Ṛk 2.12.3
Saṃhitā
यो ह॒त्वाहि॒मरि॑णात्स॒प्त सिंधू॒न्यो गा उ॒दाज॑दप॒धा व॒लस्य॑ ।
यो अश्म॑नोरं॒तर॒ग्निं ज॒जान॑ सं॒वृक्स॒मत्सु॒ स ज॑नास॒ इंद्रः॑ ॥
यो हत्वाहिम् अरिणात् सप्त सिन्धून् यो गा उदाजद् अपधा वलस्य |
यो अश्मनोर् अन्तर् अग्निं जजान संवृक् समत्सु स जनास इन्द्रः ||
yó hatvā́himáriṇātsaptá síndhūnyó gā́ udā́jadapadhā́ valásya ǀ
yó áśmanorantáragním jajā́na saṃvṛ́ksamátsu sá janāsa índraḥ ǁ
yo hatvāhim ariṇāt sapta sindhūn yo gā udājad apadhā valasya |
yo aśmanor antar agniṃ jajāna saṃvṛk samatsu sa janāsa indraḥ ||
Padapāṭha
यः । ह॒त्वा । अहि॑म् । अरि॑णात् । स॒प्त । सिन्धू॑न् । यः । गाः । उ॒त्ऽआज॑त् । अ॒प॒ऽधा । व॒लस्य॑ ।
यः । अश्म॑नोः । अ॒न्तः । अ॒ग्निम् । ज॒जान॑ । स॒म्ऽवृक् । स॒मत्ऽसु॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥
यः । हत्वा । अहिम् । अरिणात् । सप्त । सिन्धून् । यः । गाः । उत्ऽआजत् । अपऽधा । वलस्य ।
यः । अश्मनोः । अन्तः । अग्निम् । जजान । सम्ऽवृक् । समत्ऽसु । सः । जनासः । इन्द्रः ॥
yáḥ ǀ hatvā́ ǀ áhim ǀ áriṇāt ǀ saptá ǀ síndhūn ǀ yáḥ ǀ gā́ḥ ǀ ut-ā́jat ǀ apa-dhā́ ǀ valásya ǀ
yáḥ ǀ áśmanoḥ ǀ antáḥ ǀ agním ǀ jajā́na ǀ sam-vṛ́k ǀ samát-su ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ
yaḥ ǀ hatvā ǀ ahim ǀ ariṇāt ǀ sapta ǀ sindhūn ǀ yaḥ ǀ gāḥ ǀ ut-ājat ǀ apa-dhā ǀ valasya ǀ
yaḥ ǀ aśmanoḥ ǀ antaḥ ǀ agnim ǀ jajāna ǀ sam-vṛk ǀ samat-su ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.012.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.07.03
- Maṇḍala · Anuvāka · Ṛk
- 02.02.003
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.