Sūkta 6
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Somahūti Bhārgava
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (1, 3, 5, 8); nicṛdgāyatrī (2, 4, 6); virāḍgāyatrī (7)
2nd set of styles gāyatrī
-
Ṛk 1
इ॒मां मे॑ अग्ने स॒मिध॑मि॒मामु॑प॒सदं॑ वनेः ।
इ॒मा उ॒ षु श्रु॑धी॒ गिरः॑ ॥इमाम् मे अग्ने समिधम् इमाम् उपसदं वनेः |
इमा उ षु श्रुधी गिरः ||imā́m me agne samídhamimā́mupasádam vaneḥ ǀ
imā́ u ṣú śrudhī gíraḥ ǁimām me agne samidham imām upasadaṃ vaneḥ |
imā u ṣu śrudhī giraḥ ||इ॒माम् । मे॒ । अ॒ग्ने॒ । स॒म्ऽइध॑म् । इ॒माम् । उ॒प॒ऽसद॑म् । व॒ने॒रिति॑ वनेः ।
इ॒माः । ऊं॒ इति॑ । सु । श्रु॒धि॒ । गिरः॑ ॥इमाम् । मे । अग्ने । सम्ऽइधम् । इमाम् । उपऽसदम् । वनेरिति वनेः ।
इमाः । ऊं इति । सु । श्रुधि । गिरः ॥imā́m ǀ me ǀ agne ǀ sam-ídham ǀ imā́m ǀ upa-sádam ǀ vaneríti vaneḥ ǀ
imā́ḥ ǀ ūṃ íti ǀ sú ǀ śrudhi ǀ gíraḥ ǁimām ǀ me ǀ agne ǀ sam-idham ǀ imām ǀ upa-sadam ǀ vaneriti vaneḥ ǀ
imāḥ ǀ ūṃ iti ǀ su ǀ śrudhi ǀ giraḥ ǁ2.6.1 Aṣṭaka 2.5.27.1Anuvāka 2.1.58
-
Ṛk 2
अ॒या ते॑ अग्ने विधे॒मोर्जो॑ नपा॒दश्व॑मिष्टे ।
ए॒ना सू॒क्तेन॑ सुजात ॥अया ते अग्ने विधेमोर्जो नपाद् अश्वमिष्टे |
एना सूक्तेन सुजात ||ayā́ te agne vidhemórjo napādáśvamiṣṭe ǀ
enā́ sūkténa sujāta ǁayā te agne vidhemorjo napād aśvamiṣṭe |
enā sūktena sujāta ||अ॒या । ते॒ । अ॒ग्ने॒ । वि॒धे॒म॒ । ऊर्जः॑ । न॒पा॒त् । अश्व॑म्ऽइष्टे ।
ए॒ना । सु॒ऽउ॒क्तेन॑ । सु॒ऽजा॒त॒ ॥अया । ते । अग्ने । विधेम । ऊर्जः । नपात् । अश्वम्ऽइष्टे ।
एना । सुऽउक्तेन । सुऽजात ॥ayā́ ǀ te ǀ agne ǀ vidhema ǀ ū́rjaḥ ǀ napāt ǀ áśvam-iṣṭe ǀ
enā́ ǀ su-ukténa ǀ su-jāta ǁayā ǀ te ǀ agne ǀ vidhema ǀ ūrjaḥ ǀ napāt ǀ aśvam-iṣṭe ǀ
enā ǀ su-uktena ǀ su-jāta ǁ2.6.2 Aṣṭaka 2.5.27.2Anuvāka 2.1.59
-
Ṛk 3
तं त्वा॑ गी॒र्भिर्गिर्व॑णसं द्रविण॒स्युं द्र॑विणोदः ।
स॒प॒र्येम॑ सप॒र्यवः॑ ॥तं त्वा गीर्भिर् गिर्वणसं द्रविणस्युं द्रविणोदः |
सपर्येम सपर्यवः ||tám tvā gīrbhírgírvaṇasam draviṇasyúm draviṇodaḥ ǀ
saparyéma saparyávaḥ ǁtaṃ tvā gīrbhir girvaṇasaṃ draviṇasyuṃ draviṇodaḥ |
