Ṛk 2.12.13
Saṃhitā
द्यावा॑ चिदस्मै पृथि॒वी न॑मेते॒ शुष्मा॑च्चिदस्य॒ पर्व॑ता भयंते ।
यः सो॑म॒पा नि॑चि॒तो वज्र॑बाहु॒र्यो वज्र॑हस्तः॒ स ज॑नास॒ इंद्रः॑ ॥
द्यावा चिद् अस्मै पृथिवी नमेते शुष्माच् चिद् अस्य पर्वता भयन्ते |
यः सोमपा निचितो वज्रबाहुर् यो वज्रहस्तः स जनास इन्द्रः ||
dyā́vā cidasmai pṛthivī́ namete śúṣmāccidasya párvatā bhayante ǀ
yáḥ somapā́ nicitó vájrabāhuryó vájrahastaḥ sá janāsa índraḥ ǁ
dyāvā cid asmai pṛthivī namete śuṣmāc cid asya parvatā bhayante |
yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ ||
Padapāṭha
द्यावा॑ । चि॒त् । अ॒स्मै॒ । पृ॒थि॒वी इति॑ । न॒मे॒ते॒ इति॑ । शुष्मा॑त् । चि॒त् । अ॒स्य॒ । पर्व॑ताः । भ॒य॒न्ते॒ ।
यः । सो॒म॒ऽपाः । नि॒ऽचि॒तः । वज्र॑ऽबाहुः । यः । वज्र॑ऽहस्तः । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥
द्यावा । चित् । अस्मै । पृथिवी इति । नमेते इति । शुष्मात् । चित् । अस्य । पर्वताः । भयन्ते ।
यः । सोमऽपाः । निऽचितः । वज्रऽबाहुः । यः । वज्रऽहस्तः । सः । जनासः । इन्द्रः ॥
dyā́vā ǀ cit ǀ asmai ǀ pṛthivī́ íti ǀ namete íti ǀ śúṣmāt ǀ cit ǀ asya ǀ párvatāḥ ǀ bhayante ǀ
yáḥ ǀ soma-pā́ḥ ǀ ni-citáḥ ǀ vájra-bāhuḥ ǀ yáḥ ǀ vájra-hastaḥ ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ
dyāvā ǀ cit ǀ asmai ǀ pṛthivī iti ǀ namete iti ǀ śuṣmāt ǀ cit ǀ asya ǀ parvatāḥ ǀ bhayante ǀ
yaḥ ǀ soma-pāḥ ǀ ni-citaḥ ǀ vajra-bāhuḥ ǀ yaḥ ǀ vajra-hastaḥ ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.012.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.09.03
- Maṇḍala · Anuvāka · Ṛk
- 02.02.013
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.