Ṛk 2.12.2
Saṃhitā
यः पृ॑थि॒वीं व्यथ॑माना॒मदृं॑ह॒द्यः पर्व॑ता॒न्प्रकु॑पिताँ॒ अर॑म्णात् ।
यो अं॒तरि॑क्षं विम॒मे वरी॑यो॒ यो द्यामस्त॑भ्ना॒त्स ज॑नास॒ इंद्रः॑ ॥
यः पृथिवीं व्यथमानाम् अदृंहद् यः पर्वतान् प्रकुपितां अरम्णात् |
यो अन्तरिक्षं विममे वरीयो यो द्याम् अस्तभ्नात् स जनास इन्द्रः ||
yáḥ pṛthivī́m vyáthamānāmádṛṃhadyáḥ párvatānprákupitām̐ áramṇāt ǀ
yó antárikṣam vimamé várīyo yó dyā́mástabhnātsá janāsa índraḥ ǁ
yaḥ pṛthivīṃ vyathamānām adṛṃhad yaḥ parvatān prakupitāṃ aramṇāt |
yo antarikṣaṃ vimame varīyo yo dyām astabhnāt sa janāsa indraḥ ||
Padapāṭha
यः । पृ॒थि॒वीम् । व्यथ॑मानाम् । अदृं॑हत् । यः । पर्व॑तान् । प्रऽकु॑पितान् । अर॑म्णात् ।
यः । अ॒न्तरि॑क्षम् । वि॒ऽम॒मे । वरी॑यः । यः । द्याम् । अस्त॑भ्नात् । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥
यः । पृथिवीम् । व्यथमानाम् । अदृंहत् । यः । पर्वतान् । प्रऽकुपितान् । अरम्णात् ।
यः । अन्तरिक्षम् । विऽममे । वरीयः । यः । द्याम् । अस्तभ्नात् । सः । जनासः । इन्द्रः ॥
yáḥ ǀ pṛthivī́m ǀ vyáthamānām ǀ ádṛṃhat ǀ yáḥ ǀ párvatān ǀ prá-kupitān ǀ áramṇāt ǀ
yáḥ ǀ antárikṣam ǀ vi-mamé ǀ várīyaḥ ǀ yáḥ ǀ dyā́m ǀ ástabhnāt ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ
yaḥ ǀ pṛthivīm ǀ vyathamānām ǀ adṛṃhat ǀ yaḥ ǀ parvatān ǀ pra-kupitān ǀ aramṇāt ǀ
yaḥ ǀ antarikṣam ǀ vi-mame ǀ varīyaḥ ǀ yaḥ ǀ dyām ǀ astabhnāt ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.012.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.07.02
- Maṇḍala · Anuvāka · Ṛk
- 02.02.002
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.