saparyema saparyavaḥ ||तम् । त्वा॒ । गीः॒ऽभिः । गिर्व॑णसम् । द्र॒वि॒ण॒स्युम् । द्र॒वि॒णः॒ऽदः॒ ।
स॒प॒र्येम॑ । स॒प॒र्यवः॑ ॥तम् । त्वा । गीःऽभिः । गिर्वणसम् । द्रविणस्युम् । द्रविणःऽदः ।
सपर्येम । सपर्यवः ॥tám ǀ tvā ǀ gīḥ-bhíḥ ǀ gírvaṇasam ǀ draviṇasyúm ǀ draviṇaḥ-daḥ ǀ
saparyéma ǀ saparyávaḥ ǁtam ǀ tvā ǀ gīḥ-bhiḥ ǀ girvaṇasam ǀ draviṇasyum ǀ draviṇaḥ-daḥ ǀ
saparyema ǀ saparyavaḥ ǁ2.6.3 Aṣṭaka 2.5.27.3Anuvāka 2.1.60
-
Ṛk 4
स बो॑धि सू॒रिर्म॒घवा॒ वसु॑पते॒ वसु॑दावन् ।
यु॒यो॒ध्य१॒॑स्मद्द्वेषां॑सि ॥स बोधि सूरिर् मघवा वसुपते वसुदावन् |
युयोध्य् अस्मद् द्वेषांसि ||sá bodhi sūrírmaghávā vásupate vásudāvan ǀ
yuyodhyásmáddvéṣāṃsi ǁsa bodhi sūrir maghavā vasupate vasudāvan |
yuyodhy asmad dveṣāṃsi ||सः । बो॒धि॒ । सू॒रिः । म॒घवा॑ । वसु॑ऽपते । वसु॑ऽदावन् ।
यु॒यो॒धि । अ॒स्मत् । द्वेषां॑सि ॥सः । बोधि । सूरिः । मघवा । वसुऽपते । वसुऽदावन् ।
युयोधि । अस्मत् । द्वेषांसि ॥sáḥ ǀ bodhi ǀ sūríḥ ǀ maghávā ǀ vásu-pate ǀ vásu-dāvan ǀ
yuyodhí ǀ asmát ǀ dvéṣāṃsi ǁsaḥ ǀ bodhi ǀ sūriḥ ǀ maghavā ǀ vasu-pate ǀ vasu-dāvan ǀ
yuyodhi ǀ asmat ǀ dveṣāṃsi ǁ2.6.4 Aṣṭaka 2.5.27.4Anuvāka 2.1.61
-
Ṛk 5
स नो॑ वृ॒ष्टिं दि॒वस्परि॒ स नो॒ वाज॑मन॒र्वाणं॑ ।
स नः॑ सह॒स्रिणी॒रिषः॑ ॥स नो वृष्टिं दिवस् परि स नो वाजम् अनर्वाणम् |
स नः सहस्रिणीर् इषः ||sá no vṛṣṭím diváspári sá no vā́jamanarvā́ṇam ǀ
sá naḥ sahasríṇīríṣaḥ ǁsa no vṛṣṭiṃ divas pari sa no vājam anarvāṇam |
sa naḥ sahasriṇīr iṣaḥ ||सः । नः॒ । वृ॒ष्टिम् । दि॒वः । परि॑ । सः । नः॒ । वाज॑म् । अ॒न॒र्वाण॑म् ।
सः । नः॒ । स॒ह॒स्रिणीः॑ । इषः॑ ॥सः । नः । वृष्टिम् । दिवः । परि । सः । नः । वाजम् । अनर्वाणम् ।
सः । नः । सहस्रिणीः । इषः ॥sáḥ ǀ naḥ ǀ vṛṣṭím ǀ diváḥ ǀ pári ǀ sáḥ ǀ naḥ ǀ vā́jam ǀ anarvā́ṇam ǀ
sáḥ ǀ naḥ ǀ sahasríṇīḥ ǀ íṣaḥ ǁsaḥ ǀ naḥ ǀ vṛṣṭim ǀ divaḥ ǀ pari ǀ saḥ ǀ naḥ ǀ vājam ǀ anarvāṇam ǀ
saḥ ǀ naḥ ǀ sahasriṇīḥ ǀ iṣaḥ ǁ2.6.5 Aṣṭaka 2.5.27.5Anuvāka 2.1.62
-
Ṛk 6
ईळा॑नायाव॒स्यवे॒ यवि॑ष्ठ दूत नो गि॒रा ।
यजि॑ष्ठ होत॒रा ग॑हि ॥ईऌआनायावस्यवे यविष्ठ दूत नो गिरा |
यजिष्ठ होतर् आ गहि ||ī́ḷānāyāvasyáve yáviṣṭha dūta no girā́ ǀ
