǀ sunvate ǀ pacate ǀ dudhraḥ ǀ ā ǀ cit ǀ vājam ǀ dardarṣi ǀ saḥ ǀ kila ǀ asi ǀ satyaḥ ǀ
    vayam ǀ te ǀ indra ǀ viśvaha ǀ priyāsaḥ ǀ su-vīrāsaḥ ǀ vidatham ǀ ā ǀ vadema ǁ

    2.12.15 Aṣṭaka 2.6.9.5Anuvāka 2.2.15

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 2.12 · Indra

Interpretations

Ralph T. H. Griffith

Ṛk 1

HE who, just born, chief God of lofty spirit by power and might became the Gods’ protector, Before whose breath through greatness of his valour the two worlds trembled, He, O men, is Indra.

Ṛk 2

He who fixed fast and firm the earth that staggered, and set at rest the agitated mountains, Who measured out the air's wide middle region and gave the heaven support, He, men, is Indra.

Ṛk 3

Who slew the Dragon, freed the Seven Rivers, and drove the kine forth from the cave of Vala, Begat the fire between two stones, the spoiler in warriors’ battle, He, O men, is Indra.

Ṛk 4

By whom this universe was made to tremble, who chased away the humbled brood of demons, Who, like a gambler gathering his winnings seized the foe's riches, He, O men, is Indra.

Ṛk 5

Of whom, the Terrible, they ask, Where is He? or verily they say of him, He is not. He sweeps away, like birds, the foe's possessions. Have faith in him, for He, O men, is Indra.

Ṛk 6

Stirrer to action of the poor and lowly, of priest, of suppliant who sings his praises; Who, fair-faced, favours him who presses Soma with stones made ready, He, O men, is Indra.

Ṛk 7

He under whose supreme control are horses, all chariots, and the villages, and cattle; He who gave being to the Sun and Morning, who leads the waters, He, O men, is Indra.

Ṛk 8

To whom two armies cry in close encounter, both enemies, the stronger and the weaker; Whom two invoke upon one chariot mounted, each for himself, He, O ye men, is Indra.

Ṛk 9

Without whose help our people never conquer; whom, battling, they invoke to give them succour; He of whom all this world is but the copy, who shakes things moveless, He, O men, is Indra.

Ṛk 10

He who hath smitten, ere they knew their danger, with his hurled weapon many grievous sinners; Who pardons not his boldness who provokes him, who slays the Dasyu, He, O men, is Indra.

Ṛk 11

He who discovered in the fortieth autumn Śambara as he dwelt among the mountains; Who slew the Dragon putting forth his vigour, the demon lying there, He, men, is Indra.

Ṛk 12

Who with seven guiding reins, the Bull, the Mighty, set free the Seven great Floods to flow at pleasure; Who, thunder-armed, rent Rauhiṇa in pieces when scaling heaven, He, O ye men, is Indra.

Ṛk 13

Even the Heaven and Earth bow down before him, before his very breath the mountains tremble. Known as the Soma-drinker, armed with thunder, who wields the bolt, He, O ye men, is Indra.

Ṛk 14

Who aids with favour him who pours the Soma and him who brews it, sacrificer, singer. Whom prayer exalts, and pouring forth of Soma, and this our gift, He, O ye men, Is Indra.