Ṛk 2.12.4
Saṃhitā
येने॒मा विश्वा॒ च्यव॑ना कृ॒तानि॒ यो दासं॒ वर्ण॒मध॑रं॒ गुहाकः॑ ।
श्व॒घ्नीव॒ यो जि॑गी॒वां ल॒क्षमाद॑द॒र्यः पु॒ष्टानि॒ स ज॑नास॒ इंद्रः॑ ॥
येनेमा विश्वा च्यवना कृतानि यो दासं वर्णम् अधरं गुहाकः |
श्वघ्नीव यो जिगीवांल् लक्षम् आदद् अर्यः पुष्टानि स जनास इन्द्रः ||
yénemā́ víśvā cyávanā kṛtā́ni yó dā́sam várṇamádharam gúhā́kaḥ ǀ
śvaghnī́va yó jigīvā́m lakṣámā́dadaryáḥ puṣṭā́ni sá janāsa índraḥ ǁ
yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇam adharaṃ guhākaḥ |
śvaghnīva yo jigīvāṃl lakṣam ādad aryaḥ puṣṭāni sa janāsa indraḥ ||
Padapāṭha
येन॑ । इ॒मा । विश्वा॑ । च्यव॑ना । कृ॒तानि॑ । यः । दास॑म् । वर्ण॑म् । अध॑रम् । गुहा॑ । अक॒रित्यकः॑ ।
श्व॒घ्नीऽइ॑व । यः । जि॒गी॒वान् । ल॒क्षम् । आद॑त् । अ॒र्यः । पु॒ष्टानि॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥
येन । इमा । विश्वा । च्यवना । कृतानि । यः । दासम् । वर्णम् । अधरम् । गुहा । अकरित्यकः ।
श्वघ्नीऽइव । यः । जिगीवान् । लक्षम् । आदत् । अर्यः । पुष्टानि । सः । जनासः । इन्द्रः ॥
yéna ǀ imā́ ǀ víśvā ǀ cyávanā ǀ kṛtā́ni ǀ yáḥ ǀ dā́sam ǀ várṇam ǀ ádharam ǀ gúhā ǀ ákarítyakaḥ ǀ
śvaghnī́-iva ǀ yáḥ ǀ jigīvā́n ǀ lakṣám ǀ ā́dat ǀ aryáḥ ǀ puṣṭā́ni ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ
yena ǀ imā ǀ viśvā ǀ cyavanā ǀ kṛtāni ǀ yaḥ ǀ dāsam ǀ varṇam ǀ adharam ǀ guhā ǀ akarityakaḥ ǀ
śvaghnī-iva ǀ yaḥ ǀ jigīvān ǀ lakṣam ǀ ādat ǀ aryaḥ ǀ puṣṭāni ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 02.012.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.6.07.04
- Maṇḍala · Anuvāka · Ṛk
- 02.02.004
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gṛtsamada Bhārgava Śaunaka
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.