Ṛk 2.12.5
Saṃhitā
यं स्मा॑ पृ॒च्छंति॒ कुह॒ सेति॑ घो॒रमु॒तेमा॑हु॒र्नैषो अ॒स्तीत्ये॑नं ।
सो अ॒र्यः पु॒ष्टीर्विज॑ इ॒वा मि॑नाति॒ श्रद॑स्मै धत्त॒ स ज॑नास॒ इंद्रः॑ ॥
यं स्मा पृच्छन्ति कुह सेति घोरम् उतेम् आहुर् नैषो अस्तीत्य् एनम् |
सो अर्यः पुष्टीर् विज इवा मिनाति श्रद् अस्मै धत्त स जनास इन्द्रः ||
yám smā pṛcchánti kúha séti ghorámutémāhurnáiṣó astī́tyenam ǀ
só aryáḥ puṣṭī́rvíja ivā́ mināti śrádasmai dhatta sá janāsa índraḥ ǁ
yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam |
so aryaḥ puṣṭīr vija ivā mināti śrad asmai dhatta sa janāsa indraḥ ||
Padapāṭha
यम् । स्म॒ । पृ॒च्छन्ति॑ । कुह॑ । सः । इति॑ । घो॒रम् । उ॒त । ई॒म् । आ॒हुः॒ । न । ए॒षः । अ॒स्ति॒ । इति॑ । ए॒न॒म् ।
सः । अ॒र्यः । पु॒ष्टीः । विजः॑ऽइव । आ । मि॒ना॒ति॒ । श्रत् । अ॒स्मै॒ । ध॒त्त॒ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥
यम् । स्म । पृच्छन्ति । कुह । सः । इति । घोरम् । उत । ईम् । आहुः । न । एषः । अस्ति । इति । एनम् ।
सः । अर्यः । पुष्टीः । विजःऽइव । आ । मिनाति । श्रत् । अस्मै । धत्त । सः । जनासः । इन्द्रः ॥
yám ǀ sma ǀ pṛcchánti ǀ kúha ǀ sáḥ ǀ íti ǀ ghorám ǀ utá ǀ īm ǀ āhuḥ ǀ ná ǀ eṣáḥ ǀ asti ǀ íti ǀ enam ǀ
sáḥ ǀ aryáḥ ǀ puṣṭī́ḥ ǀ víjaḥ-iva ǀ ā́ ǀ mināti ǀ śrát ǀ asmai ǀ dhatta ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ
yam ǀ sma ǀ pṛcchanti ǀ kuha ǀ saḥ ǀ iti ǀ ghoram ǀ uta ǀ īm ǀ āhuḥ ǀ na ǀ eṣaḥ ǀ asti ǀ iti ǀ enam ǀ
saḥ ǀ aryaḥ ǀ puṣṭīḥ ǀ vijaḥ-iva ǀ ā ǀ mināti ǀ śrat ǀ asmai ǀ dhatta ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.012.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.07.05
- Maṇḍala · Anuvāka · Ṛk
- 02.02.005
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.