Ṛgveda · Maṇḍala 2 · Sūkta 12

Ṛk 2.12.15

Indra · Gṛtsamada Bhārgava Śaunaka

The whole sūkta Link

Saṃhitā

यः सु॑न्व॒ते पच॑ते दु॒ध्र आ चि॒द्वाजं॒ दर्द॑र्षि॒ स किला॑सि स॒त्यः ।
व॒यं त॑ इंद्र वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥

यः सुन्वते पचते दुध्र आ चिद् वाजं दर्दर्षि स किलासि सत्यः |
वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथम् आ वदेम ||

yáḥ sunvaté pácate dudhrá ā́ cidvā́jam dárdarṣi sá kílāsi satyáḥ ǀ
vayám ta indra viśváha priyā́saḥ suvī́rāso vidáthamā́ vadema ǁ

yaḥ sunvate pacate dudhra ā cid vājaṃ dardarṣi sa kilāsi satyaḥ |
vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidatham ā vadema ||

Padapāṭha

यः । सु॒न्व॒ते । पच॑ते । दु॒ध्रः । आ । चि॒त् । वाज॑म् । दर्द॑र्षि । सः । किल॑ । अ॒सि॒ । स॒त्यः ।
व॒यम् । ते॒ । इ॒न्द्र॒ । वि॒श्वह॑ । प्रि॒यासः॑ । सु॒ऽवीरा॑सः । वि॒दथ॑म् । आ । व॒दे॒म॒ ॥

यः । सुन्वते । पचते । दुध्रः । आ । चित् । वाजम् । दर्दर्षि । सः । किल । असि । सत्यः ।
वयम् । ते । इन्द्र । विश्वह । प्रियासः । सुऽवीरासः । विदथम् । आ । वदेम ॥

yáḥ ǀ sunvaté ǀ pácate ǀ dudhráḥ ǀ ā́ ǀ cit ǀ vā́jam ǀ dárdarṣi ǀ sáḥ ǀ kíla ǀ asi ǀ satyáḥ ǀ
vayám ǀ te ǀ indra ǀ viśváha ǀ priyā́saḥ ǀ su-vī́rāsaḥ ǀ vidátham ǀ ā́ ǀ vadema ǁ

yaḥ ǀ sunvate ǀ pacate ǀ dudhraḥ ǀ ā ǀ cit ǀ vājam ǀ dardarṣi ǀ saḥ ǀ kila ǀ asi ǀ satyaḥ ǀ
vayam ǀ te ǀ indra ǀ viśvaha ǀ priyāsaḥ ǀ su-vīrāsaḥ ǀ vidatham ǀ ā ǀ vadema ǁ

References

Maṇḍala · Sūkta · Ṛk
02.012.15
Aṣṭaka · Adhyāya · Varga · Ṛk
2.6.09.05
Maṇḍala · Anuvāka · Ṛk
02.02.015
Devatā देवता
Indra
Ṛṣi ऋषि
Gṛtsamada Bhārgava Śaunaka
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 2.12.15

Interpretations

Sāyaṇa

ऋतुर्जनित्रीतित्रयोदशर्चंद्वितीयंसूक्तंगार्त्समदं ऋतुःसप्तोनांत्यात्रिष्टुबित्यनुक्रमणिका अस्मभ्यं- तद्वसोइति त्रयोदशीत्रिष्टुप् शिष्टास्त्रिष्टुबन्तपरिभाषयाजगत्यः इन्द्रोदेवता उक्थेतृतीयसवनेच्छावा- कशस्त्रेअस्यसूक्तस्यविनियोगः सूत्रितञ्च—ऋतुर्जनित्रीनूमर्तोभवामित्रइति दशरात्रेषष्ठेहन्यपितृतीय- सवनेच्छावाकशस्त्रेएतत्सूक्तम् ऋतुर्जनित्रीतिनित्यान्यैकाहिकानीतिसूत्रितम् ।