Ṛk 2.12.12
Saṃhitā
यः स॒प्तर॑श्मिर्वृष॒भस्तुवि॑ष्मान॒वासृ॑ज॒त्सर्त॑वे स॒प्त सिंधू॑न् ।
यो रौ॑हि॒णमस्फु॑र॒द्वज्र॑बाहु॒र्द्यामा॒रोहं॑तं॒ स ज॑नास॒ इंद्रः॑ ॥
यः सप्तरश्मिर् वृषभस् तुविष्मान् अवासृजत् सर्तवे सप्त सिन्धून् |
यो रौहिणम् अस्फुरद् वज्रबाहुर् द्याम् आरोहन्तं स जनास इन्द्रः ||
yáḥ saptáraśmirvṛṣabhástúviṣmānavā́sṛjatsártave saptá síndhūn ǀ
yó rauhiṇámásphuradvájrabāhurdyā́māróhantam sá janāsa índraḥ ǁ
yaḥ saptaraśmir vṛṣabhas tuviṣmān avāsṛjat sartave sapta sindhūn |
yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indraḥ ||
Padapāṭha
यः । स॒प्तऽर॑श्मिः । वृ॒ष॒भः । तुवि॑ष्मान् । अ॒व॒ऽअसृ॑जत् । सर्त॑वे । स॒प्त । सिन्धू॑न् ।
यः । रौ॒हि॒णम् । अस्फु॑रत् । वज्र॑ऽबाहुः । द्याम् । आ॒ऽरोह॑न्तम् । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥
यः । सप्तऽरश्मिः । वृषभः । तुविष्मान् । अवऽअसृजत् । सर्तवे । सप्त । सिन्धून् ।
यः । रौहिणम् । अस्फुरत् । वज्रऽबाहुः । द्याम् । आऽरोहन्तम् । सः । जनासः । इन्द्रः ॥
yáḥ ǀ saptá-raśmiḥ ǀ vṛṣabháḥ ǀ túviṣmān ǀ ava-ásṛjat ǀ sártave ǀ saptá ǀ síndhūn ǀ
yáḥ ǀ rauhiṇám ǀ ásphurat ǀ vájra-bāhuḥ ǀ dyā́m ǀ ā-róhantam ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ
yaḥ ǀ sapta-raśmiḥ ǀ vṛṣabhaḥ ǀ tuviṣmān ǀ ava-asṛjat ǀ sartave ǀ sapta ǀ sindhūn ǀ
yaḥ ǀ rauhiṇam ǀ asphurat ǀ vajra-bāhuḥ ǀ dyām ǀ ā-rohantam ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.012.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.09.02
- Maṇḍala · Anuvāka · Ṛk
- 02.02.012
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.