yájiṣṭha hotarā́ gahi ǁīḷānāyāvasyave yaviṣṭha dūta no girā |
yajiṣṭha hotar ā gahi ||ईळा॑नाय । अ॒व॒स्यवे॑ । यवि॑ष्ठ । दू॒त॒ । नः॒ । गि॒रा ।
यजि॑ष्ठ । हो॒तः॒ । आ । ग॒हि॒ ॥ईळानाय । अवस्यवे । यविष्ठ । दूत । नः । गिरा ।
यजिष्ठ । होतः । आ । गहि ॥ī́ḷānāya ǀ avasyáve ǀ yáviṣṭha ǀ dūta ǀ naḥ ǀ girā́ ǀ
yájiṣṭha ǀ hotaḥ ǀ ā́ ǀ gahi ǁīḷānāya ǀ avasyave ǀ yaviṣṭha ǀ dūta ǀ naḥ ǀ girā ǀ
yajiṣṭha ǀ hotaḥ ǀ ā ǀ gahi ǁ2.6.6 Aṣṭaka 2.5.27.6Anuvāka 2.1.63
-
Ṛk 7
अं॒तर्ह्य॑ग्न॒ ईय॑से वि॒द्वांजन्मो॒भया॑ कवे ।
दू॒तो जन्ये॑व॒ मित्र्यः॑ ॥अन्तर् ह्य् अग्न ईयसे विद्वाञ् जन्मोभया कवे |
दूतो जन्येव मित्र्यः ||antárhyágna ī́yase vidvā́ñjánmobháyā kave ǀ
dūtó jányeva mítryaḥ ǁantar hy agna īyase vidvāñ janmobhayā kave |
dūto janyeva mitryaḥ ||अ॒न्तः । हि । अ॒ग्ने॒ । ईय॑से । वि॒द्वान् । जन्म॑ । उ॒भया॑ । क॒वे॒ ।
दू॒तः । जन्या॑ऽइव । मित्र्यः॑ ॥अन्तः । हि । अग्ने । ईयसे । विद्वान् । जन्म । उभया । कवे ।
दूतः । जन्याऽइव । मित्र्यः ॥antáḥ ǀ hí ǀ agne ǀ ī́yase ǀ vidvā́n ǀ jánma ǀ ubháyā ǀ kave ǀ
dūtáḥ ǀ jányā-iva ǀ mítryaḥ ǁantaḥ ǀ hi ǀ agne ǀ īyase ǀ vidvān ǀ janma ǀ ubhayā ǀ kave ǀ
dūtaḥ ǀ janyā-iva ǀ mitryaḥ ǁ2.6.7 Aṣṭaka 2.5.27.7Anuvāka 2.1.64
-
Ṛk 8
स वि॒द्वाँ आ च॑ पिप्रयो॒ यक्षि॑ चिकित्व आनु॒षक् ।
आ चा॒स्मिन्त्स॑त्सि ब॒र्हिषि॑ ॥स विद्वां आ च पिप्रयो यक्षि चिकित्व आनुषक् |
आ चास्मिन् सत्सि बर्हिषि ||sá vidvā́m̐ ā́ ca piprayo yákṣi cikitva ānuṣák ǀ
ā́ cāsmíntsatsi barhíṣi ǁsa vidvāṃ ā ca piprayo yakṣi cikitva ānuṣak |
ā cāsmin satsi barhiṣi ||सः । वि॒द्वान् । आ । च॒ । पि॒प्र॒यः॒ । यक्षि॑ । चि॒कि॒त्वः॒ । आ॒नु॒षक् ।
आ । च॒ । अ॒स्मिन् । स॒त्सि॒ । ब॒र्हिषि॑ ॥सः । विद्वान् । आ । च । पिप्रयः । यक्षि । चिकित्वः । आनुषक् ।
आ । च । अस्मिन् । सत्सि । बर्हिषि ॥sáḥ ǀ vidvā́n ǀ ā́ ǀ ca ǀ piprayaḥ ǀ yákṣi ǀ cikitvaḥ ǀ ānuṣák ǀ
ā́ ǀ ca ǀ asmín ǀ satsi ǀ barhíṣi ǁsaḥ ǀ vidvān ǀ ā ǀ ca ǀ piprayaḥ ǀ yakṣi ǀ cikitvaḥ ǀ ānuṣak ǀ
ā ǀ ca ǀ asmin ǀ satsi ǀ barhiṣi ǁ2.6.8 Aṣṭaka 2.5.27.8Anuvāka 2.1.65
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.